निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 337, कुल 1282 में से
संदर्भ में पढ़ेंतृतीयाध्याये— द्वितीयः पादः । [ निघण्टुः ] मनुष्याः ( १ ) । नरः ( २ ) । धवाः ( ३ ) । जन्तवः ( ४ ) । विशः ( ५ ) । क्षितयः ( ६ ) । कृष्टयः ( ७ ) । चर्षशयः ( ८ ) । नहुषः ( ६ ) । हरयः ( १० ) । मर्याः ( ११ ) । मर्त्यांः ( १२ ) । मर्त्ताः ( १३ ) । व्राताः ( १४ ) । तुर्वशाः ( १५ ) । द्रुह्यवः ( १६ ) । आयवः ( १७ ) । यदवः ( १८ ) । अनवः ( १८ ) । पूरवः ( २० ) । जगतः ( २१ ) । तस्थुषः ( २२ ) । पञ्चजनाः (२३) । विवस्वन्तः ( २४ ) । पृतनाः ( २५ । इति पञ्चविंशति- र्मनुष्य नामानि ॥ ३ ॥ ( खण्ड १ ) [ निरुक्तम् ] मनुष्य नामानि उत्तराणि पञ्च- विंशतिः । मनुष्याः कस्मात् ? मत्वा कर्माणि सी- व्यन्ति । मनस्यमानेन सृष्टाः । मनस्यतिः पुनर्मन- स्वीभावे । मनोरपत्यं मनुषाः वा । तत्र पञ्चजनाः इत्येतस्य निगमाः भवन्ति ॥ १ ॥