निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 736, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( ३२३ ) ६ अ० ५ पा० ४ खं० शार्याय ॥" (ऋ० सं० १,८,१७,१) ॥ यवमिव वृकेण अश्विनौ निवपन्तौ । 'वृको' लाङ्गलं भवति । विकर्त्तनात् । 'लाङ्गलं' लङ्गतेः । लांगूलवद्वा । 'लांगूलं' लगतेः । लङ्गतेः । लम्बतेर्वा । अन्नं दुहन्तौ मनुष्याय दर्शनीयौ अभिधमन्तौ । 'बकुरेण' ज्योतिषा वा । उदकेन वा । 'आयेः' ईश्वरपुत्रः ॥ 'बेकनाटाः' खलु कुसीदिनो भवन्ति । द्विगुण- कारिणो वा । द्विगुणदायिनो वा । द्विगुणं काम- यन्तः-इतिवा । “इन्द्रो विश्वान्वेक्नाटाँ अहर्दृश उत क्रत्वा पर्णी रभि ।” (ऋ०सं०६,४,४९,५) । इन्द्रो यः सर्वान् बेकनाटान् अहर्दृशः सूर्यदृशः । ये इमानि अहानि पश्यन्ति न पराणि-इतिवा । अभिभवति कर्मणा, पर्णीश्च वणिजः ॥४(२६)॥ अर्थः-'बकुरः' (१०८) यह अनवगत है । भास्करः (प्रकाश करने वाला) 'भयङ्करः' (भय देनेवाला) अथवा 'भास्वद् द्रवणः' (चमकता हुआ चलने वाला) ये शब्दसमाधियें हैं । यवं वृकेण०—० चक्रथुरायाय ।" अर्थात्-