निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 78, कुल 1282 में से
संदर्भ में पढ़ें७८ अ० १ पा० ३ ख० ४ ॥ त्वं सख्ये स्थिरपीतमाहुः”—[ऋ० सं०, ८, २, २३. ५,] वेदार्थ के जाननेको सत्यलोकका स्थिरनिवासी कहते हैं। चतुर्थीके एक वच- नमें “उतो त्वस्मै तन्वं विसस्रे” [ऋ० सं० ८, २, २३, ४] वाणी एक अर्थज्ञके लिये अपने शरीरको प्रकाशित करती है। और प्रथमाके बहु वचनमें ॥ ३ ॥ (खं० ४) “अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः। आदघ्नास उपकक्षास उत्वे ह्रदा इव स्नात्वा उत्वे ददृश्रे ।” अक्षिमन्तः कर्णवन्तः सखायः । 'अक्षि'चष्टेः । अनक्तेः इति आग्रायणः । तस्मादेते व्यक्ततरे इव भवत इति ह विज्ञायते । :'कर्णः' कृन्ततेः । निकृत्तद्वारो भवति । ऋच्छतेः इति आग्रायणः । ऋच्छन्तीव खे उदगन्तामिति ह विज्ञायते । मनसां प्रजवेष्वसमा बभूवुः। आस्य- दघ्ना अपरे । उपकक्ष-दघ्ना अपरे । 'आस्यम्'- अस्यते । आस्यन्दते एनत् अन्नम्—इति वा । दघ्नं दध्यतेः स्रवति-कर्मणः । दस्यतेर्वा स्यात् । विदस्त- तरं भवति । प्रस्नेया ह्रदा इव एके । प्रस्नेया ददृशिरे स्नानार्हाः । 'ह्रदाः' ह्रदतेः शब्द-कर्मणः ।