भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 658, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 658

हिन्दी निरुक्ते ( २४३ ) ६ अ० १ पा० ५ खं० 'बृहदुक्थः' महदुक्थः । वक्तव्यम्-अस्मै--उक्थम् इति बृहदुक्थो वा । “बृहदुक्थं हवामहे” ( ऋ० सं० ६, ३, २, ५ ) इत्यपि निगमो भवति । 'ऋदूदरः' सोमः। मृदूदरः। मृदुः-उदरेषु इतिवा । “ऋदूदरेण सख्या सचेय” ( ऋ०सं०६,४,१२,५) इत्यपि निगमो भवति । 'ऋदूपे' इति-उपरिष्टाद् व्याख्यास्यामः । 'पुलुकामः' पुरुकामः । “पुलुकामो हि मर्त्यः” ( ऋ० मं० २, ४, २२, ५ ) इत्यपि निगमो भवति । 'असिन्वंती' असंखादन्त्यौ । “असिन्वती बप्सती भूर्यत्ततः” (ऋ०सं०६,३,१४,१) इत्यपि निगमो भवति । 'कपनाः' कम्पनाः क्रिमयो भवन्ति । “मोषंथा वृक्षे कपनेव वेधतः” (ऋ०सं०४,३,१५,१) इत्यपि निगमो भवति । 'भाऋजीकः' प्रसिद्धभाः । “धूमकेतुः समिधा भाऋजीकः” ( ऋ० सं० ७, ६, ११, २ ) इत्यपि निगमो भवति ।

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य) · पृष्ठ 658, कुल 1282 में से · BharatKosha