निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 441, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( २१ ) ४ अ० १ पा० १ खं० प्रासंगिक शब्दाः। शब्द अर्थ नोधाः ऋषिः। नवनं दधाति। अद्य अन्नम्। वाशी वाक्। सा हि वाश्यते। (द्वितीयःपादः समाप्तः) तृतीयः पादः रयिः धनम्। राते र्दानकर्मणः। कच्छपः कच्छं पाति। कच्छेन पाति। कच्छेन पिवति इति वा। कच्छः खच्छः। खल्छदः। अयमपि नदीकच्छः एतस्मा- देव। कम्-उदकं तेन छाद्यते। रक्षः रक्षितव्यम्-अस्मात्। रहसि क्षणोति-इतिवा। रात्रौ नक्षते इतिवा। (खं०२) युवा प्रयौति कर्माणि। (खं० ३) तक्षतिः करोतिकर्मा। विचितयन्तः विचेतयमानाः। पातम् पिवतम्। द्रोः द्रुममयस्य। हरिः सोमः। हरितवर्णः अयमपि इतरो 'हरिः' एतस्मादेव। शिश्नदेवाः अब्रह्मचर्याः। शिश्नम् श्नथतेः। ऋतम् सत्यं वा। यज्ञं वा। घा (अनर्थकम्। ) (खं० ४) आगच्छान् आगमिष्यन्ति। उपबर्बृहि उपधेहि।