भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 506, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 506

हिन्दी निरुक्त ( ८७ ) ४ अ० ४ पा० ४ खं० ‘अस्याः’ (६१) इतिच ‘अस्य’-(६२) इतिच । उ- दात्तं प्रथमादेशे । अनुदात्तम् अन्वादेशे । तीव्रार्थ- तरम्-उदात्तम् । अल्पीयोऽर्थतरम्-अनुदात्तम् । “अस्या ऊ षु ण उपसातये भुवोऽहेलमानो ररि- वाँ अजाश्व” (श्रवस्यतामजाश्व) । [ऋ० सं० २, २, २, ४] । (भा०-) अस्यै नः सातये उपभव । “अहेलमानः” अक्रुध्यन् “ररिवान्” रातिः (अदा० प०) अभ्यस्तः “अजाश्व” इति पूषणमाह । अजनाश्व । ‘अजाः’ अजनाः । अथ-अनुदात्तम् ।— “दीर्घायुरस्यायः पतिर्जीवाति शरदःशतम् ।” [ऋ० सं० ८, ३, २७, ४] । (भा०) दीर्घायुः अस्याः यः पतिर्जीवितु स शरदः शतम् । ‘शरत्’ शृता अस्याम्-ओषधयो भवन्ति । शीर्णा आप इति वा ॥ ‘अस्य’ (६२) इति ‘अस्याः’ [६२] इत्येतेन व्या- ख्यातम् ॥ ४ [२५] ॥ अनुवादः ‘गौ’ यह अनेकार्थ होने से यहा नैगम काण्ड में समाम्नान हुआ है । एवम् जिस प्रकार यह अनेकार्थ है, सो पहिले (नै० का० अ० २ पा०२ ख० १) दिखाया जाचुका । किन्तु पहिले यह भी कहा गया था कि—

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य) · पृष्ठ 506, कुल 1282 में से · BharatKosha