भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 321, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 321

१२ ३ अ० १ पा० ४ खं० । अच्छावाकस्य यच्छस्त्रम्-अभिजित्द्विश्वजिदादिषु अहीनकेषु अहः सु अहीनसूक्तं नाम तत्रेयं शस्यते । “न जामये तान्व” ( ६ खं० ) इति द्वयमपि अनयैव समानार्ष विनियोग दैवतच्छन्दस्का । ( मन्त्रार्थः ) “वह्नि” 'वोढा' उद्बोढा स्त्रियाः 'सन्तानकर्मणे' अर्थाय"दुहितुः” या स्वस्यां भार्यायां जायते पुत्री तस्याः 'पुत्रभावं' 'इवमेव मे पुत्रः' इति भावं “शासत्” 'प्रशास्ति' प्रख्यापयति प्रज्ञा- पयति इत्यर्थः । कथं पुनर्जायते प्रशास्ति-इति ? । उच्यते-इतः । यस्मात् “नप्ताङ्गात्” 'नप्तारमुपागमत्' उपागच्छति चेतसा, दौहित्रं पौत्रमिति । कीदृशः ? “ऋतस्य” 'प्रजननयज्ञस्य' 'रेतसो वा “विद्वान्” अभिज्ञः किं कुर्वन् ? “दीधितिं”'विधानं'“सपर्यन्” अविशेषेण पुत्रदुहित्रोर्गर्भाधानेतिकर्त्तव्यतां पूजयन् सञ्जानन्नित्यर्थः । “पिता” ‘यत्र” यस्मिन् काले “दुहितुः” ‘अप्रत्तायाः’ प्रदानात्-प्राक्-इत्यर्थः “सेकं” 'रेतः सेकं' जामातरम् “ऋञ्जन्” 'प्रार्जयति' प्रकल्पयति तदा तस्मै दुहितरं ददत् “संशग्म्येन” संगमेन विगतापुत्रत्वसन्तापेन “मनसा” चेतसा