भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 329, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 329

२० ३ अ० १ पा० ५ खं० । अर्थः । “अभ्रातेव” इति दीर्घतमः पुत्रस्य कक्षीवत आर्षम् । त्रिष्टुप् । औषसी । प्रातरनुवाकाश्विनयोः शस्यते ।” (मन्त्रार्थः) [ १ म-पा० ] “अभ्राता इव” 'अभ्रातृका' कन्या यथा दत्ता अपि पित्रा, स्वीकृताऽपि भर्त्रा, पुनः “पुंसः” 'पितॄन्' पितृवंशमेव “प्रतीची” 'अभिमुखी' 'सन्तानकर्मणे पिण्डदानाय' “एति” आगच्छति, 'न' 'पति' पतिवंशमित्यर्थः । एवम् उषाः अपरकाले रात्रां नभः आरोहति । [ द्वि० पा० ] “धनानां” “सनये” लब्धये काचिद् दाक्षिणात्या स्त्री “गर्तारुक्-इव” यथा गर्तं सभास्था- णुम् आरोहति तथा उषाः अपि नभः आरोहति । [ तृ० पा० ] “जाया-इव” जाया यथा “पत्ये” भर्त्रे “उशती” कामयमाना “सुवासाः” भूत्वा ऋतुषु आत्मानं दर्शयति, तथा उषाः अपि आत्मानं जनानां दर्शयति । [ च० पा० ] “हस्रा-इव” काचित् हसनशीला स्त्री यथा आत्मनो दन्तान् दर्शयति, तथा उषाः अपि आत्मनोऽन्तर्गतानि सर्वद्रव्याणां रूपाणि दर्शयति ।

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य) · पृष्ठ 329, कुल 1282 में से · BharatKosha