भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 698, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 698

हिन्दी निरुक्त ( ३८४ ) ६ अ० ३ पा० ७ खं०

२ ] । इति यथा ॥ ‘शुरुधः’ आपो भवन्ति । शुचं संरुन्धन्ति । “ऋतस्य हि शुरुधः सन्ति पूर्वीः” । (ऋ०सं० ३, ६, १०, ३) । ‘अमिनः’ अमितमात्रो महान् भवति । अभ्यमितो वा । “अमिनः सहोभिः” । [ ऋ० सं० ४, ६, ७, १) । इत्यपि निगमो भवति ॥ 'जज्जतीः' आपो भवन्ति । शब्दकारिण्यः । “मरुतो जज्जतीरिव” । (ऋ० सं० ४, ३, ९, ६) । इत्यपि निगमो भवति ॥ 'अप्रतिष्कुतः' अप्रतिष्कृतः । अप्रतिस्खलि- तो वा । “अस्मभ्यमप्रतिष्कुतः” । (ऋ० सं० १, १, १४, १) । इत्यपि निगमो भवति ॥ ‘शाशदानः’ शाशद्यमानः । “ह्रस्वां मतिमतिरच्छाशदानः” । [ ऋ० सं० १,३,३,३ ] । इत्यपि निगमो भवति ॥७ (१६) ॥ इति षष्ठाध्यायस्य तृतीयः पादः ॥ ६, ३ ॥ 'अग्रिया' (६३) अनवगत सेना के आगे चलने वाल का अथवा अपने को आगे करने वाले का अथवा आग्रही का नाम है ।—