निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 321, कुल 1282 में से
संदर्भ में पढ़ें१२ ३ अ० १ पा० ४ खं० । अच्छावाकस्य यच्छस्त्रम्-अभिजित्द्विश्वजिदादिषु अहीनकेषु अहः सु अहीनसूक्तं नाम तत्रेयं शस्यते । “न जामये तान्व” ( ६ खं० ) इति द्वयमपि अनयैव समानार्ष विनियोग दैवतच्छन्दस्का । ( मन्त्रार्थः ) “वह्नि” 'वोढा' उद्बोढा स्त्रियाः 'सन्तानकर्मणे' अर्थाय"दुहितुः” या स्वस्यां भार्यायां जायते पुत्री तस्याः 'पुत्रभावं' 'इवमेव मे पुत्रः' इति भावं “शासत्” 'प्रशास्ति' प्रख्यापयति प्रज्ञा- पयति इत्यर्थः । कथं पुनर्जायते प्रशास्ति-इति ? । उच्यते-इतः । यस्मात् “नप्ताङ्गात्” 'नप्तारमुपागमत्' उपागच्छति चेतसा, दौहित्रं पौत्रमिति । कीदृशः ? “ऋतस्य” 'प्रजननयज्ञस्य' 'रेतसो वा “विद्वान्” अभिज्ञः किं कुर्वन् ? “दीधितिं”'विधानं'“सपर्यन्” अविशेषेण पुत्रदुहित्रोर्गर्भाधानेतिकर्त्तव्यतां पूजयन् सञ्जानन्नित्यर्थः । “पिता” ‘यत्र” यस्मिन् काले “दुहितुः” ‘अप्रत्तायाः’ प्रदानात्-प्राक्-इत्यर्थः “सेकं” 'रेतः सेकं' जामातरम् “ऋञ्जन्” 'प्रार्जयति' प्रकल्पयति तदा तस्मै दुहितरं ददत् “संशग्म्येन” संगमेन विगतापुत्रत्वसन्तापेन “मनसा” चेतसा