निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 654, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त (२३६) ६ अ० १ पा० ४ खं० उद्धर रक्षः सहमूल मिन्द्र । 'मूलं' मोचनाद्वा । मोषणाद्वा । मोहनाद्वा । वृश्च मध्यं प्रति शृणी- हि अग्रम् । 'अग्रम्' - आगतं भवति आकियतो देशात् । 'सललूकम्' संलुब्धं भवति पापकम् इति नैरुक्ताः । सरूकं वा स्यात् सर्त्तेः अभ्यस्तात् । 'तपुषिः' तपतेः । 'हेतिः' हन्तेः । “त्यं चिदित्था कत्पयं शयानम्” (ऋ०सं०४,१,३२,६) सुखपयसम् । सुखमस्य पयः । 'विस्रुहः' आपो भवन्ति । विस्रवणात् । “वयाइव रुरुहुः सप्त विस्रुहः” (ऋ०सं०४,५,९,६) इत्यपि निगमो भवति । 'वीरुधः' ओषधयो भवन्ति । विरोहणात् । “वीरुधः पारयिष्णवः” [ऋ० सं० ८, ५, ८, ३] इत्यपि निगमो भवति ॥४॥ 'नक्षद्दाभम्' अश्नुवानदाभम् । अभ्यशनेन दभ्नो- ति-इति । “नक्षद्दाभं ततुरिं पर्वतेष्ठाम्” (ऋ०सं० ४,६,१३,२) इत्यपि निगमो भवति । 'अस्कृधोयुः' अक्रुध्वायुः । 'कृधु' इति ह्रस्वनाम । निकृत्तं भवति ।