निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 698, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( ३८४ ) ६ अ० ३ पा० ७ खं०
२ ] । इति यथा ॥ ‘शुरुधः’ आपो भवन्ति । शुचं संरुन्धन्ति । “ऋतस्य हि शुरुधः सन्ति पूर्वीः” । (ऋ०सं० ३, ६, १०, ३) । ‘अमिनः’ अमितमात्रो महान् भवति । अभ्यमितो वा । “अमिनः सहोभिः” । [ ऋ० सं० ४, ६, ७, १) । इत्यपि निगमो भवति ॥ 'जज्जतीः' आपो भवन्ति । शब्दकारिण्यः । “मरुतो जज्जतीरिव” । (ऋ० सं० ४, ३, ९, ६) । इत्यपि निगमो भवति ॥ 'अप्रतिष्कुतः' अप्रतिष्कृतः । अप्रतिस्खलि- तो वा । “अस्मभ्यमप्रतिष्कुतः” । (ऋ० सं० १, १, १४, १) । इत्यपि निगमो भवति ॥ ‘शाशदानः’ शाशद्यमानः । “ह्रस्वां मतिमतिरच्छाशदानः” । [ ऋ० सं० १,३,३,३ ] । इत्यपि निगमो भवति ॥७ (१६) ॥ इति षष्ठाध्यायस्य तृतीयः पादः ॥ ६, ३ ॥ 'अग्रिया' (६३) अनवगत सेना के आगे चलने वाल का अथवा अपने को आगे करने वाले का अथवा आग्रही का नाम है ।—