भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 328, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 328

हिन्दी निरुक्त । १६ श्मशयनम् । श्मशरीरम् । शरीरं शृणातेः । शम्नाते र्वा । श्मश्रु लोम । श्मनि श्रितं भवति । लोम लुनाते र्वा । लीयते र्वा । “नो परस्या विष्कुर्यात्, यदुप॒रस्या विष्कुर्याद् गर्त॑ष्ठाः स्यात् प्रमायुको यजमानः ।”— इत्यपि निगमो भवति । रथोऽपि गर्त॑ उच्यते । गृणातेः स्तुतिकर्मणः । स्तुततमं यानम् । - “आरोहथो वरुण मित्र गर्त॑म् ।” [ ऋ० सं० ४, ३, ३१, ३ ] इत्यपि निगमो भवति । जायेव पत्ये कामय- माना सुवासा ऋतुकालेषु उषाः हसना इव दन्तान् विवृणुते रूपाणि इति । चतस्रः उपमाः । “नाभ्रात्रीमुपयच्छेत तोकं ह्यस्य तद् भवति”- इति अभ्रातृकायाः उपयमनप्रतिषेधः प्रत्यक्षः पितुश्च पुत्रभावः । [ उत्तरार्द्धव्याख्या खं० ४ ] पिता यत्र दुहितुः-अप्रत्ताया रेतः सेकं मार्जयति सन्दधाति- आत्मानं सङ्गमेन मनसा-इति । अथ-एतां जाम्या ऋक्यप्रतिषेधे—उदाहरन्ति । ज्येष्ठं पुत्रिकायाः इत्येके ॥ ५ ॥