भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

द्वितीयस्तवके ] प्रामाण्यपरतस्त्वोपपादनम् । २२५ प्रकाशः । वस्तुतः करादिमद्विषयकत्वात् । न च करचरणशून्ये यच्छरीरत्वेन ज्ञानं न भवतीति विवक्षितम् । तृतीयार्थस्य विषयत्वे स्वरूपासिद्धेः । शरीरज्ञानस्य तच्छून्यशरीरत्वादिविषयकत्वनियमात् । अत्राहूः । समर्थप्रवृत्तिजनकत्वं प्रवृत्त्युत्तरकालं संस्कारोपनीतज्ञाने प्रमेयत्वाभिधेयत्वव्या- प्तिवद् गृह्यते । यद्वा पूर्वं पृथिवीज्ञाने पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसितौ कदाचित् तत्रैव गन्धस्य तद्विरोधिविरहस्य साक्षात्कारे पुनः स्मृतिरूपे पृथिवीज्ञाने सति तत्सन्निकृष्टेन प्रत्य- भिज्ञान इव विशेषणज्ञानजनितसंस्कारापेक्षेण मनसा गन्धवत्त्वेनेवाय निश्चय इत्याकारेण सुरभि चन्दनमिति चान्नुपवज्ज्ञानजननान्न ग्राहकाभावादत्वसिद्धिः । तज्जातीयत्वमपि करचरणबद्वि- शेप्यकशरीरत्वप्रकारकज्ञानकत्त्वादि । शरीरभ्रमे करचरणवतो विशेषणत्वात् । प्रथमं च प्रामा- ण्यानुमितिः केवलव्यतिरेकिणा । प्रकाशिका । ष्टविशेषणकहेतुग्रहसम्भवाच्च । पुनः स्मृतिरूप इति । अत्र केचित् । पृथिवीज्ञानि = पृथिवीज्ञानज्ञाने । अन्यथा पृथिवी- वीस्मरण एव गन्धवद्विशेष्यकत्वनिश्चयलाभे पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसितावित्यस्य वैय- र्थ्यापत्तेः । एवं च ततः सन्निकृष्टेनेत्यस्य तत्स्मृतिरूपसन्निकर्षवतेत्यर्थ इति व्याचक्षते । वस्तुतो गन्धवद्विशेष्यकत्वोपनयार्थमेव पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसायोपयोगः । एवं च पृथिवीत्वपदं गन्धवत्त्वपरम् , एवं च पृथिवीज्ञाने जाते तद्विषये गन्धवत्त्वपरिच्छेदे गन्धव- त्त्वप्रकारकनिश्चयत्वानुव्यवसितौ स्मृतिरूपे पृथिवीज्ञाने तत्सन्निकृष्टेन मनसा स्मृत्युपनीतगन्धव- मकरन्दः । त्तिसामान्यजनकत्वमेक हेतुप्रविष्टम् , तथा चोपनोते ज्ञाने प्रवृत्तिजनकत्वे प्रवृत्तौ च समर्थत्वमुप- नीतं गृह्यत इत्यथोद्दिशिष्टवैशिष्ट्यरूपहेतुग्रह उपपद्यत इति । स्मृतिरूपे पृथिवीज्ञाने इति । पृथिवीज्ञानज्ञाने इत्यर्थः । अन्यथा पृथिवीस्मरण एव गन्धवद्विशेष्यकत्वनिश्चयलाभे पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसितावित्यनर्थकमापद्येत । एवञ्च तत्सन्निकृष्टेनेत्यस्य स्मृतिरूपसविषयकसहकारिणेत्यर्थः । तथा च स्मृत्युपनीते पूर्वानुभव एव गन्धवद्विशेष्यकत्वनिश्चय इति तद्विशेष्यकपृथिवीत्वप्रकारकज्ञानत्वाद हेतुग्रह इति भावः । टिप्पणी । प्रकारकभ्रमस्यापीत्यर्थः । तृतीयार्थस्य विषयत्व इति । विषयत्वरूपत्वे, सप्तम्या अपि तत्त्व इत्यपि वाच्यम् । अभिधेयत्वव्याप्तिवद् गृह्यते इति । प्रमादिघटिते तत्र नियमेनोपनया- पेक्षासम्भवात् । तद्विरोधिविरहस्येति । गन्धविरोधीशीतोष्णस्पर्शादिग्रहे गन्धसाक्षात्- कारे शङ्खपीतत्वसाक्षात्कार इव दोषजत्वशङ्कया प्रामाण्यसंशये गन्धवद्विशेष्यकत्वांशपरिच्छेदो न स्यात्तस्य तत्र विरोधित्वात् अतः सर्वथैव तदभावदार्थ्याय गन्धविरुद्धत्वेन ये ये गृहीतास्त- त्कालमुपस्थिताश्च तेषामभावसाक्षात्कारपर्यन्तानुसरणमिति भावः । पृथिवीज्ञाने स- तीति । पृथिवीज्ञानज्ञाने सतीत्यर्थः । गन्धवत्त्वे चाद्यनिश्चय इति । गन्धवद्विशेष्यकपृ- थिवीत्वप्रकारकोऽयं निश्चय इत्यर्थः । इत्याकारेण सुरभिचन्दनमितीति । अभेदे तृतीया ततश्च तज्ज्ञानेत्यत्रान्वेति । करचरणवद्विशेष्यकेति । करचरणवनिष्ठविशेष्यतानिरूपित- शरीरत्वप्रकारतानिरूप कज्ञानत्वादिरूपं निर्वक्तुं शक्यत इत्यर्थः । शरीरभ्रमे चेति । स्थाणुत्वा- दिना शरीरभ्रमे न तु शरीरत्वेन शरीरप्रकारकभ्रम इत्यर्थः । तत्र व्यभिचारस्याप्रसक्तत्वाद्धेतोः सत्त्वाच्च करचरणवतोऽविशेषणत्वादिति न विद्यते ज्ञाने विवक्षितशरीरत्वरूपविशेषणं यत्र तत्त्वादित्यर्थः । अन्यथा विशेषणत्वोक्त्या विशेष्यत्वमेव व्यावत्त्यं स्यात्तस्य शरीरादेः सखण्डत्वे- २६ न्या० कु०

२२६ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [१ कारिकाव्याख्यायां प्रकाशः । ननु न् प्रामाण्यप्रसिद्धिं ना ऽव्याप्त्यग्रहात् कथमनुमानं ? अथ, व्याघातात् प्रमातद्विषय- सिद्धौ सामान्यतः साध्यप्रसिद्ध्या न तदप्रसिद्धिः, विशिष्यानिर्णयाच्च नान्वयिवासाधारणत्वे इति चेत्, तर्हि, कस्यापि प्रथमं स्वार्थे प्रामाण्यानुमितिर्न स्यात् । प्रामाण्यनिषेधरूपस्य परकीय- व्याघातस्य तदाऽनुपस्थितेः । स्वयं प्रामाण्यनिषेधस्य च तद्धीपूर्वकत्वात् । मैवम् । प्राग्भवीय- संस्काराद्विशेष्यावृत्त्यप्रकारकत्वं तद्वति तत्प्रकारकज्ञानत्वं वा प्रामाण्यमात्रं स्मृतं, पृथिवीज्ञानादौ साध्यभानं सर्वनाममहिम्ना पक्षधर्मताबलात् पृथिवीज्ञानस्य विशेष्यावृत्त्यप्रकारकत्वादौ पर्यवस्यति स्वतः प्रामाण्यनिषेधे प्राथमिकप्रामाण्यज्ञानस्यान्यथोपपादयितुमशक्यत्वादिति साम्प्रदायिकाः । अस्मत्पितृचरणास्तु, - प्रथमं प्रामाण्याभाव एव प्रामाण्यं व्यतिरेकिणा साध्यम् । तत एव निष्कम्पप्रवृत्तेरुपपत्तेः । तदेव वा सिद्ध्यत् पक्षधर्मताबलेन तद्वति तत्प्रकारकनिश्चयत्वादिक- प्रकाशिका । द्विशेष्यकत्वग्रह इति न हेत्वसिद्धिरिति समुदयार्थः । सर्वनाममहिम्नेति । इदं च दृष्टान्ततयो- क्तम् । तेन यथा शाब्दबोधे सर्वनाममहिम्ना विशेषविषयता तथानुमानिके पक्षधर्मताबलात्तथे- त्यर्थः । ननु देवदत्तत्वादिप्रकारं ज्ञानं जन्मान्तरे नानुभूतं तद्वति तत्प्रकारकत्वञ्चैकं नास्त्येवेति न त- त्रोक्तगतिः, किंच प्रकारान्तरसत्त्वेऽनुपपत्तिरपि प्राग्भवीयसंस्कारोद्बोधिका नास्तीत्यनुशयेनाह । अ- स्मत्पितृचरणास्त्विति । तदेवेति । यद्यपि पक्षधर्मताबलेन व्यापकत्वेन गृहीतस्य धर्मस्य पक्ष- सम्बन्धमात्रं सिद्ध्यति न तु तत्समनियतधर्म्मान्तरमपि तथाप्यग्रिमव्यतिरेकिणा तत्सिद्धिरित्यत्र (१) तात्पर्यम् । अयं च प्रकारः क्वचित् सम्भवतीत्युपन्यस्तो न तु सार्वत्रिकः । एतेन प्रमेयत्वप्रकारकज्ञाने नायं कल्पः, तत्राप्रामाण्याप्रसिद्धेः । किञ्चायमपि कल्पोऽप्रामाण्यप्रसिद्धौ, तत्प्रसिद्धिश्च जन्मान्तरी- यसंस्कारादुपपाद्या तथा च प्रामाण्यप्रसिद्धिरपि तथैवास्तु किमनेन कल्पेनेत्यादि दूषणं निरवका- मकरन्दः । सर्वनाममहिम्नेत्यनेनानुपपत्तिविशेषः पक्षधर्मतासहकारी विवक्षित इति नानुमाने तदुप- योग इति दूषणमनवकाशमित्येके । दृष्टान्तपरतया तदित्यन्ये । ननु तद्वत्त्वस्यैकस्याभावाद् देव- दत्तादिज्ञानप्रामाण्यं जन्मान्तरे नानुभूतमिति तत्र नोक्तगतिसम्भवः । गत्यन्तरसत्त्वे प्राग्भवीय- संस्कारोद्बोधे मानाभावश्चेत्यनुशयादाह । प्रथममिति । तत एवेति । अप्रामाण्यशङ्काविधू- ननस्य ततोऽपि भावादिति भावः । तदेवेति । यद्यपि पक्षधर्मतावलादप्यखण्डाभावस्य पक्षी- यत्वं व्यापकतानवच्छेदकप्रकारेण सिद्ध्यति, न तु तद्वत्तत्यादिकं, तथापि तदनन्तरमर्थात्तत्सिद्धिरि- त्यत्र तात्पर्यम् । अत्र चाप्रसिद्धाभावोऽपि प्रतियोगिप्रसिद्ध्या व्यतिरेकव्याप्तिग्रहे सति सिद्ध्येत् । न चाप्रामाण्यं प्रसिद्धं, प्रामाण्यवत्तस्याप्यतीन्द्रियत्वात् । तदर्थं प्राग्भवीयसंस्काराद्यनुसरणं च प्रामाण्यानुमानार्थमेव तदनुसरणमर्हं, लाघवादावश्यकत्वाच्च । प्रमेयमित्यादिज्ञाने चाप्रामाण्या- टिप्पणी । नासम्भवदिति । अथ व्याघातादिति । परेण प्रमातद्विषयनिषेधोद्भावनात् ; तद्वति तत् प्रकारकत्वमादाय पक्षधर्म्मताबलेनेति व्यापकस्य तत्तद्रूपेणागृहीतस्य भानेऽनुभवानुरोधाद्या- लाघवज्ञानादेः सामर्थ्यं कल्प्यते तथा निरुक्तव्याप्तिग्रहकालीनपक्षधर्मताग्रहस्याप्यनुभवानुरोधाद् विशेष्ये विशेषणमिति रीत्या निरुक्तप्रामाण्यभाने सामर्थ्यकल्पनादिति भावः । निर्द्धम्मितावच्छे- (१) अप्रामाण्याभावविशेष्यकप्रथमानुमितेरितरबाधविधया द्वितीये तत्प्रकारकानुमितौ प्रामाण्यभाने पक्षधर्मतासहकारित्वमिति भावः ।

