भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 78, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 78

७८ अ० १ पा० ३ ख० ४ ॥ त्वं सख्ये स्थिरपीतमाहुः”—[ऋ० सं०, ८, २, २३. ५,] वेदार्थ के जाननेको सत्यलोकका स्थिरनिवासी कहते हैं। चतुर्थीके एक वच- नमें “उतो त्वस्मै तन्वं विसस्रे” [ऋ० सं० ८, २, २३, ४] वाणी एक अर्थज्ञके लिये अपने शरीरको प्रकाशित करती है। और प्रथमाके बहु वचनमें ॥ ३ ॥ (खं० ४) “अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः। आदघ्नास उपकक्षास उत्वे ह्रदा इव स्नात्वा उत्वे ददृश्रे ।” अक्षिमन्तः कर्णवन्तः सखायः । 'अक्षि'चष्टेः । अनक्तेः इति आग्रायणः । तस्मादेते व्यक्ततरे इव भवत इति ह विज्ञायते । :'कर्णः' कृन्ततेः । निकृत्तद्वारो भवति । ऋच्छतेः इति आग्रायणः । ऋच्छन्तीव खे उदगन्तामिति ह विज्ञायते । मनसां प्रजवेष्वसमा बभूवुः। आस्य- दघ्ना अपरे । उपकक्ष-दघ्ना अपरे । 'आस्यम्'- अस्यते । आस्यन्दते एनत् अन्नम्—इति वा । दघ्नं दध्यतेः स्रवति-कर्मणः । दस्यतेर्वा स्यात् । विदस्त- तरं भवति । प्रस्नेया ह्रदा इव एके । प्रस्नेया ददृशिरे स्नानार्हाः । 'ह्रदाः' ह्रदतेः शब्द-कर्मणः ।