निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 801, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( २६ ) ७ अ० २ पा० १ खं० जिस से कि-देवता ईश्वर हैं (समर्थ हैं) इसी से उनका जन्म उनके संकल्प के अनुसार होता है। यह कहते हैं- (निरु०) आत्मैव एषां रथो भवति आत्मा अश्वः आत्मा आयुधम् आत्मा इषवः आत्मा सर्वं देव- स्य देवस्य । आत्मा ही इनका रथ है, आत्मा घोड़ा, आत्मा आयुध, आत्मा बाण, आत्मा सब कुछ देवका है-देवका है ॥५॥ इति हिन्दीनिरुक्ते सप्तमाध्यायस्य प्रथमः पादः। द्वितीयः पादः । ( खं० १ ) ( निरु०- ) तिस्रएव देवता इति नैरुक्ताः । अग्निः पृथिवीस्थानः । वायुर्वा इन्द्रो वा अन्तरिक्षस्थानः । सूर्यो द्युस्थानः । तासां माहाभाग्याद् एकैकस्या अपि बहूनि नामधेयानि भवन्ति । अपि वा कर्मपृथक्त्वाद्, यथा होता, अध्वर्युः, ब्रह्मा, उद्गाता-इति, अपि-एकस्य सतः । अपिवा पृथगेव स्युः । पृथग् हि स्तुतयो भवन्ति। तथा अभिधानानि ।