निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 513, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( ६४ ) ४ अ० ४ पा० खं० ६ ‘वर्षाः’ वर्षति आसु पर्जन्यः। ‘हेमन्तः’ हिमवान्। ‘हिमं’ पुनः-हन्तेर्वा। हिनोतेर्वा। “अजरम्” अ- जरणधर्म्माणम्। “अनर्वम्” अप्रत्यूतम् अन्यस्मिन्। “यत्र” इमानि सर्वाणि भूतानि अभिसन्तिष्ठन्ते। तं संवत्सरं सर्वमात्राभिः स्तौति— “पञ्चारे चक्रे परिवर्त्तमाने—” [ऋ० सं० २, ३, १६, ३,—१, २२, ८, १३] । इति पञ्चर्तुतया। “पञ्चर्त्तवः संवत्सरस्य-” इति च ब्राह्मणम्,—हेमन्तशिशिरयोः समासेन । “षळर आहुरर्पितम्” [ऋ० सं० २, ३, १६, १] इति षडृतुतया ‘अराः’ । प्रत्यताः नाभौ । ‘षट्’ पुनः सहतेः । “द्वादशारं नहि तज्जराय” [ऋ०सं०२, ३, १६, १] “द्वादशप्रधयश्चक्रमेकम्” (ऋ० सं० २, ३, २३, २) इति [द्वौपादौ] मासानाम् । ‘मासाः’ मानात् । ‘प्रधिः’ प्रहितो भवति । “तस्मिन् साकं त्रिशता न शङ्कवोऽर्पिताः षष्टिर्न चला चलासः ।” (ऋ० सं० २, ३, २३, २) “षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्य अ- होरात्रा-” इतिच ब्राह्मणं समासेन ।