निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 485, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त (६६) ४ अ० ३ पा० २ खं० उच्यते। अकूपारो भवति महापारः। कच्छपोऽपि 'अकूपारः' उच्यते। 'अकूपारः' 'न कूपम्-ऋच्छति' इति। 'कच्छपः' कच्छंपाति। कच्छेन पाति-इतिवा। 'कच्छः' खच्छः, खच्छदः। अयमपि-इतरो नदी- कच्छ एतस्मादेव। कम्-उदकं तेन छाद्यते। (३४) “शिशीते शृङ्गे रक्षसे विनिक्षे” [ऋ० सं० ३, ८, १५, ३] (भा०) निश्यति शृङ्गे रक्षसो विनिक्षणाय। 'रक्षः' रक्षितव्यम्-अस्माद् रहसि। क्षणोति-इतिवा रात्रौ नक्षते-इतिवा। (३५) “अग्निः सुतुकः सुतुकेभिरश्वैः” [ऋ०७,५,३१,७] (भा०) सुतुकनः, सुतुकनैः-इतिवा। सुप्रजाः, -- सुप्रजोभिः-इतिवा। (३६) “सुप्रायणा अस्मिन् यज्ञे विश्रयन्ताम् ।” [ य० का सं० वा सं० २८, ५]। (भा०) सुप्रगमनाः २ (१८) ॥ अनुवादः। 'दावने' (३२) (दानस्य) और 'अकूपारस्य' (३३) (अकुपरणस्य) इन दो अनवगत पदों का निम्न—