द्वितीयस्तवके ] प्रामाण्यपरतस्त्वोपपादनम् । २२७ प्रकाशः । मादाय सिद्ध्यति । तथा हि । अयं पृथिवीत्वेनानुभवो न पृथिवीत्वाभाववति पृथिवीत्वप्रकारकः; गन्धवद्विषयकप्रयत्नजनकपृथिवीत्वप्रकारकज्ञानत्वात् यन्नैवं तन्नैवम् । यथा पृथिवीभ्रमः। एवञ्च पृथिवीभ्रमे पृथिवीत्वाभाववति पृथिवीत्वप्रकारकत्वसमर्थप्रवृत्तिजनकत्वाभावयोर्व्याप्तिग्रहा- दप्रामाण्यव्यापकहेत्वभावाभावरूपाद्धेतोराप्रामाण्याभावरूपं साध्यं सिद्ध्यति । यद्व्यापकतया हेत्वभावो गृहीतस्तदभाव एव हि हेतुना साध्यते । यत्र त्वभावव्यापकता हेत्वभावस्य ज्ञायते, तत्र साध्यप्रसिद्धिरनुमानाङ्गम् , तां विना तदभावात् यत्र च भावव्यापकता हेत्वभावस्य, तत्र न साऽङ्गम्, तां विनाऽपि व्यतिरेकव्याप्तिग्रहात् । विशेषणज्ञानं विना कथं प्रामाण्यविशिष्टानुमिति- रिति चेत् । प्रथमं न कथम्चित् । ज्ञाने प्रामाण्यमित्यनुमित्यनन्तरं तेनैव हेतुना तत्र प्रामाण्य- विशिष्टानुमितिः, अभावविशेष्यकज्ञानानन्तरम् , अभाववद् भूतलमिति ज्ञानवत् । एवं तदभाववति तत्प्रकारकत्वव्यतिरेकः सिद्धस्तद्वति तत्प्रकारकत्वमादाय पक्षधर्मताबलेन सिद्ध्यतीतिं तत्त्वचिन्ता- प्रकाशिका । शम् । अप्रामाण्यशङ्काविरहस्य क्वचिदेव संभव इत्याशयेनैतत्कल्पावतारात् । अयमिति । अनु- भवपदं निश्चयपरम् तल्लाभायैव च हेतुनिष्ठनिश्चयपदं न तु हेतुप्रविष्टं वैयर्थ्यात् । निष्प्रकारक- त्वेनान्यप्रकारकत्वेन वार्थान्तरवारणाय तृतीयान्तम् । पृथिवीभ्रमपक्षैकदेशतो बाधः स्यादिति तद्वार- णाय अयमिति । पृथिवीविशेष्यक इत्यर्थः । पृथिवीत्वाभाववतीति । अत्र पृथिवीत्वाभाववद्वि- शेष्यकत्वाभावमात्रं साध्यमन्यथा वैयर्थ्यात् । अप्रामाण्यस्याभावरूपत्वेन व्याप्त्यवेन च व्यर्थविशेष- णतायाः दुष्परिहरत्वात् पृथिवीत्वप्रकारजलंज्ञाने व्यभिचार इति गन्धवद्विषयकेति । अत्र पृथिवि- त्वमिति ज्ञानस्यापि प्रवर्त्तकतया तत्र व्यभिचार इति पृथिवीत्वप्रकारकेति । पृथिवीत्वप्रकारत्वा- वच्छेदेन तादृशप्रयत्नजनकत्वं हेतुरतो न जलपृथिव्याविति समूहालम्बने व्यभिचारः । निश्चयपद- न्तु निरुक्तमेवेति । कदाचिदपोताति । न च कदाचित् दोषात् प्रामाण्यसंशयेऽपि तद्विरहदशायां स्वतःप्रामाण्यग्रहे बाधकाभावः, दोषात् कदाचिद्रजतत्वसंशयेऽपि कदाचिद्रजतत्वग्रहवदिति वाच्यम् । स्वप्रकाशपक्षस्य सामग्रीविरहादनुपपत्तेः । ज्ञाततायाश्चाप्रामाणिकतया तल्लिङ्गकानुमितेरप्रसिद्धेः । मनंसश्चोपनयसहकृतस्य बहिरर्थग्राहकत्वेऽपि उपनायकज्ञानगोचरस्य ज्ञानस्य स्वातन्त्र्येण बहिरर्था- विषयकत्वात् । अनुव्यवसायस्य व्यवसायप्रामाण्यग्रहोत्तरकालीनस्याप्रवर्त्तकत्वेन तथा कल्पनात् । उपनायकज्ञानविषयत्वन्तु क्वचिदेवेत्यत्रादृष्टमेव नियामकम् । एवं च ज्ञानोपनीतप्रामाण्यग्रहेऽपि न मकरन्दः । भावेऽनुमानासम्भवे तत्र प्रकारान्तरानुसरणे स एव प्रकारः सर्वत्रानुस्रियतामित्यादि दूषणं प्रत्यक्ष- प्रकाशे द्रष्टव्यम् । अयमिति । अनुभवपदं निश्चयपरम् । तेन संशयव्यावृत्तसाध्यसिद्धिः, स्मृतेरपि प्रवृत्तेस्त- त्पाधारण्येत्येत्याहुः । निष्प्रकारकत्वेनार्थान्तरवारणाय तृतीयान्तम् । पृथिवीत्वाभाववति नेत्येव साध्यम् । व्यतिरेकव्याप्तौ साध्याभावस्य व्याप्त्यत्वेन तत्र नीलधूमवदधिकस्य व्यर्थत्वात् । अप्रा- माण्यस्य भावरूपतया साध्याभावस्याखण्डत्वेन न वैयर्थ्यमित्यस्याप्यसम्भवादिति ध्येयम् । पृथिव- वीत्वभ्रमे व्यभिचारवारणाय जनकान्तम् । अत्र पृथिवीत्वमिति निश्चयस्य पृथिवीत्वाभाववत्पृथिव- वीत्वविशेष्यकस्य पृथिवीप्रवर्त्तकत्वाभ्युपगमपक्षे तत्र व्यभिचार इत्यत उक्तं, पृथिवीत्वप्रका- रकेति । निश्चयपदं च निश्चयपक्षतासूचनार्थमविवक्षितार्थंकम् । विस्तरः प्रत्यक्षप्रकाशे । टिप्पणी । दकसंशयस्याभावाद् धम्मितावच्छेदकः कश्चिद् वाच्यस्तंस्य च विशेषणत्वात्तज्ज्ञानमपेक्षितं स्यात्-

