भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 702, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 702

हिन्दी निरुक्त ( २८६ ) ६ अ० ४ पा० १ खं० ॥७३॥ द्विबर्हाः ॥ ७४ ॥ अक्रः ॥ ७५ ॥ उराणाः ॥७६॥ निरु०-‘सृप्रः’ सर्पणात् । इदमपि इतरत् ‘सृप्रम्’ एतस्मादेव । सर्पिर्वा । तैलंवा । “सृप्रकरस्नमूतये” ( ऋ० सं० ६, ३, २, ५ ) इत्यपि निगमो भवति । ‘करस्नौ’ बाहू । कर्मणां प्रस्रातारौ । ‘सुशिप्रम्’ एतेन व्याख्यातम् । “वाजे सुशिप्र गोमति” (ऋ० सं० ६, २, २, ३) इत्यपि निगमो भवति । ‘शिप्रे’ हनू । नासिके वा । ‘हनूः’ हन्तेः । ‘नासिका’ नसतेः । “विष्यस्व शिप्रे विसृजस्व धेने” (ऋ०सं० १, ७, १३, ७) इत्यपि निगमो भवति । ‘धेना’ दधातेः । ‘रंसु’ रमणीयेषु रमणात् । “स चित्रेण चिकिते रंसु भासा” [ ऋ० सं० २, ५, २४, ५ ) इत्यपि निगमो भवति । ‘द्विबर्हाः’ द्वयोः स्थानयोः परिवृढः,-मध्यमे च ३७