नीति शतक (भर्तृहरि - डॉ. राकेश शास्त्री हिन्दी व्याख्या सहित)
Niti Shataka of Bhartrihari Hindi
महाराज भर्तृहरि द्वारा
स्रोत: Neeti Shataka with Sanskrit Shlokas, Anvaya & Hindi Commentary by Dr. Rakesh Shastri (उद्गम)
पृष्ठ 183, कुल 194 में से
संदर्भ में पढ़ेंनीतिशतकम् १६१
परिशिष्ट
(क) संस्कृत व्याख्या
१. आद्यन्त:-
शिरः...........................................................................शतमुखः।
२. संदर्भ:-
प्रस्तुतभावपूर्णः श्लोकः महाकविभर्तृहरिविरचितात् 'नीतिशतकम्' नाम गीतिकाव्यात् उद्धृतोऽस्ति।
३. प्रसङ्ग:-
श्लोकेऽस्मिन् महाकविना विवेकभ्रष्टानां पतनं अनेकप्रकारेण भवति, इति सोदाहरणं प्रतिपादितम्।
४. अन्वय:-
इयम् गंगा स्वर्गात् शार्वम् शिरः, पशुपति शिरस्तः क्षितिधरम्, उत्तुंगात् महीध्रात् अवनिम्, अवनेः च अपि जलधिम् (एवम् क्रमशः) अधः अधः स्तोकम् पदम् उपगता अथवा विवेकभ्रष्टानाम् विनिपातः शतमुखः भवति।
५. संस्कृत व्याख्या-
संसारेऽस्मिन् यदा मनुष्यः विवेकभ्रष्टः भवति तस्य पतनस्य तदानीं नैव काऽपि सीमा भवति विषयेऽस्मिन् गंगायाः उदाहरणमस्ति। एषा आरम्भे स्वर्गे वसति स्म सुखपूर्वकम्, किन्तु यदा एषा विवेकरहिता सञ्जाता तदा अस्याः पतनं कैलाशपर्वते विराजमानस्य शिवस्य शिरसि अभवत्, तस्मात् अपि स्थानात् हिमालये, किन्तु तत्रापि अस्याः स्थैर्यं सम्भवं न जातम्, तस्मात् उत्तुंगात्, स्थानात् सा पृथिव्यां पतिता। पुनः सा निम्नतमे स्थाने समुद्रे पतिता। यत्र सा अस्तित्वहीना सञ्जाता।
एवम् यः जनः विवेकरहितः भवति तस्य एतादृशी शोचनीया स्थितिरेव भवति। अतः जनः कदापि स्व विवेकं न परित्यजेत्।
७. विशेष:-
१. अस्य श्लोकस्य भाषा अतिसरला, भावबोधगम्या च वर्तते।
२. अत्र गंगायाः उपमा विवेकरहितेन जनेन सह प्रदत्ता।
३. शिखरिणी छन्दोऽत्र वर्तते, लक्षणमिदम्—