निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 366, कुल 1282 में से
संदर्भ में पढ़ें५८ ३ अ० २ पा० ६ खं० । ( खण्ड ६ ) [ निरु० ] “यत्रा सुपर्णा अमृतस्य भागमनिमेषं विदथा भिसरन्ति । इनो विश्वस्य भुवनस्य गोपाः समाधीरः पाकमत्राविवेश ॥” [ ऋ० सं० २, ३, १८. १ ] यत्र “सुपर्णाः” सुपतनाः आदित्यरश्मयः- “अमृ- तस्य भागं” मुदकस्य अनिमिषन्तः वेदनेन “अभि- स्वरन्ति”-इति वा, अभिप्रयन्ति-इति वा । ईश्वरः सर्वेषां भूतानां गोपायिता आदित्यः । “स मा धीरः पाकमत्राविवेश”-इति । “धीरः” धीमान् । “पाकः” पक्तव्या भवति । विपक्वप्रज्ञः आदित्यः- इति उपनिषद्वर्णो भवति-इति अधिदैवतम् । अथा- ध्यात्मम् । यत्र सुपर्णाः सुपतनानि इन्द्रियाणि अमृ- तस्य भागं ज्ञानस्य अनिमिषन्तः वेदनेन अभि- स्वरन्ति इति वा, अभिप्रयन्ति इति वा । ईश्वरः सर्वेषाम् इन्द्रियाणां गोपायिता आत्मा “स मा धीरः पाकमत्राविवेश” इति । “धीरः धीमान्” “पाकः” पक्तव्या भवति, विपक्वप्रज्ञः आत्मा इति आत्मगतिमाचष्टे ॥ ६ ॥ इति तृतीयाध्यायस्य द्वितीयः पादः ॥ ३, २, ॥