निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
DevanagariHindipublished1,282 पृष्ठ
पृष्ठ 351, कुल 1282 में से
संदर्भ में पढ़ेंपृष्ठ 351
भ्यः' 'धूः' धूर्वतेर्वधकर्मणः । इयमपि इतरा धूः- एतस्मादेव । विहन्ति वहम् । धारयते वा । कान्तिकर्माणः उत्तरे धातवः अष्टादश । अन्ननामानि उत्तराणि अष्टाविंशतिः । अन्नं कस्मात् ? आनतं भूतेभ्यः । अत्तेर्वा । अतिकर्माणः उत्तरे धातवो दश । बलनामानि उत्तराणि अष्टाविंशतिः । 'बलं' कस्मात् ? बलं भरं भवति । बिभर्त्तेः । धननामानि उत्तराणि अष्टाविंशतिरेव । धनं कस्मात् ? धिनोति-इति सतः । गोनामानि उत्तराणि नव । क्रुध्यतिकर्माणः उत्तरे धातवो दश । क्रोधनामानि उत्तराणि एकादश । गतिकर्माणः उत्तरे धातवो द्वाविंशत्यतम् । क्षिप्रनामानि उत्तराणि षड्विंशतिः । 'क्षिप्रं' कस्मात् ? संक्षिप्तो विकर्षः । अन्तिकनामानि उत्तराणि एकादश । 'अन्तिकं कस्मात् ? आनीतं भवति ।