भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 513, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 513

हिन्दी निरुक्त ( ६४ ) ४ अ० ४ पा० खं० ६ ‘वर्षाः’ वर्षति आसु पर्जन्यः। ‘हेमन्तः’ हिमवान्। ‘हिमं’ पुनः-हन्तेर्वा। हिनोतेर्वा। “अजरम्” अ- जरणधर्म्माणम्। “अनर्वम्” अप्रत्यूतम् अन्यस्मिन्। “यत्र” इमानि सर्वाणि भूतानि अभिसन्तिष्ठन्ते। तं संवत्सरं सर्वमात्राभिः स्तौति— “पञ्चारे चक्रे परिवर्त्तमाने—” [ऋ० सं० २, ३, १६, ३,—१, २२, ८, १३] । इति पञ्चर्तुतया। “पञ्चर्त्तवः संवत्सरस्य-” इति च ब्राह्मणम्,—हेमन्तशिशिरयोः समासेन । “षळर आहुरर्पितम्” [ऋ० सं० २, ३, १६, १] इति षडृतुतया ‘अराः’ । प्रत्यताः नाभौ । ‘षट्’ पुनः सहतेः । “द्वादशारं नहि तज्जराय” [ऋ०सं०२, ३, १६, १] “द्वादशप्रधयश्चक्रमेकम्” (ऋ० सं० २, ३, २३, २) इति [द्वौपादौ] मासानाम् । ‘मासाः’ मानात् । ‘प्रधिः’ प्रहितो भवति । “तस्मिन् साकं त्रिशता न शङ्कवोऽर्पिताः षष्टिर्न चला चलासः ।” (ऋ० सं० २, ३, २३, २) “षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्य अ- होरात्रा-” इतिच ब्राह्मणं समासेन ।

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य) · पृष्ठ 513, कुल 1282 में से · BharatKosha