२३८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां वत्। यदि तु स्वतः ज्ञायेत, कदाचिदपि प्रामाण्यसंशयो न स्यात्, ज्ञानत्वसं- शयवत्। निश्चिते तदनवकाशात्। न हि साधकबाधकप्रमाणाभावमवधूय समा- नधर्मादिदर्शनादेवाऽसौ, तथा सति तदनुच्छेदप्रसङ्गात्। अथ प्रमाणवदप्रमाणे- ऽपि तत्प्रत्ययदर्शनाद्विशेषादर्शनाद्भवति शङ्केत्यभिप्रायः, तत् किं प्रमाणज्ञानोप- लम्भेऽपि न तत्प्रामाण्यमुपलब्धं, प्रमाणज्ञानमेव वा नोपलब्धम् ? आद्ये, कथं स्वतः प्रामाण्यग्रहः, प्रत्ययप्रतीतावपि तदप्रतीतेः, द्वितीये, कथं तत्र शङ्का, धर्मिण एवा- बोधनी । विसंवादादेरिति । संशयिकत्वाद्संशयत्वादित्यर्थः । साध्यविपर्ययाङ्गीकारेऽनिष्टप्रसङ्गमाह-यदि इति । यथा हि निश्चिते ज्ञानस्वरूपे संशयो नास्ति ज्ञानमिदं न वेति, तद्वत्प्रामाण्येऽपि संशयः कदाचिन्न स्यात् तस्यापि निश्चयात्, निश्चितेऽपि विषये संशयस्यानुत्थानादिति । ननु निश्चितेऽपि प्रामाण्ये ज्ञानत्वादेः प्रमाणाप्रमाणसाधारणधर्मस्य दर्शनात् संशयः स्यादित्याश्राव- न हि-इति । असत्येव च साधकबाधकप्रमाणाभावे समानधर्मादर्शनादेः संशयहेतुत्वे को दोषस्तत्राह-तथा स- ति-इति । विशेषदर्शनोत्तरकालेऽपि समानधर्मादिदर्शनस्य संशयहेतोः सत्त्वादिति । अथ-इति । ज्ञानेन सह गृह्यमाणेऽपि प्रामाण्ये प्रमाणज्ञानेष्विवाप्रमाणज्ञानेष्वपि प्रामाण्यदर्शनादिदं प्रमाणज्ञान मिदं त्वप्रमाणमिति नियामकविशेषादर्शनाच्च संशयोपपत्तिरिति भेदतद्विशेषोपलम्भे संशयस्यानु- त्पत्तेः, प्रामाण्यसंशयवादिनापि तदनुपलब्धिरवश्यं वक्तव्येति मन्वानो विकल्प्य दूषयति-तत्कि- म्-इति । धर्मिण एव-इति । उपलब्धे हि धर्मिणि धर्मविषयकः संशयो न त्वनुपलब्ध इति । अत्रायं संक्षेपः-गृह्यमाणं ज्ञानं यद्यप्रमाणविलक्षणं न गृह्येत ततः प्रामाण्यमेव न गृहीतं स्यात्, अथ तथा गृह्येत ततो न कदाचिदपि प्रामाण्यसंशयः स्यादिति । एवं स्वपक्षसाधनमभिधायेदानीं प्रकाशः । मणावाहुः । कदा चिदपीति । प्रामाण्यग्रहोत्तरकालमिव तत्पूर्वमपीत्यर्थः । न च ज्ञानत्वस्य साधा- रणधर्मस्य ज्ञानमात्राद् इत्याह । न हीति । प्रामाण्यज्ञानमात्रं न विरोधि, अपि तु प्रमाणमेवे- त्यवधारणाऽऽत्मकमित्याशयेन शङ्कते । अथेति । निश्चयमात्रमेव संशयविरोधि, न तु तद्वि- शेषोऽवधारणमित्याशयेन परिहरति । तत्किमति । प्रमाणेति । प्रमाणरूपं ज्ञानमित्यर्थः । तदप्रतीतेः = प्रामाण्याप्रतीतेः ॥ धर्मिण एवेति । ननु धर्मिज्ञानं न संशयहेतुः । कोटिस्मरणविशेषादर्शनधर्मेन्द्रियसन्नि- कर्षात् प्रामाण्यसंशयरूप एव ज्ञानग्रह उत्पद्यते । अन्यत्र विशिष्टज्ञाने विशेष्यज्ञानस्याहेतुत्वात् । अत्राहुः । तुरगादौ वेगेन गच्छतस्तद्विषयेन्द्रियसन्निकर्षेऽपि यावद्विशेषाज्ञाने यदेव धर्मि ज्ञायते तत्रैव विशेषादर्शनादितः संशयो जायते, न त्वज्ञाते धर्मिणीति धर्मिज्ञानं तद्धेतुः । किञ्च, यद्य- मकरन्दः । कदा चिदपीतीति । तत्र दोषात् कदाचित् प्रामाण्यसंशवेऽपि कच्चिन्मनसा तद्ग्रहे बाध- काभावान्म नोयोग्यत्वलक्षणं स्वतस्त्वं न खण्डितं भवति, अन्यथा रजतत्वादेश्चक्षुरादियोग्यत्वं न स्यात् । दोषतदभावाभ्यामुभयोपपत्तिरिति तु तुल्यम् । न च तत्र सामग्रीबलात् तथा, प्रकृते मनसो बहिरस्वातन्त्र्यात् स्वातन्त्र्येण तद्वत्प्राहकस्यैव तत्सत्तानिश्चयरूपतया प्रामाण्याग्राहक- त्वान्न तथेति वाच्यम् । तर्हि सामग्रीविरहान्न स्वतस्त्वमित्यायातं, संशयानुपपत्तेः कोपयोगः ? । न च सोऽपि उपनीते मनसः स्वातन्त्र्याभ्युपगमात् । अन्यथा तत्राप्युपनयसहकारेण तत्तत्तद- ग्रहणं सर्वसिद्धं विरुद्ध्येतेति चिन्त्यम् । टिप्पणी । च्चनेन्द्रियादिना धर्मिणमगृहीत्वा सम्भवतीत्युक्तदोषो न स्यादत आह । किञ्चेति । यद्धर्मि-

यहाँ दी गई पृष्ठ-छवि का पंक्ति-दर-पंक्ति देवनागरी पाठ प्रस्तुत है:

द्वितीयस्तवके ] प्रामाण्यपरतस्त्वोपपादनम् । २२६ नुपलब्धेरिति । यदपि झटिति प्रचुरतरसमर्थप्रवृत्त्यन्यथानुपपत्त्या स्वतः प्रामाण्यमुच्यते, तदपि नास्ति । अन्यथैवोपपत्तेः । झटिति प्रवृत्तिर्हि झटिति तत्कारणोपनिपातमन्तरेणानुपपद्यमाना तमाक्षिपेत्, प्रचुरप्रवृत्तिरपि स्वकारण- प्राचुर्यम्, इच्छा च प्रवृत्तेः कारणम्, तत्कारणमपीष्टाभ्युपायताज्ञानम्, तदपि तज्जातीयत्वलिङ्गानुभवप्रभवम्, सोऽपीन्द्रियसन्निकर्षादिजन्मा, न तु प्रामाण्य- ग्रहस्य क्वचिदप्युपयोगः । उपयोगे वा स्वत एवेति कुत एतत् ? । ततः समर्थ- प्रवृत्तिप्राचुर्यमपि प्रामाण्यप्राचुर्याद्वा, तद्ग्रहणप्राचुर्याद्वा । स्वतस्त्वं तु तस्य कोप- युज्यते । न हि पिपासूनां झटिति प्रचुरा समर्था च प्रवृत्तिरम्भसीति पिपासोपश- बोधनी । स्वतः प्रामाण्यं ज्ञायत इत्यत्र परोक्तं प्रमाणं दूषयितुमनुभाषते-यदपि-इति । समर्था=संगतार्था प्रयोजनाविसंवादिनीति यावत् । यदाह भाष्यकारः-‘सामर्थ्यं पुनरस्याः फलेनाभिसंबन्धः’- इति । तदेतत्प्रवृत्तिसामर्थ्यं प्रवर्त्तकविज्ञानस्य प्रामाण्यमन्तरेणानुपपद्यमानं तदाक्षिपति । तस्यापि प्रवृत्तेः प्रामाण्यसंशयादप्युपपत्तिमाशङ्क्योक्तं—प्रचुर इति । संशयेन हि कदाचित् क्वचित् प्रवृ- त्तिः स्यात्, न तु प्रचुरेति । ननु ततः प्रामाण्यनिश्चयोऽस्तु स्वत एवेति कुत इत्यत्रोक्तं-झटि- ति-इति । प्रमाणान्तरानपेक्षमेव ज्ञानोत्पत्त्यन्तरं भवन्ती तादृशी प्रवृत्तिः स्वतः प्रामाण्यनिश्चयं गमयति । ततश्च परतस्त्वानुमानं बाधप्रतिरोधयोरन्यतरदोषकलुषितमिति भावः । दूषयति- तदपि-इति । तामेवान्यथैवोपपत्तिमाह-झटिति-इति । न तु तत्रैवोपयोगः प्रामाण्यग्रहस्येति दर्शयंस्तत्कारणपरम्परां दर्शयति-इच्छा च इति । दृष्टार्थेषूपयोगाभावेऽप्यदृष्टार्थेषु ज्योतिष्टोमा- दिषु प्रागेव प्रवृत्तेः प्रामाण्यनिश्चयोपयोगमाशङ्क्याह । ततः समर्थ इति । यतः प्रामाण्यग्रहस्य न प्रवृत्तिं प्रत्युपयोग इति कथं प्रामाणादप्यगृहीतप्रामाण्यात् समर्था प्रवृत्तिरित्याह-तद्ग्रहण इति । प्रवर्त्तकविज्ञानप्रमाण्यग्रहणस्यावश्यंभावेऽपि विशिष्टप्रवृत्तेर्न तद्ग्राहकादेव तद्धर्मप्रामाण्यग्रह इत्येतद् दृष्टान्तेनोपपादयति-न हि इति । न हि पिपासाशमनशक्तमिति विशिष्टा प्रवृत्तिः पाथः- प्रकाशः । र्निगतसाधारणधर्मस्य येन सह भूयःसहचारावसायस्तत्रोत्कटकोटिकता संशयस्य धर्मिज्ञानस्या- हेतुत्वे न स्यात् । यदपीति । प्रामाण्यस्यानुमेयत्वे लिङ्गपरामर्शापेक्षया विलम्बः स्यादित्यर्थः । तथा चार्थी- पत्त्या परतस्त्वसाधनं प्रतिबद्धमिति भावः । अन्यथैवेति । प्रवृत्तिमात्रे प्रामाण्यग्रहो न हेतुः, अर्थसन्देहादपि प्रवृत्तेरित्यन्यथोपपत्तेरित्यर्थः । उपयोगे चेति । झटित्यभ्यासाप- न्ने लिङ्गानुसन्धानादप्युपपत्तेरित्यर्थः । पर मतेऽपि व्यभिचारमाह । न हीति । न ह्यविलम्ब टिप्पणी । णीति वक्तुमुचितम् । धर्मिज्ञानस्याहेतुत्वे न स्यादिति । धर्मस्योभयकोटिसह- चरितत्वविशेषाभावात् क्वचिद्धर्मिणि भावेन क्वचिच्चाभावेन भूयस्तदग्रहात् सहचारग्रहांशस्य विशेष्यकत्वस्य वक्तुमशक्यत्वात् धर्मितावच्छेदकग्रहस्यापि विशेषकत्वासम्भवाद् विशेषो न स्याद्, धर्मिग्रहस्य हेतुत्वे च यद्धर्मिणि येन भूयस्सहचारग्रहस्तद्धर्मिगोचरसहचारज्ञानजन्य- त्वस्य संशये सत्कार्योत्कटत्वनियामकत्वस्य वक्तुं शक्यत्वादिति भावः । न च संशयस्यैव तद्धर्मिविषयकत्वं तत्कोट्यंत्कटत्वप्रयोजकमस्त्विति वाच्यम्, तद्धर्मिविषयकपरोक्षासाधार- णधर्मधर्मिज्ञानजनितसंशये तद्धर्मिमात्रविषयकत्वस्य नियामकाभावेनोपपादयितुमशक्यत्वात्तत्को- ट्योत्कटत्वव्यवस्थायास्तत्रोपपादयितुमशक्यत्वात् । धर्मिज्ञानस्य हेतुत्वे च संशयस्य तन्न धर्मि- मात्रविषयकत्वं सुपादम् कारणगतविशेषाप्रयोज्यत्वे कार्य्यगतविशेपस्याकस्मिकत्वमपि दोषो

