भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 340, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 340

'गन्धर्वाः, पितरः, देवाः, असुराः, रक्षांसि'-इत्येके । 'चत्वारो वर्णाः निषादः पञ्चमः'- इति औपमन्यवः । 'निषादः' कस्मात् ? 'निषण्ण मस्मिन् पापकम्'- इति नैरुक्ताः । "यत् पाञ्चजन्या विशा ।" पञ्चज- नीनया विशा । 'पञ्च' पृक्ता संख्या । स्त्रीपुंनपुंसकेषु अविशिष्टा । बाहुनामानि उत्तराणि द्वादश । 'बाहू' कस्मात् ? प्रबाधत आभ्यां कर्माणि । अङ्गुलिनामानि उत्तराणि द्वाविंशतिः । अङ्गुलियः कस्मात् ? अग्रगामिन्यो भवन्ति-इति वा । अग्र गालिन्यो भवन्ति इति वा अग्रकारिण्यो भवन्ति- इति वा । अङ्कना भवन्ति-इति वा । अञ्चना भवन्ति इति वा । अपि वा अभ्यञ्जनादेव स्युः । तासामेषा भवति ॥ २ ॥ अर्थ । "तदद्य वाचः"-इति सौचीकस्य अग्नेरार्षम् । तस्य विश्वैर्देवैः सह संवादः । तत्रेयं होतृजपे विनियुक्ता । मन्त्रार्थः-हे देवाः ! अद्य अहम् "तत्" "प्रथमं" 'परमम्' उत्कृष्टम् "वाचो" वीर्यं "संसीय"