निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 329, कुल 1282 में से
संदर्भ में पढ़ें२० ३ अ० १ पा० ५ खं० । अर्थः । “अभ्रातेव” इति दीर्घतमः पुत्रस्य कक्षीवत आर्षम् । त्रिष्टुप् । औषसी । प्रातरनुवाकाश्विनयोः शस्यते ।” (मन्त्रार्थः) [ १ म-पा० ] “अभ्राता इव” 'अभ्रातृका' कन्या यथा दत्ता अपि पित्रा, स्वीकृताऽपि भर्त्रा, पुनः “पुंसः” 'पितॄन्' पितृवंशमेव “प्रतीची” 'अभिमुखी' 'सन्तानकर्मणे पिण्डदानाय' “एति” आगच्छति, 'न' 'पति' पतिवंशमित्यर्थः । एवम् उषाः अपरकाले रात्रां नभः आरोहति । [ द्वि० पा० ] “धनानां” “सनये” लब्धये काचिद् दाक्षिणात्या स्त्री “गर्तारुक्-इव” यथा गर्तं सभास्था- णुम् आरोहति तथा उषाः अपि नभः आरोहति । [ तृ० पा० ] “जाया-इव” जाया यथा “पत्ये” भर्त्रे “उशती” कामयमाना “सुवासाः” भूत्वा ऋतुषु आत्मानं दर्शयति, तथा उषाः अपि आत्मानं जनानां दर्शयति । [ च० पा० ] “हस्रा-इव” काचित् हसनशीला स्त्री यथा आत्मनो दन्तान् दर्शयति, तथा उषाः अपि आत्मनोऽन्तर्गतानि सर्वद्रव्याणां रूपाणि दर्शयति ।