२३० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां सनशक्तितस्त्य प्रत्यक्षा स्यात् । स्यादेतत् । प्रामाण्यग्रहे सति सर्वमेतदुपपद्यते । स च स्वतः यदि न स्याद्, न स्यादेव; परतः पक्षस्याऽनवस्थादुःस्थत्वादिति चेन्न । तद्ग्रहेऽप्यर्थसन्देहादपि सर्वस्योपपत्तेः । न चानवस्थाऽपि, प्रामाण्यस्यावश्यज्ञेयत्वानभ्युपगमात् । अन्यथा बोधनी। स्वरूपग्राहकप्रत्यक्षादेव तच्छक्तिग्रहमपेक्षते, धौहित्यलिङ्गेनापि तद्ग्रहोपपत्तेः । तथा प्रवर्त्तक- विज्ञानस्वरूपग्राहिणः प्रमाणादन्येनापि तज्जातीयत्वादिनो लिङ्गेन तत्प्रामाण्यानुमानमविरुद्धमिति । स्यादेतत्-इति । सर्वमिदं-प्रवृत्त्यादिकमिति । न इति । मा भूदनवस्थादुःस्थत्वात् परतः प्रामाण्यग्रहः । तथापि न स्वतःत्वसिद्धिः, प्रामाण्याग्रहेऽप्यर्थग्रहोपपत्तेरर्थसंदेहेऽपि च प्रवृ- त्युपपत्तेरिति । ननु प्रामाण्ये कदाचित् ज्ञातव्ये भवत्येवानवस्थेत्याशङ्क्य न तावत्फलज्ञानमाश्रि- त्येयं प्रसज्यत इत्याह-न च इति । यथा ह्यर्थे गृह्यमाणे न तद्विषयकज्ञानप्रामाण्यग्रहापेक्षा, तथा प्रवर्त्तकविज्ञानप्रामाण्ये गृह्यमाणेऽपि न तद्ग्राहिणो गुणसंवादिविज्ञानस्य प्रामाण्यग्रहापेक्षा । तेन यदा कदाचित् केनचित् प्रामाण्यं जिज्ञास्येत तदा तदन्येनागृहीतप्रामाण्येनेव गृह्यत इति नान- वस्थेति । अवश्यं ज्ञेयत्वाभ्युपगमे दोषमाह- अन्यथा इति । न तावन्मीमांसकस्यापि ज्ञानं स्वयमेव प्रामाण्यं गृह्णाति स्वस्यैवाग्रहणात् । अतः स्वग्राहिणो ज्ञाततालक्षणफलाद्यनुपपत्तिरूपा त्प्रमाणाद् गृह्णात इति वक्तव्यं, तत्र चार्थापत्तिप्रामाण्यविषयविज्ञानस्याप्यर्थान्तरेण प्रामाण्यं ग्रहीतव्यम्, एवं तस्य तस्यापीत्यनवस्था प्रसज्यत इति । ननु मा भूतफलज्ञानप्रामाण्यस्याव- श्यं ज्ञेयत्वं, मा च भूत् तत्रानवस्था, तथापि प्रमाणसाधनमाश्रित्यानवस्था प्रसज्यत इत्याह- प्रकाशः। इत्येव लिङ्गानपेक्षता । तथा सति पिपासोपशमनशक्त्यनुभवस्याप्यलैङ्गिकत्वप्रसङ्ग इत्यर्थः । सर्वमेतदिति । झटिति प्रवृत्त्यादिकमित्यर्थः । स चेति । यद्यगृहीतप्रामाण्यमेव ज्ञानं परप्रामाण्यनिश्चयकमास्थेयं, तदा व्यवसायोऽप्यगृहीतप्रामाण्य एव विषयं निश्चाययतु, किं तत्प्रा- माण्यग्रहेण । यदि च तस्याप्रामाण्यसंशयान्न तन्मात्रादर्थनिश्चयस्तर्हि प्रामाण्यानुमितेरप्रामाण्य- संशयान्न ततोऽपि प्रामाण्यनिश्चयः । ततस्तस्या अपि प्रामाण्यनिश्चयावश्यकत्वेनानवस्था । एवं लिङ्गव्याप्त्यादिज्ञानानामपि प्रामाण्यानिश्चये हेत्वाद्यसिद्धिः, तन्निश्चये चानवस्था । न हि, न लि- ङ्गादिज्ञाने प्रामाण्यसंशयोऽनुभवविरोधात्, तथा च, परिशेषात् स्वतः प्रामाण्यग्रह इत्यर्थः । तद्ग्रहेऽपीति । न तज्ज्ञानप्रामाण्यनिश्चयादेवार्थनिश्चयः, किन्तु न यत्राप्रामाण्यशङ्का करतला- दिज्ञाने, तत्र व्यवसाय एवार्थनिश्चय इति तत एव निष्कम्पप्रवृत्त्युपपत्तिरिति न प्रामाण्या- नुमितिलिङ्गादिज्ञानानामपि प्रामाण्यानुसरणमिति नानवस्थेत्यर्थः । तथाप्यनभ्यासद्शापन्न- ज्ञानप्रामाण्यसंशयेनार्थनिश्चयस्य प्रतिबन्धात् तत्प्रामाण्यानुसरणेऽनवस्थेत्यत आह । न चेति । अगृहीतप्रामाण्यमेव ज्ञानं परप्रामाण्यं निश्चाययति, अप्रामाण्यशङ्काकलङ्काभावात् । यत्र प्रामाण्यज्ञानेऽप्यप्राण्यशङ्कया प्रामाण्यसंशयस्तत्र प्रामाण्यज्ञानप्रामाण्यनिश्चयादेव प्रामाण्य- निश्चयः । एवं, यावदप्रामाण्यशङ्कं तज्ज्ञानप्रामाण्यनिश्चयादेव तन्निश्चयः । न चैवमन- वस्था, चरमप्रामाण्यज्ञानस्य ज्ञानाभावाद्धर्मज्ञानाभावेन कोटिस्मरणाभावात् विषयान्तरसञ्चा- राद्वा प्रामाण्यसंशयानवश्यम्भावादित्यर्थः । अन्यथेति । भाट्टानां प्रामाण्यस्य ज्ञानानुमितिग्राह्यत्वे प्रकाशिका। स्वातन्त्र्येण प्रामाण्यग्रह इति प्रवर्त्तकं प्रामाण्यज्ञानं परत एवेति भावः । भट्टानामिति । इदमुप- मकरन्दः। अन्यथेतीति । प्रवृत्त्यनुपयोग्याप्यस्तीत्येव यदि प्रामाण्यमवश्यं ज्ञेयं, तदाऽस्य प्राह्यरवेऽ-

