निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 506, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( ८७ ) ४ अ० ४ पा० ४ खं० ‘अस्याः’ (६१) इतिच ‘अस्य’-(६२) इतिच । उ- दात्तं प्रथमादेशे । अनुदात्तम् अन्वादेशे । तीव्रार्थ- तरम्-उदात्तम् । अल्पीयोऽर्थतरम्-अनुदात्तम् । “अस्या ऊ षु ण उपसातये भुवोऽहेलमानो ररि- वाँ अजाश्व” (श्रवस्यतामजाश्व) । [ऋ० सं० २, २, २, ४] । (भा०-) अस्यै नः सातये उपभव । “अहेलमानः” अक्रुध्यन् “ररिवान्” रातिः (अदा० प०) अभ्यस्तः “अजाश्व” इति पूषणमाह । अजनाश्व । ‘अजाः’ अजनाः । अथ-अनुदात्तम् ।— “दीर्घायुरस्यायः पतिर्जीवाति शरदःशतम् ।” [ऋ० सं० ८, ३, २७, ४] । (भा०) दीर्घायुः अस्याः यः पतिर्जीवितु स शरदः शतम् । ‘शरत्’ शृता अस्याम्-ओषधयो भवन्ति । शीर्णा आप इति वा ॥ ‘अस्य’ (६२) इति ‘अस्याः’ [६२] इत्येतेन व्या- ख्यातम् ॥ ४ [२५] ॥ अनुवादः ‘गौ’ यह अनेकार्थ होने से यहा नैगम काण्ड में समाम्नान हुआ है । एवम् जिस प्रकार यह अनेकार्थ है, सो पहिले (नै० का० अ० २ पा०२ ख० १) दिखाया जाचुका । किन्तु पहिले यह भी कहा गया था कि—