निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 983, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त (२१७) ६ अ० १ पा० ८ खं० अशन (व्यापन) करते हैं। अथवा इससे ज्वारिये दूसरे जुवा- रिये से धन को अशन करते हैं- लेते हैं । उन (पासों) की स्तुति करने वाली यह ऋचा है- ॥७॥ (खं० ८) निरु०- "प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः । सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर्मह्यमच्छान्॥"[अ०७अ०८व३] प्रवेपिणो मा महतो विभीदकस्य फलानि माद- यन्ति । प्रवातेजाः प्रवणेजाः । इरिणे वर्त्तमानाः। 'इरिणं' निर्ऋणम् । ऋणातेः । अपार्णं भवति अपरता ओषधयः अस्मात्- इतिवा । सोमस्येव मौजवतस्य भक्षः । 'मौजवतः' मूजवति जातः । 'मृजवान्' पर्वतः । मुञ्जवान् । 'मुञ्जः' विमुच्यते इषीकया । 'इषीका' इषतेर्गतिकर्मणः । इयमपि 'इषीका' एतस्मादेव । 'विभीदकः' विभेदनात् । 'जागृविः' जागरणात् । मह्यम्- अचच्छत् । प्रशंसति एनान् प्रथमया निन्दति उत्तराभिः, ऋषेः अक्षपारिचनस्य एतद्-