भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 505, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 505

हिन्दी निरुक्त ( ८६ ) ४ अ० ४ पा० ४ खं० “कुत्साय मन्मन्नह्यश्च दंसयः” (ऋ० सं० ८, ७, २६, १) इत्यपिनिगमो भवति ॥ “सतूताव (५७) नैनमश्नोत्यंहतिः ।” [ऋ० सं० १, ६, ३०, २ ] (भा०) सतुताव न-एनम् अंहतिः अश्नोति । 'अंहति' श्व-अंहश्च, अंहुश्च, हन्ते र्निरूढोपधाद् विपरीतात् ॥ “बृहस्पते चयसे (५८) इत्पियारम्” [ऋ० सं० २, ५, १२, ५ ] (भा०) बृहस्पते यच्चातयसि देवपीय़ुम् । पीयति हिंसाकर्मा । वियुते (५९) द्यावापृथिव्यौ । वियवनात् । “समान्या वियुते दूरे अन्ते ।” [ऋ० सं० ३, ३, २५, २,] (भा०) 'समानं' सम्मानमात्रं भवति । 'मात्रा' मानात् । 'दूरं' व्याख्यातम् । 'अन्तः' अततेः । 'ऋधक्' (६०)-इति पृथग् भावस्य प्रवचनं भवति । अथापि ऋध्नोत्यर्थे दृश्यते । “ऋधगया ऋधगुताशमिष्ठाः” [य०वा०सं०८,२०] (भा०) ऋध्नुवन्नयाक्षीः, ऋध्नुवन्नशमिष्ठाः ।