भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 748, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 748

हिन्दी निरुक्त ( ३३५ ) ६ अ० ६ पा० २ खं० ( खं० २ ) निघ०—सदान्वे ॥११९॥ शिरिंविठः ॥१२०॥ पराशरः॥१२१॥ कृविर्दती॥१२२॥ करूलती ॥१२३॥ निरु०—“अरायि काणे विकटे गिरि गच्छ सदान्वे। शिरिम्बिठस्य सत्वाभिस्तेभिष्ट्वा चात- यामासि ॥” (ऋ० सं० ८, ८, १३, १) ॥ अदायिनि काणे विकटे । ‘काणो’ ऽविक्रान्तदर्शनः-इति औपमन्यवः । कणते र्वा स्यात् अणूभावकर्मणः । ‘कणतिः’शब्दाणूभावे भाष्यते-अनुकणति,इति। मात्राणूभावात् ‘कणः’ दर्शनाणूभावात् ‘काणः’ । ‘विकटः’ विक्रान्तगतिः, इति औपमन्यवः । कुटते र्वा स्याद् विपरीतस्य। विकुटितो भवति। गिरि गच्छ सदानोनुवे ! शब्दकारिके ! । “शिरिम्बिठस्य सत्वाभिः ।” (ऋ०सं०८,८,१३,१) ‘शिरिम्बिठः’ मेघः । शीर्यते विठे । ‘बिठम् ’ अन्तरिक्षम् । ‘ बिठम् ’ बीरिटेन व्याख्यातम् ।