निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 872, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( १०३ ) ७ अ० ६ पा० २ खंड अतः "वैश्वानर" उतने से आदित्य नहीं हो सकता। "यथो एतत्०" और भी जो कहा है- ॥१॥ ( खंड २ ) (निरु०-) "वैश्वानरीयो द्वादशकपालोभवति" इति । अनिर्वचनं कपालानि भवन्ति । अस्ति हि सौर्य एककपालः पञ्चकपालश्च । यथो एतद् "ब्राह्मणं भवति०" इति । बहुभक्ति- वादीनि हि ब्राह्मणानि भवन्ति- पृथिवी वैश्वानरः, संवत्सरो वैश्वानरः, ब्राह्मणो वैश्वानरः इति । यथो एतद् "निवित् सौर्यवैश्वानरी भवति-" इतिअस्यैव सा भवति 'यो विड्भ्यो मानुषीभ्यो दीदेद्-" इति, एष हि विड्भ्यो मानुषीभ्यो दीप्यते । यथो एतत् "छान्दोमिकं सूक्त सौर्यवैश्वानरं भवति" इति, अस्यैव तद् भवति- जमदग्निभिरा- हुतः" इति । जमदग्नयः प्रजमिताग्नयो वा प्रज्व- लिताग्नयो वा । तैः अभिहुतो भवति । यथो एतद् "हविष्पान्तीर्य सूक्तं सौर्यवैश्वानरं भवति "इति, अस्यैव तद् भवति ॥ २ ( २४ )॥ अर्थः- "वैश्वानरीयो०" 'वैश्वानर का बारह कपालों का (पुरोडाश) होता है, यह भी सूर्य के वैश्वानर होने में