निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 835, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( ६५ ) ७ अ० ४ पा० १ खं० चतुर्थः पादः । ( खं० १ ) अथ निघण्टुपञ्चमोऽध्यायः । ५ । ( अथ त्रीणि पदानि ) ॐ ॥ अग्निः ॥ १ ॥ ( निरु०- ) अथातोऽनुक्रमिष्यामः । अग्निः पृथिवीस्थानः तं प्रथमं व्याख्यास्यामः । 'अग्निः' कस्मात् ? अग्रणीर्भवति । अग्रं यज्ञेषु प्रणीयते । अङ्गं नयति सन्नममानः । अक्नोपनो भवति इति स्थौलाष्ठीविः । न क्नोपयति, न स्नेह- यति । त्रिभ्य आख्यातेभ्यो जायते इति शाकपूणिः । इताद्, अक्ताद्, दग्धाद् वा नीतात् । स खलु एतेः अकारम् आदत्ते, गकारम्- अनक्तेर्वा, दहतेर्वा, नीः परः । तस्य एषा भवति ॥ १ ( १४ ) ॥ अर्थः- “अथातो०” अब यहां से अनुक्रमण करेंगे- सामान्यरूप से 'अग्नि' आदि देवपत्नी पर्यन्त सब देवताओं की व्याख्या होचुकी, अब विशेष रूप से 'अग्नि' आदि ( १५१ ) शब्दों की प्रतिपद व्याख्या होगी । 'अग्नि' ( देवता ) पृथिवी स्थान है-इस का पृथिवी