निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 380, कुल 1282 में से
संदर्भ में पढ़ें'धव' इति मनुष्य नाम । तद् वियोगाद् विधवा । 'देवगो' दीव्यतिकर्मा । 'मर्यो' मनुष्यः । मरणधर्मा 'योषा' यौतेः । [ ४ र्थ पादः ] आकुरुते सहस्थने ॥ अथ निपाताः पुरस्तादेव व्याख्याताः । 'यथा' इति कर्मोपमा । “यथा वातो यथा वनं यथा समुद्र एजति” ॥ [ ऋ० सं० ५, ५, २, ५ ] “भ्राजन्तो अग्नयो यथा” ॥ [ ऋ० सं० १, ४, ७, ३ ] ‘आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा' । [ ऋ० सं० ८, ५, १०, १, ] [एक पद निरु-] 'आत्मा' अतते र्वा । आप्तेर्वा । अपि वा आप्त इव स्याद्, यावद् व्याप्तिभूत इति । “अग्नि र्न ये भ्राजसा रुक्मवक्षसः” [ऋ० सं० ८, ३, १२, २] अग्निरिव ये (मारुतो भ्राजमाना रोचिष् पूरस्काः ) भ्राजस्वन्तो रुक्मवक्षसः ॥ ३ ॥ अर्थ । “कुहस्विद्दोषा” मन्त्रका कक्षोवान्की पुत्री घोषा ऋषि अश्विन् देवता । जगती छन्दः । प्रातरनुवाक और आश्विनमें शस्त्र है ।” १०