स्वतः पक्षेऽपि सा स्यात् । लिङ्गं निश्चितमेव निश्चायकम् , ततस्तन्निश्चयार्थम- वश्यं लिङ्गान्तरापेक्षायामनवस्थेति चेत् । तत् किमनुपपद्यमानोऽर्थोऽनिश्चित एव स्वोपपादकमाक्षिपति, येनानवस्था न स्यात् । प्रत्यक्षेण तस्य निश्चय।त्तस्य च सत्त्वयैव निश्चायकत्वान्नैवमिति चेत् । ममापि प्रत्यक्षेण लिङ्गनिश्चयात्तस्य च स- त्त्वयैव निश्चायकत्वान्नैवमिति तुल्यम् । लिङ्गज्ञानस्य प्रामाण्यानिश्चये कथं तन्नि- श्चयः स्यादिति चेत् । अनुपपद्यमानार्थज्ञानस्य प्रामाण्यानिश्चये कथं तन्निश्चय इति तुल्यम् । न हि निश्चयेन स्वप्रामाण्यनिश्चयेन वा विषयं निश्चाययति प्रत्यक्षम्, अपि तु स्वसत्तयेत्युक्तमिति चेत् । तुल्यम् । तथापि यदि तल्लिङ्गाभासः स्यात्तदा का वार्त्तेति चेत् । अनुपपद्यमानोऽप्यर्थो यद्याभासः स्यात् तदा का वार्त्तेति बोधनी । लिङ्गम् इति । प्रवृत्तिसामर्थ्यं तज्जातीयत्वं वा प्रामाण्यलिङ्गं निश्चितमेव सत्प्रवर्तकज्ञानस्य प्रामाण्यं निश्चाययति, लिङ्गनिश्चयश्च तज्ज्ञानप्रामाण्यनिश्चयादेवेति अवश्यं तदपि लिङ्गान्त- रेण निश्चितैन निश्चेयं, तन्निश्चयश्च तज्ज्ञानप्रामाण्यनिश्चयादिति । लिङ्गज्ञानप्रामाण्यं निश्चेतु- मेव परम्परा व्यवतिष्ठते इत्यत्रापि प्रामाण्यस्यावश्यंज्ञेयत्वानभ्युपगमेन सुगमः परिहार इति मन्वानः परस्यापि समानमेतदित्याह-तत्किम्-इति । निश्चित एवानुपपद्यमानोऽपि स्वोपपा- दकमाक्षिपति । तन्निश्चयश्च तज्ज्ञानप्रामाण्यनिश्चयात् सोऽप्यनुपपद्यमानार्थान्तरनिश्चयादिति दुस्त- राऽनवस्थेति । प्रत्यक्षेणेत्यादिशङ्का, तदुत्तरं च सुगमम् । लिङ्गज्ञानस्य-इति । सत्तामा- त्रावस्थितेन चक्षुरादिना जातेऽपि लिङ्गज्ञाने तत्प्रामाण्यानिश्चये कथं लिङ्गनिश्चयः, प्रामाण्यनिश्च- यश्च लैङ्गिक इत्येवमनवस्था सुस्थेति । तदन्यत्रापि तुल्यमित्याह- अनुपपद्यमान-इति । न हिं-इति । अनुपपद्यमानग्राहकं च प्रत्यक्षमिवि शेषः । तदन्यत्रापि तुल्यं लिङ्गग्राहकस्यापि तुल्यं प्रत्यक्षत्वादित्याह-तुल्यम्-इति । तथापि-इति । सत्तामात्रेण प्रत्यक्षस्य निश्चायकत्वे- ऽपि तस्य तदाभासाद्विवेचितस्वात्तदवगतं प्रामाण्यलिङ्गं कदाचिदाभासः स्यात् । अतस्तत्प्रा- माण्यं ज्ञेयमिति । तदप्यनुपपद्यमानग्राहिणोऽपि प्रत्यक्षस्य तुल्यमित्याह-अनुपपद्यमान इति । प्रकाशः । तस्या अपि प्रामाण्यानुस्मरणेऽनवस्था । प्राभाकराणामपि प्रामाण्यस्य स्वग्राह्यत्वं न स्वग्राह्यं, स्वग्राह्यत्वस्य स्वरूपप्रामाण्यान्यत्वादिति परग्राह्यत्वेऽप्यनवस्थानात् परिशेषानुमानेन मानान्त- रेण वा ग्राह्यम्, तथा च तत्प्रामाण्यस्यापि स्वग्राह्यत्वमन्थेनेत्यनवस्थया विषयान्तरसञ्चारो न स्या- दित्यर्थः । कारणमुखीमनवस्थामाह । लिङ्गमिति । प्रामाण्यसंशयेन लिङ्गस्य सन्दिग्धत्वान्न प्रकाशिका । लक्षणम् । मिश्राणामप्यनुव्यवसायप्रामाण्यग्रहद्वारिका अनवस्था द्रष्टव्या । प्राभाकराणामिति । प्रा- माण्यग्रहेऽनावश्यकत्वेऽप्यावश्यकत्वमारोप्य मन्मतेऽनवस्थाप्रसङ्गने स्वग्राह्यतानुमितिद्वारिका गुरु- णामपि सा स्यादित्यर्थः । कारणमुखीमिति । यद्यपि पूर्वमियमाशङ्का परिहृतैव, तथापि तत्र टिप्पणी । बोध्यः । प्राभाकराणामपि प्रामाण्यस्येति । प्रामाण्यस्य यदर्थतथात्वं प्रामाण्यं तस्य तत्त्वतो ग्राह्यत्वं तद्ग्रहे प्रामाण्यज्ञानप्रामाण्याप्रहादर्थज्ञानप्रामाण्यमप्यप्रतिष्ठितम्भवेदित्यनवस्थेति भावः । यद्वा यत्रैव प्रामाण्यस्य स्वतोग्राह्यत्वमग्टहीतं भवेत् तत्रैव तस्य स्वतोग्राह्यमप्रामाणिकं 'भवेत्तद्द्ग्रहणानुसरणेऽनवस्था इति । इदमत्र चिन्त्यम् , कालान्तरे पुरुषान्तरेण वा ग्रहे कृत्य- भावाद् भवत्यनवस्थापरिहार इति । स्वरूपप्रामाण्यात् । स्वस्य रूपं स्वरूपमिति

२३२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां तुल्यम् । सोऽपि प्रामाण्यमाक्षिपति-त्युत्सर्गः । स च कचिद्बाधकेनापोद्यत इति चेत् । लिङ्गेऽप्येवमिति तुल्यम् । तर्हि प्रामाण्यानुमानेऽपि शङ्का तदवस्थैवेति निष्- फलः प्रयास इति चेत् । एतदपि तादृगेव । अनुपपद्यमानोऽर्थ एवासौ तथाविधः कश्चिद्, यः स्वप्नेऽपि नाभासः स्यात्ततो नाशङ्केति चेत् । लिङ्गेऽप्येवमिति समः समाधिः। कः पुनरसावर्थो यः स्वप्नेऽपि नाभासः स्यात्, यदनुपलम्भे विभ्रमावका- शोयादृगुपलम्भे च तद्बाध्यव्यवस्था । अन्यथा हि, तथाभूतस्यापि व्यभिचारे साऽ- बोधनी । सोऽपि इति । अनुपपद्यमानाभासोऽपि-इति । लिङ्गाभासोऽप्येवमित्याह-लिङ्गेऽपि-इति । यदि लिङ्गाभासेनापि प्रामाण्यानुमानं तर्हि तदनुमितप्रामाण्यज्ञानस्याप्यप्रामाण्यशङ्का निवृत्तेति व्यर्थः प्रामाण्यानुमानप्रयास इत्याह-तर्हि-इति । अर्थापत्तिवादिनोऽपि तुल्यमेतदित्याह-एतद- पि-इति । ननु यदन्तरेण हि यन्नोपपद्यते न तत् तदन्तरेणा प भवतीति संभवति, तस्मादनुपप- द्यमानस्याभासत्वं न संभवतीत्याह अनुपपद्यमान इति । तर्हि तद्विनाभूतस्य तेन विनापि भानासम्भवात् लिङ्गाभासोऽपि न संभवतीत्याह-लिङ्गेऽपि-इति । अत्रान्तरे पार्श्वस्थः पृच्छ- ति-कः पुनः इति । योऽसौ युवाभ्यामुच्यते नाभासः स्यादिति कोऽसावर्थ इति । उत्तरं यद- नुपलम्भे इति । यस्य तदितरव्यावर्तकधर्मविशिष्टस्य वस्तुनोऽनुपलम्भे भ्रान्तिर्भवति यादृश- स्योपलम्भे चासौ न भवति सोऽर्थः स्वप्नेऽपि नाभासः स्यादिति । अनाभासस्योपलक्षणान्तर- माह-बाध-इति । तदितरव्यावर्तकधर्मानुपलम्भोपलम्भाभ्यां हि ज्ञानयोर्बाध्यबाधकव्यवस्थे.ते । यद्वा, यादृशस्यो- पलम्भे बाधकं व्यवतिष्ठते नातः परं भवति सोऽप्यर्थः । अन्यथेत्यस्य विवरणं तथाभूत- स्यापि व्यभिचार इति । सापि = बाधकव्यवस्थापि न स्यात् । न ह्युभयोरविशिष्टायां व्यभि- चारशङ्कायामेकं बाधकमितरद् बाध्यमिति व्यवस्था सिध्येदिति । सापि मा भूत् का नो हानिर्- प्रकाशः । निश्चय इत्यर्थः । भट्टमते ज्ञाततारूपलिङ्गज्ञानस्य प्रामाण्यसंशयान्न तन्निश्चय इति तद्ग्राहकपरम्प- राप्रामाण्यानुस्मरणेऽप्यनवस्थेत्याह । तत्किमिति । सोऽपीति । मायालिङ्गनि झटिति परित्रा- जकत्वबुद्धिवदप्रमाऽपि प्रमेत्येव गृह्यत इत्यर्थः । फलमुखामनवस्थामाह । तर्हीति । यद- नुपलम्भ इति । यस्य विशेषस्य शुक्तित्वादेरनुपलम्भे शुक्तौ रजतभ्रमो यस्य तु शुक्तित्वादे- रुपलम्भे भ्रमबाधो व्यवतिष्ठते, स लोकसिद्ध इत्यर्थः । यद्यपि यदुपलम्भ इति वक्तुमुचितं, तथापि वस्तुगत्या विशेषस्य ज्ञानं न भ्रमविरोधि, अपि तु विशेषत्वेनेति दर्शयितुं यादृशित्युक्तम् । एव- मनभ्युपगमे लोकव्यवहारविरोध इत्याह । अन्यथेति । सा=भ्रमबाध्यव्यवस्था । बाधकस्य व्यभि- प्रकाशिका । सामान्यत आशङ्का, इदानीन्तु विशेषतः प्रश्चान्तरेण दोषान्तरदानाय चेति न पौनरुक्त्यम् । मकरन्दः । प्यनवस्थेति भावः । मिश्रमतेऽप्यनवस्था द्रष्टव्या । फलमुखीमिति । यद्यपि पूर्वमेवमाशङ्का परि- हृतैव, तथापि सामान्यतः सा, विशिष्येदानीमाशङ्केति न दोष इत्येके । प्रसङ्गान्तरेण दोषान्तर- दानाय पुनराशङ्केत्यन्ये । टिप्पणी । व्युत्पत्तेः प्रामाण्यधर्म्मत्वादित्यर्थः, तथा च ज्ञानेन विषयप्रामाण्यमेव ग्राह्यम् न तु प्रामाण्यध- र्मभूतं प्रामाण्यमिति भावः । अत्र स्वयंप्रमाण्यान्यत्वादिति पाठः ।

