न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 259, कुल 608 में से
संदर्भ में पढ़ेंद्वितीयस्तवके ] प्रामाण्यपरतस्त्वोपपादनम् । २२५ प्रकाशः । वस्तुतः करादिमद्विषयकत्वात् । न च करचरणशून्ये यच्छरीरत्वेन ज्ञानं न भवतीति विवक्षितम् । तृतीयार्थस्य विषयत्वे स्वरूपासिद्धेः । शरीरज्ञानस्य तच्छून्यशरीरत्वादिविषयकत्वनियमात् । अत्राहूः । समर्थप्रवृत्तिजनकत्वं प्रवृत्त्युत्तरकालं संस्कारोपनीतज्ञाने प्रमेयत्वाभिधेयत्वव्या- प्तिवद् गृह्यते । यद्वा पूर्वं पृथिवीज्ञाने पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसितौ कदाचित् तत्रैव गन्धस्य तद्विरोधिविरहस्य साक्षात्कारे पुनः स्मृतिरूपे पृथिवीज्ञाने सति तत्सन्निकृष्टेन प्रत्य- भिज्ञान इव विशेषणज्ञानजनितसंस्कारापेक्षेण मनसा गन्धवत्त्वेनेवाय निश्चय इत्याकारेण सुरभि चन्दनमिति चान्नुपवज्ज्ञानजननान्न ग्राहकाभावादत्वसिद्धिः । तज्जातीयत्वमपि करचरणबद्वि- शेप्यकशरीरत्वप्रकारकज्ञानकत्त्वादि । शरीरभ्रमे करचरणवतो विशेषणत्वात् । प्रथमं च प्रामा- ण्यानुमितिः केवलव्यतिरेकिणा । प्रकाशिका । ष्टविशेषणकहेतुग्रहसम्भवाच्च । पुनः स्मृतिरूप इति । अत्र केचित् । पृथिवीज्ञानि = पृथिवीज्ञानज्ञाने । अन्यथा पृथिवी- वीस्मरण एव गन्धवद्विशेष्यकत्वनिश्चयलाभे पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसितावित्यस्य वैय- र्थ्यापत्तेः । एवं च ततः सन्निकृष्टेनेत्यस्य तत्स्मृतिरूपसन्निकर्षवतेत्यर्थ इति व्याचक्षते । वस्तुतो गन्धवद्विशेष्यकत्वोपनयार्थमेव पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसायोपयोगः । एवं च पृथिवीत्वपदं गन्धवत्त्वपरम् , एवं च पृथिवीज्ञाने जाते तद्विषये गन्धवत्त्वपरिच्छेदे गन्धव- त्त्वप्रकारकनिश्चयत्वानुव्यवसितौ स्मृतिरूपे पृथिवीज्ञाने तत्सन्निकृष्टेन मनसा स्मृत्युपनीतगन्धव- मकरन्दः । त्तिसामान्यजनकत्वमेक हेतुप्रविष्टम् , तथा चोपनोते ज्ञाने प्रवृत्तिजनकत्वे प्रवृत्तौ च समर्थत्वमुप- नीतं गृह्यत इत्यथोद्दिशिष्टवैशिष्ट्यरूपहेतुग्रह उपपद्यत इति । स्मृतिरूपे पृथिवीज्ञाने इति । पृथिवीज्ञानज्ञाने इत्यर्थः । अन्यथा पृथिवीस्मरण एव गन्धवद्विशेष्यकत्वनिश्चयलाभे पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसितावित्यनर्थकमापद्येत । एवञ्च तत्सन्निकृष्टेनेत्यस्य स्मृतिरूपसविषयकसहकारिणेत्यर्थः । तथा च स्मृत्युपनीते पूर्वानुभव एव गन्धवद्विशेष्यकत्वनिश्चय इति तद्विशेष्यकपृथिवीत्वप्रकारकज्ञानत्वाद हेतुग्रह इति भावः । टिप्पणी । प्रकारकभ्रमस्यापीत्यर्थः । तृतीयार्थस्य विषयत्व इति । विषयत्वरूपत्वे, सप्तम्या अपि तत्त्व इत्यपि वाच्यम् । अभिधेयत्वव्याप्तिवद् गृह्यते इति । प्रमादिघटिते तत्र नियमेनोपनया- पेक्षासम्भवात् । तद्विरोधिविरहस्येति । गन्धविरोधीशीतोष्णस्पर्शादिग्रहे गन्धसाक्षात्- कारे शङ्खपीतत्वसाक्षात्कार इव दोषजत्वशङ्कया प्रामाण्यसंशये गन्धवद्विशेष्यकत्वांशपरिच्छेदो न स्यात्तस्य तत्र विरोधित्वात् अतः सर्वथैव तदभावदार्थ्याय गन्धविरुद्धत्वेन ये ये गृहीतास्त- त्कालमुपस्थिताश्च तेषामभावसाक्षात्कारपर्यन्तानुसरणमिति भावः । पृथिवीज्ञाने स- तीति । पृथिवीज्ञानज्ञाने सतीत्यर्थः । गन्धवत्त्वे चाद्यनिश्चय इति । गन्धवद्विशेष्यकपृ- थिवीत्वप्रकारकोऽयं निश्चय इत्यर्थः । इत्याकारेण सुरभिचन्दनमितीति । अभेदे तृतीया ततश्च तज्ज्ञानेत्यत्रान्वेति । करचरणवद्विशेष्यकेति । करचरणवनिष्ठविशेष्यतानिरूपित- शरीरत्वप्रकारतानिरूप कज्ञानत्वादिरूपं निर्वक्तुं शक्यत इत्यर्थः । शरीरभ्रमे चेति । स्थाणुत्वा- दिना शरीरभ्रमे न तु शरीरत्वेन शरीरप्रकारकभ्रम इत्यर्थः । तत्र व्यभिचारस्याप्रसक्तत्वाद्धेतोः सत्त्वाच्च करचरणवतोऽविशेषणत्वादिति न विद्यते ज्ञाने विवक्षितशरीरत्वरूपविशेषणं यत्र तत्त्वादित्यर्थः । अन्यथा विशेषणत्वोक्त्या विशेष्यत्वमेव व्यावत्त्यं स्यात्तस्य शरीरादेः सखण्डत्वे- २६ न्या० कु०