निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 684, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( २७० ) ६ अ० ३ पा० ३ खं० निरु०-“कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि रा- जेवामवाँ इभेन । तृष्वीमनु प्रसितिं द्रूणानोऽस्ता- सि विध्य रक्षसस्तपिष्ठैः ॥” (ऋ०सं० ३,४,२३,१) कुरुष्व पाजः । ‘पाजः’ पालनात् । प्रसितिमिव पृथ्वीम् । ‘प्रसितिः’ प्रस्यनात् । तन्तुर्वा । जालंवा ॥ याहि राजा-इव अमात्यवान्, अभ्यमनवान्, स्ववान् वा, इराभृता गणेन, गतभयेन, हस्तिना इति वा । तृष्व्या नु प्रसित्या द्रूणाननः । ‘तृष्वी’ इति क्षिप्रनाम । तरतेर्वा । त्वरतेर्वा । असितासि विध्य रक्षसः तपिष्ठैः = तप्ततमै, तृप्त- तमैः, प्रपिष्टतमैः-इति वा । “यस्ते गर्भममीवा दुर्णामा योनि माशये ।” (ऋ० सं० ८, ८, २०, २ ) ‘अमीवा’ अभ्यमनेन व्याख्यातः । ‘दुर्णामा’ क्रिमिर्भवति पापनामा । ‘कृमिः’ क्रव्ये मेद्यति । क्रमते र्वा स्यात् सरण- कर्मणः क्रामते र्वा । “अतिक्रामन्तो दुरितानि विश्वा ।” [ ]