द्वितीयस्तबके ] प्रामाण्यपरतस्त्वोपपादनम् । २३३ पि न स्यात् । मा भूदितिचेन्न, भवितव्यं हि तत्त्वात्तत्त्वविभागेन । अन्यथा व्याघा- तात् । कथं हि नियामकनिःशेषविशेषोपलम्भेऽपि विपरीतारोपः ? तथाभावे वा तदतिरिक्तविशेषानुपलम्भे कथं बाधकम् । तदभावे त्वबोधस्य कथं भ्रान्तत्वमिति । स्यादेतत् । परतः प्रामाण्येऽपि नित्यत्वाद्भेदानामनपेक्षत्वं, महाजनपरिग्रहाच्च बोधनी । स्याद्-मा भूत इति । भवितव्यम् इति । बाधकज्ञानविषयस्तत्त्वं, बाध्यज्ञानविषयश्चातत्त्वमिति हि तत्त्वात्तत्त्वव्यवस्था, । ततो बाध्यबाधकव्यवस्वाभावेन तत्त्वात्तत्त्वविभागोऽपि न स्यादिति । मा भूद्विभागोऽपीत्यन्नाह- अन्यथा इति । मा भूदित्यस्यापि निर्णयस्य तत्त्वभावेन व्याघातादिति । यादृशोपलम्भ इत्यादिनोक्तमेवार्थमुपपादयन्नाह-कथं हि-इति । तथाभावे वा इति । निया- मकनिःशेषविशेषोपलम्भे वेति । अथ पूर्वपक्षेकदेश्याह-स्यादेतत् इति । अस्तु परतः प्रामाण्यं प्रमाणानां, तथापि वेदानां प्रकाशः । चारिजातीयत्वे बाध्यबाधकयोरविशेषाद् बाधकत्वमेव न स्यादित्यर्थः । अन्यथेति । लोकमर्या- दाऽतिक्रमे किमपि न तत्त्वमित्यस्याप्यतत्त्वत्वे कान्त्ययातत्त्वमिति, बाधकरय तत्त्वं बाध्यरयातत्त्व- मभ्युपेयमित्यर्थः । तथाभावे वेति । यदि नियामकनिःशेषविशेषोपलम्भेऽपि विपरीतारोपः स्यात् तदा तस्यारोपत्वं न तावद् बाधकं विना निश्चेयम् । सर्वरयारोपत्वप्रसङ्गात् । बाधकात् तन्निश्चये बाधकाभिमतस्यापि बाध्यतायामबाधकत्वप्रसङ्गात् । अवाध्यत्वे तु कथमशेषविशेषोपलम्भे समारोपसम्भव इति भावः । एवञ्च प्रामाण्यानुमेयत्वे बहुवित्तव्ययायाससाध्येऽपि गृहीतप्रामाण्यं न ज्ञानंप्रवर्तकम् । तस्य प्रामाण्यानुमितेः प्रागेव नाशात् । किन्तु तज्ज्ञानसमानविषयमप्रामा- ण्यशङ्काशून्यं ज्ञानान्तरमेव । न चैवं प्रामाण्यानुमितिरफला, तां विना तत्समानविषयज्ञानेऽप्र- माण्यसंशयादिति सारम् । अस्तु सपक्षतृष्णान्दे प्रामाण्यस्योत्पत्तौ ज्ञप्तौ च परतस्त्वम् । वेदे तु नित्यतया वक्तुरभा- वान्त्र तत्र गुणाधीनं प्रामाण्यम् । ज्ञप्तिरपि तस्याप्तोक्तत्वं विनाऽपिमहाजनपरिग्रहादेव स्यादित्याह स्यादेतदिति । सर्गप्रलयसम्भवेन वेदस्य नित्यत्वं महाजनपरिगृहीतत्वञ्चासिद्धमित्याह । प्रकाशिका । बाधकाभिमतस्यापीति । अशेषविशेषोपलम्भेऽपि विपरीतारोपाभ्युपगमपक्ष इति शेषः । ज्ञानान्तरमेवेति । न च प्रामाण्यानुमितिरेव प्रवर्त्तिकास्तु स्वातन्त्र्येण इष्टतावच्छेदकवैशिष्ट्यां- वगाहित्वादिति वाच्यम् । इदन्तावच्छेदैन तद्वैशिष्ट्यावगाहिनो ज्ञानस्य प्रवर्त्तकत्वात् प्रामाण्यानु- मितेश्चातथात्वात् । तां विनेति । न चान्यत्र प्रामाण्यनिश्चयेऽन्यत्र कथं तत्संशयप्रतिबन्ध इति वाच्यम् । यद्धर्मावच्छेदेन यद्धर्मग्रहस्तद्धर्मग्रहस्य तत्कोटिकसंशयविरोधित्वात् । वस्तुतः प्रामा- ण्यानुमित्युपनीतं प्रामाण्यमेवोत्तरज्ञानुव्यवसाये भासत इति दिक् । कोलाहलयाव्याप्तिकत्वे मकरन्दः । बाधकाभिमतस्यापीति । अशेषविशेषोपलम्भेऽपि विपरीतारोपाभ्युपगमपक्षे इति शेषः तां विनेति । न चान्यत्र विशेषदर्शनस्य धर्म्यन्तरे शङ्काप्रतिबन्धकत्वेऽतिप्रसङ्ग इति वाच्यम् । अन्वयव्यतिरेकाभ्यामनन्यगत्याऽत्रैव तथा कल्पनादित्येके । तद्विषयकत्वावच्छेदेन पूर्वज्ञाने प्रामा- ण्यग्रहात् तज्ज्ञानत्वमेव विशेषदर्शनमित्यन्ये । वस्तुतस्तु तस्योपनीतभानसामग्रीत्वेन तद्ग्रहा- नन्तरमुपनीतं प्रामाण्यं तत्र भासत इति न तत्र शङ्केति प्रत्यक्षप्रकाशे विपश्चितम् । अन्यथा तस्य व्याप्यत्वेनाग्रहे शङ्काविरोधित्वानुपपत्तेरिति ध्येयम् । धूमत्वदर्शनस्यः व्याप्तिसंशयविरोधित्ववत् पृथगेव तस्य तद्विरोधित्वमित्यप्याहुः । २६ न्या० कु०

२३४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यानं प्रामाण्यमिति को विरोधः ? । न । उभयस्याप्यसिद्धेः । न हि वर्णा एव तावन्नि- त्याः । तथा हि । इदानीं श्रुतपूर्वो गकारो नास्ति, निवृत्तः कोलाहल इति प्रत्य- क्षेणैव शब्दध्वंसः प्रतीयते । न हि शब्द एवान्यत्र गतः । अमूर्त्तत्वात् । नाप्या- वृतः । तत एव संबन्धविच्छेदानुपपत्तेः । नाप्यनवहितः श्रोता । अवधानेऽप्यनु- पलब्धेः । नाऽपीन्द्रियं दुष्टं, शब्दान्तरोपलब्धेः । नाऽपि सहकार्यन्तराभावः । अन्वयव्यतिरेकवतस्तस्यासिद्धेः । नाप्यतीन्द्रियम् । तत्कल्पनायां प्रमाणाभावात् ।

बोधनी । वक्तृगुणज्ञानादिनिरपेक्षमेव प्रामाण्यं सिद्ध्यति, नित्यत्वेन तदनपेक्षत्वात् महाजनपरिग्रहाच्च प्रा- माण्यसिद्धेः, ततः प्रमायाः परतन्त्र्येऽपि नेश्वरसिद्धिरिति भावः । न-इति । नित्यत्वस्य तद- धीनानपेक्षत्वस्य चासिद्धिः । यद्वा, नित्यत्वस्य परिग्रहस्य च, यद्यपि सिद्धः परिग्रहस्तथापि नित्यत्वे वेदस्य निर्मूलतया अप्रतर्कल्प एवेति भावः । नित्यत्वासिद्धिमाह-न हि-इति । वर्णा- नामेवानित्यत्वे कुतस्तत्समुदात्मकस्य पदस्य नित्यत्वं, कुतस्तरां तत्समूहात्मनो वाक्यस्य, कुत- स्तमां तत्समूहात्मनां वेदानामिति तावच्छब्दस्यार्थः । कथं वर्णानामनित्यत्वमित्यत आह-तथा हि इति । विशेषतः सामान्यतश्च शब्दानां ध्वंसरूपमनित्यत्वं श्रोत्रप्रत्यक्षेणानुभूयत इति । नन्वयं शब्दानुपलम्भ एव, स च ध्वंसं विनाप्युपपत्स्यत इत्यत्राह-न हि इति । अमूर्त्तत्वस्य नि- ष्क्रियत्वंव्याप्तेरिति । अमूर्त्तत्वादेव शब्दस्येन्द्रियसंबन्धविच्छेदलक्षणमावरणमपि घटादेरिव न घटत इत्याह-नापि इति । नापि सत्येवेन्द्रियसंबन्धे श्रोतुरनवधानादनुपलब्धिरिन्द्रियदोषाद्वा संभवतीत्याह-नाप्यनवहितः-इति । नन्वदुष्टेऽपि श्रोत्रेन्द्रिये प्रतिशब्दं तत्सहकारिणो भेदा- च्छब्दान्तरोपलम्भेऽप्यनुपलम्भः शब्दान्तरस्योपपद्यते, तेन न तदनुपलम्भः सहकार्यन्तराभाव- दित्यत आह-नापि सहकारि-इति । शब्दोपलम्भं प्रत्यन्वयव्यतिरेकवतः सहकारिणः प्रत्य- क्षेणासिद्धिरिति । तस्यातीन्द्रियत्वेनानुपलब्धिरित्यत्राह-नापि-इति । श्रुतस्य शब्दस्याभावेनै- वोत्तरकालमनुपलम्भोपपत्त्यर्थं सहकारिकल्पनायां प्रमाणाभावादिति । तथापि तावत्कल्पने श्व-

