भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 711, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 711

हिन्दी निरुक्त ( २६८ ) ६ अ० ४ पा० ४ सं० ( सं० ४ ) निघ०-ततनुष्टिः ॥८४॥ इलीबिशः ॥८५॥ निरु०-“यो अस्मै ग्रंस उत वा य ऊधनि सोमं सुनोति भवति द्य माँ अह । अपाप शक्र स्ततनुष्टि- रूहति तनूशुभ्रं मघवा यः क्वामखः ॥” ( ऋ० सं० ४, २, ३, ३ ) ॥ 'ग्रंसः' इति अहर्नाम । ग्रस्यन्ते ऽस्मिन्रसाः । गोः-'ऊध' उन्नततरं भवति। उपोन्नद्धम्-इतिवा। स्नेहानुप्रदानसामान्यात् रात्रिः-अपि 'ऊधः' उच्यते । स योऽस्मै अहनि अपिवा रात्रौ सोमं सुनोति भवति-अह द्योतनवान् । अपोहति अपोहति शक्रः तितनिषुं धर्मसन्तानात्-अपेतम् अलंकारिष्णुम् अयज्वानं तनूशुभ्रं तनूशोभयितारं मघवा, “यः कवासखः” यस्य कपूयाः सखायः ॥ “न्याविध्यदिलीबिशस्य दृढा विशृङ्गिणमभि- नच्छुष्णमिन्द्रः ।” (ऋ०सं० १,३,३,२) । निरविध्यत् इलाबिलशयस्य दृढानिब्यभिनत् शृङ्गिणं शुष्णम्-इन्द्रः ॥४ (१९)॥