निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
DevanagariHindipublished1,282 पृष्ठ
पृष्ठ 667, कुल 1282 में से
संदर्भ में पढ़ेंपृष्ठ 667
हिन्दी निरुक्त (२५३) ६ अ० २ पा० ३ खं० (खं० ३) [निघ०-] अस्मे ॥२६॥ पाथः ॥३०॥ सवीमनि ॥३१॥ सप्रथाः ॥३२॥ विदथा- नि ॥३३॥ (निरु-) “अस्मे ते बन्धुः” वयम्-इत्यर्थः । “अस्मे यातं नासत्या सजोषाः” (ऋ०सं० १,८, १९, ६) अस्मान्-इत्यर्थः । “अस्मे समानेभिर्वृषभ पौंस्येभिः” (ऋ०सं०२,३, २५, २,) अस्माभिः-इत्यर्थः ॥ “अस्मे प्रयन्धि मघवन्नृजीषिन्” (ऋ०सं०३,२, २०, ५) अस्मभ्यम्-इत्यर्थः । “अस्मे आराच्चिद् द्वेषः सनुतर्युयोतु” (ऋ०सं० ४, ७, ३२, ३) अस्मत् इत्यर्थः । “उर्व इव पप्रथे कामो अस्मे” (ऋ०सं० ३,२,४,४) अस्माकम्-इत्यर्थः । “अस्मे धत्त वसवो वसूनि” अस्मासु-इत्यर्थः । ‘पाथः’ अन्तरिक्षम् । पथा व्याख्यातम् । “श्येनो न दीयन्नन्वेति पाथः” (ऋ० सं० ५, ५, ५, ५) इत्यपि निगमो भवति ।