प्रकाशः। उभयस्येति । यद्यपि वर्णानां नित्यत्वेऽप्यर्थप्रत्यायनानुकूलानित्यानुपूर्वीविशेषघटितत्वेन वेदोऽ- नित्य एवेति तत्र वक्तृगुणापेक्षाऽस्त्येव, तथापि वर्णस्यानित्यत्वव्युत्पादने तत्समूहविशेषवाक्यवि- शेषरूपस्य तस्य सुतरामनित्यत्वं सिद्ध्यतीत्याशयेन वर्णमात्रस्यानित्यत्वं साधयति । तथा हीति । अनभिव्यक्तवर्णत्वव्याप्यजातिविशेषो वर्णसमूह एव कोलाहलः । प्रत्यक्षमेव वर्णस्यानित्यत्वम् । योग्यानुपलब्धेः प्रत्यक्षप्रतियोगिकाभावत्वेनैव घटाभावस्येव तदभावस्य प्रत्यक्षत्वादित्यर्थः । प्रत्यक्षस्यान्यथासिद्धिं निराकरोति । न हीति । येन सन्नपि नोपलभ्यत इत्यर्थः । तत एव = अमूर्तत्वादेव । इन्द्रियसम्बन्धविच्छेदो ह्यावरणम् । स च शब्दस्य विभुत्वादाकाशविशेषगुणत्वे च श्रोत्रसमवायस्य नित्यत्वादयुक्त इत्यर्थः । तत्कल्पनेति । अतीन्द्रियशब्दोपलम्भककल्पनेत्यर्थः । ननु प्रतियोगियोग्यता मात्रंनाभावप्रत्यक्षत्वे तन्त्रं, किन्त्वधिकरणयोग्यताऽपि । सा च शब्द-

प्रकाशिका। तद्विनष्टत्वप्रतीतिर्न वर्णानित्यत्वे प्रमाणमत आह । शब्दस्य विभुत्वादिति भट्टमते । श्रोत्रसमवा- यस्येति । नित्यप्रतियोगिकसमवायस्य गुरुणापि नित्यत्वाभ्युपगमादिति भावः । विवादविषयत्वं

मकरन्दः। ननु कोलाहलस्य ध्वन्यात्मकत्वात् तदनित्यत्वेऽपि वर्णानित्यत्वं न सेत्स्यतीत्यत आह । अनभिव्यक्तेति । शब्दस्य विभुत्वादिति भट्टमते । अन्यशब्दध्वंसेऽपि कदा चिद्विवादसम्भ-

तृतीयस्तवके ] शब्दानित्यत्वोपपादनम् । २३५ अन्यथा, घटादावपि तत्कल्पनाप्रसङ्गात् । न च शब्दस्य नित्यत्वसिद्धौ तत्कल्प- नेति युक्तम् । निराकरिष्यमाणत्वात् ॥ ये त्वेकदेशिनो नैवमिच्छन्ति, तान् प्रत्युच्यते । विवादाध्यासितः शब्दप्र- ध्वंसः, इन्द्रियग्राह्यः, ऐन्द्रियकाभावत्वात्, घटाभाववत् । नैतदेवम्, बोधनी । स्तेऽपि घटेऽनुपलम्भः सहकारिविरहादिति स्यादित्याह—अन्यथा इति । ननु घटादौ न तत्क- ल्पनमनियतत्वात् , तस्मान्नित्यस्य शब्दस्यानुपलम्भः सहकारिविरहनिबन्धन एवेति तत्कल्पना युक्तेत्यत्राह—न च शब्दस्य—इति । ये तु नैयायिकैकदेशिनः शब्दध्वंसस्य प्रत्यक्षत्वं नेच्छन्ति तान्प्रति तत्रानुमानमिदमाह इत्याह-ये तु इति । आद्यादिशब्दप्रध्वंसव्यावर्त्तनायोक्तं—विवादाध्यासितः-इति । ऐ- न्द्रियकाभावत्वात्-इति । ऐन्द्रियकस्य प्रतियोगिनः प्रध्वंसाभावत्वादित्यर्थः । तथा च न सा- ध्याविशिष्टत्वं, नापि परमाणुवर्तिना घटरूपाभावेन व्यभिचार इति । एकदेशी शङ्कते–नैतदेवम्- इति । अभावस्य तावदिन्द्रियेण संयुक्तादिविशेषणविशेष्यभावसन्निकर्षः, न चायं श्रोत्रेण तदा- श्रयस्य शब्दप्रध्वंसस्यास्ति, न चासंयुक्तमिन्द्रियेण गृह्यते, अतीन्द्रियाकाशश्रयथ शब्दप्रध्वंसस्तं- प्रकाशः। ध्वंसे नास्तीति कथं प्रत्यक्षः सः । न चेन्द्रियविशेषणतया कस्य चिद् ग्रहो दृष्टः, अपि त्विन्द्रिय- सम्बद्धविशेषणतया, इत्यत आह — ये त्विति । विवादेति । श्रूयमाणशब्दध्वंस इत्यर्थः, अतो नान्त्यशब्दध्वंसे भागासिद्धिः । तस्य साक्षात्कारकाले नाशादिति भावः । पेन्द्रियकेति । ऐन्द्रियकप्रतियोगिकाभावत्वादित्यर्थः । नन्विदं मूर्त्तत्वाभावेऽनैकान्तिकं, भूतत्वस्य हि मूर्त्तत्वं प्रत्यक्षम् । यत्किञ्चिन्मूर्त्तग्रहेऽपि तद्- ग्रहात् , तदभावस्तु न प्रत्यक्षः । अयोग्यस्यापि मूर्त्तस्य सम्भवेन यावद्विशेषाभावाप्रत्यक्षतया मूर्त्तसामान्याभावस्याप्रत्यक्षत्वात् । न च प्रत्यक्षशेषमूर्त्ताभावग्राहिणा प्रत्यक्षेण प्रत्यक्षेतरमूर्त्ता- भावनिश्चयसहकारिणा सोऽपि गृह्यत एवेति वाच्यम् । लिङ्गवत्त्वावगमसहकारिणा पक्षग्राहकप्र- त्यक्षेणैव लैङ्गिकावगमेऽनुमानमात्रविलयापत्तेः । मूर्त्तत्त्वसामान्यस्य योग्यायौग्यघटितत्वेनाऽ- प्रकाशिका । कदाचिदन्यशब्दध्वंसेऽपीति भागासिद्धिरंशतो बाधश्चेत्यत आह । अन्त्येत्युपलक्षणम् , इन्द्रि- ग्रासन्निकृष्टशब्देत्यपि द्रष्टव्यम् । तस्येति । अन्त्यशब्दस्येत्यर्थः, इदं च प्रत्यक्षं प्रति समसमयतया विषयस्य हेतुत्वपक्षे द्रष्टव्यम् । कर्मधारयपक्षे साध्याविशेषात् प्रतियोगित्वलक्षणसम्बन्धवाचकषष्ठी- समासाभिप्रायेणाह । ऐन्द्रियकप्रतियोगिकेति । लिङ्गवच्चेति । वस्तुतः स्वरूपायोग्यस्य सहकारियोग्यताप्यकिञ्चित्करी स्वरूपायोग्यता चोपलम्भापादकसत्त्वप्रतियोग्यप्रतियोगिकत्वादिति भावः । ननु मूर्त्तत्त्वस्य योग्यायौग्यघटितत्वेऽपि योग्यत्वमेव, यत्किञ्चिद्विशेषयोग्यतयैव सामा- मकरन्दः । वादाह । श्रूयमाणेति । अन्त्येत्युपलक्षणम् । इन्द्रियासन्निकृष्टशब्दान्तरध्वंसेऽपि द्रष्टव्यम् । न च तस्यापि स्वरूपयोग्यत्वादिन्द्रियकत्वमेवेति वाच्यम् । अन्त्यशब्दस्यापि सहकारिवैकल्य- प्रयुक्तकार्याभाववत्त्वेन तथात्वसम्भवात् । तस्येति । अन्त्यशब्दस्येत्यर्थः । एतदपि प्रत्यक्षे स्व- समयवर्त्तित्वेन विशिष्य हेतुत्वपक्षे द्रष्टव्यम् । कर्मधारयपक्षे साध्यावैशिष्ट्यमाशङ्क्याह । ऐन्द्रि- यकेति । लिङ्गवत्त्वेति । तथा च यावद्विशेषाभावात् सामान्याभावोऽनुमीयत एव, न प्र- त्यक्ष इति भावः ।

२३६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां इन्द्रियाऽसन्निकृष्टत्वादतीन्द्रियाधारत्वाच्चेति चेन्न । इदं ह्युपाध्युद्भावनं वा स्यात्, बोधनी । -तोऽपि नेन्द्रियेण गृह्यत इति । सदेतद्विकल्प्य दूषयति-न इति । इदं द्वयमप्युपाध्युद्भावनं स्यात् ऐन्द्रियकत्वाभावतस्यैन्द्रियकत्वेन न स्वाभाविकः संबन्धः, घटाद्यभावे त्वैन्द्रियकत्वस्येन्द्रियसन्नि- कर्षैन्द्रियकाधारत्वयोरन्यतरप्रयुक्तत्वादिति । यद्वा, इन्द्रियग्राह्यत्वस्येन्द्रियसन्निकर्षः, ऐन्द्रियका- धारत्वं वा व्यापकं घटाभावादिषु दृष्टं, तन्न शब्दप्रध्वंसान्निवर्त्तत इति न तस्यैन्द्रियकत्वम्-इति । प्रकाशः । योग्यतया तदभावे हेतोरग्रहात् । येन रूपेण प्रतियोगियोग्यता, तेनैव तदभावस्य योग्यतावग- मात् । अत्राभावपदेन ध्वंस उक्त इति न व्यभिचार इत्येके । द्रव्यनिष्ठमूर्तत्वाभावस्याप्रत्यक्षत्वे- ऽपि गुणादौ स प्रत्यक्ष एवेत्यन्ये । उपाध्युद्भावनमिति । स्वव्यतिरेकेणेति शेषः । तेनेन्द्रिय- सन्निकृष्टत्वमैन्द्रिकाधारत्वञ्चोपाधिरित्यर्थः । न चैन्द्रियकाऽऽधारत्वं नोपाधिः, धर्माभावस्यापि प्रकाशिका । न्यस्य योग्यत्वात् मूर्तवद्भूतलमिति घटसत्त्वकाले प्रत्यक्षादित्यरुचेराह । अत्राभावेति । एके= मुख्याः । "एके मुख्यान्यकेवला" इति कोषात्, ननु मूर्तवत्त्वघटवत्त्वयोर्योग्यायोग्यघटितत्वा- विशेषात् कथं मूर्तवत्त्वाभावोऽप्रत्यक्षः प्रत्यक्षस्तु घटवत्त्वाभाव इति चेत् ? घटस्य ह्ययोग्य- त्वमिन्द्रियासन्निकर्षादिति सन्निकृष्टदेशे घटसत्त्वेनोपलब्धिरापादयितुं शक्यते नत्वेवं मूर्तत्वस्य परमाण्वोरतीन्द्रियत्वादिति । द्रव्यनिष्ठेति । द्रव्यविशेषणतयाऽप्रत्यक्षत्वेऽपि गुणविशेषणतया तस्यैवाभावस्य प्रत्यक्षत्वात् साध्यमेव तत्रेति न व्यभिचार इत्यर्थः । न स्वधिकरणभेदेनाभावभे- दाभिप्रायकोऽयं ग्रन्थः, तथा सति द्रव्यनिष्ठतदभावे व्यभिचारतादवस्थ्यात् । अन्य इत्यरुचौ । मकरन्दः । ननु मूर्तवत्त्वस्य योग्यायोग्यघटितत्वेऽपि नायोग्यत्वं, किञ्चिद्विशेषयोग्यतयैव सामान्यस्य योग्यत्वात् । घटवति भूतले मूर्तवदिदं भूतलमिति चाक्षुषप्रत्यक्षदर्शनाच्च । अन्यथा घटवत्त्वसा- मान्यस्यापि सन्निकृष्टासन्निकृष्टघटघटितत्वेनैन्द्रियकत्वानुपपत्तेः, स्वरूपायोग्यता सहकारिविर- हेण वा फलाभावस्याविशेषादित्यनुशयान आह अत्राभावपदेनेति । न चैन्द्रियकाभावत्वा- विशेषेऽपि घटसामान्याभावस्य प्रत्यक्षत्वे किं विनिगमकमिति वाच्यम् । सन्निकृष्टघटस्यापि तत्र तर्कितं सत्त्वमनुपलब्धिविरोधीति यावद्विशेषाभावप्रत्यक्षासम्भवादयोग्यमूर्त्ताभावस्यातथात्वा- दिति विशेषात् । द्रव्यनिष्ठेति । द्रव्यविशेषणतया ऽप्रत्यक्षत्वेऽपीत्यर्थः । एतेनाधिकरणभेदेना- भावभेदानभ्युपगमाद्, अभ्युपगमे वा द्रव्यनिष्ठतदभावे व्यभिचारतादवस्थ्यादित्यपास्तम् । एकस्यैवाधिकरणभेदेन प्रत्यक्षत्वाप्रत्यक्षत्वोपगमात्, योग्यायोग्यजले पृथिवीत्वात्यन्ताभाववत् । अत्र यावद्विशेषाभावाप्रत्यक्षतयाऽप्रत्यक्षत्वं गुणेऽपि समानम् । अनुमानादिना तन्निश्चये तत्प्रत्य- क्षत्वं द्रव्येऽपि तुल्यम् । यावद्विशेषाभावनिश्चये तन्निश्चयोऽनुमित्यात्मक इत्यपि समानमित्यनभि- मतिबीजं द्रष्टव्यम् । ऐन्द्रियकाधारत्वञ्चेति । तथा चातीन्द्रियाधारत्वादित्यस्य ऐन्द्रियकानाधारत्त्वादि- त्यर्थो बोध्यः । तेन तद्व्यतिरेकत्वमस्योपपद्यते । अत एवानुपदं तथैव विभावयिष्यतीति । न च शब्दादौ साध्याव्यापकत्वम् । साधनाद्यवच्छिन्नसाध्यव्यापकत्वादिति भावः । भवेदेवं यदि सम- टिप्पणी । ज्ञप्तिरपि तस्याप्तोक्तत्वं विनापीति । वक्तृगुणाधीनत्वं विनापीत्यर्थः । अत्राभावपदेन ध्वंस उक्त इति । सामान्यस्य हि योग्यत्वं यत्किञ्चिद्विशेषयोग्यत्वनिबन्धनम् घटसत्त्वकाले सामान्यरूपेणैव मूर्तवद् भूतलमिति प्रत्यक्षादित्यरुचेराह । अत्रेति । ऐन्द्रियकाधारत्वञ्चेति । न चैन्द्रियका-

द्वितीयस्तबके ] { शब्दानित्यत्वोपपादनम् । २३७ व्यापकानुपलब्ध्या सत्प्रतिपक्षत्वं वा? न प्रथमः, स्वरूपयोग्यतां प्रति सहकारियोग्यताया बोधनी सत्प्रतिपक्षत्वम्-इति । तत्र न तावदुपाध्युद्भावनपक्षः संभवतीत्याह-प्रथमः इति । इन्द्रियसन्नि- कर्षस्य तावदनुपाधित्वमाह-स्वरूप इति । शब्दप्रध्वंसस्येन्द्रियग्रहणं प्रति स्वरूपयोग्यता तत्र प्रकाशः । प्रत्यक्षतापत्तेरिति वाच्यम् । उपाधेरधिकदेशत्वेऽपि दूषकताबीजसाध्यव्यापकत्वानपायात् । अथ नायमुपाधिः, व्यतिरेकोपसंहारसामर्थ्याभावात् । तथा हि । अभावत्वे सत्यतीन्द्रियांधा- रत्वादिति यद्यपि नैन्द्रियकाधारत्वस्य व्यतिरेकः, उभयाधारत्वेऽप्यविरोधात् । तथाप्यभावत्वे सत्यैन्द्रियकाऽनाधारत्वादिति सम्भवति, किन्तु योग्यताविरहस्तत्रोपाधिः । न च साधनव्यापकत्वं; न ह्यतीन्द्रियाधारत्वमेव योग्यताविरहः, पृथिवीत्वाभावादेर्योग्यतापत्तेः । नाप्यैन्द्रियकाधारत्वा- भावः सः । तदर्थसहिततदभावस्य योग्यतात्मकत्वे धर्माभावस्य योग्यतापत्तेः । मैवम् । ऐन्द्रि- यकाभावमन्तर्भाव्याभावस्य योग्यतेत्युक्तेऽपि साधनव्यापकताया अपरिहारादिति भावः । व्यापकेति । प्रत्यक्षव्यापकैन्द्रियकाधारत्वेन्द्रियसन्निकर्षानुपलब्धेरित्यर्थः । यद्यपि शब्दध्वंसो न प्रत्यक्षोऽतीन्द्रियाधारत्वादिति पृथिवीत्वाद्यौ व्यभिचारि, तथाप्यैन्द्रियकानाधारत्वादिति हेतूकर्त्त- व्यम् । तत्र प्रथममुपाधिनिरस्यति । स्वरूपेति । स्वरूपयोग्यतां प्रत्यक्षोपहितस्वरूपसम्पत्तिं प्रकाशिका । तद्बीजन्तु गुणादावुपपत्तिकाभावज्ञानेऽपि न सामान्याभावः प्रत्यक्षः प्रतियोगिसत्त्वविरोध्यनुपलम्भा विषयत्वादू द्रव्ये न तादृशानुप्लम्भो गुणादौ तु स इत्यस्य राजनिशेत्वादिति । ऐन्द्रिय- काधारत्वं चेति । अभावत्वावच्छिन्नसाध्यव्यापकोऽयमुपाधिः, अतो न शब्दादौ साध्या- व्यापकत्वमिति ध्येयम् । एवञ्चातीन्द्रियाधारत्वादिति मूलस्यैन्द्रियकानाधारत्वादित्यर्थः । तेन तद्व्यतिरेकत्वमुक्तरूपधमुपपद्यत इति न "स्वव्यतिरेकेणेति शेष" इति प्रकाशविरोधः । अत एवाग्रे तथैव विभावयिष्यतीति । उभयाधारत्वेऽपीति । तथा च विरोधाभावे न परस्परविरहरूपता- शङ्कापीति भावः । पृथिवीत्वात्यन्ताभावादौ व्यभिचाराच्चेत्यपि द्रष्टव्यम् । योग्यताविरह इति । यद्यपि योग्यताविरहमुपाधिं मुक्तकृदेवाग्रे वक्ष्यति । तथापि सत्प्रतिपक्षनिराकरणावसरे तथा- मूलम्, अत्र तूपाधिप्रस्तावे तदेवाशङ्क्य दूषणं समाहितमिति द्रष्टव्यम् । तथापीति । वायुस्पर्शे व्यभिचार इति सत्यन्तम् । ऐन्द्रियकाभावत्वमिति ऐन्द्रियकप्रतियोगिकत्वे सत्यैन्द्रियकाधारत्वं योग्यता तथा च न धर्मध्वंसस्य योग्यता न वोपाधिः साधनव्यापक इत्यर्थः । अपदार्थव्या- मकरन्दः । न्यास एवोपाधिः स्यात् न चैवम् विषमव्याप्तस्यापि तथात्वादित्याह उपाधेरिति । तथाऽ- पीति । आत्मादौ व्यभिचारवारणाय सत्यन्तम् । ऐन्द्रियकप्रतियोगिकाभावत्वे सत्यैन्द्रियकाधा- रत्वं योग्यत्वम् । तथा च न धर्माभावस्य योग्यता, तद्विरहश्च साधनव्यापक एवेत्याह ऐन्द्रिय- काभावमिति । टिप्पणी । 'धारत्वं शब्दे साध्याव्यापकत्वान्नोपाधिः, तद्धर्मावच्छिन्नसाध्यव्यापकत्वे सति तद्धर्मावच्छिन्नसा- धनान्यापकत्वस्यैवोपाधिरूपत्वेनाभावत्वावच्छिन्नसाध्यव्यापकत्वात् । व्यतिरेकोपसंहारसा- मर्थ्याभावादिति । स्वाभावेन साध्यव्यतिरेकानुमायकत्वादित्यर्थः । उभयाधारत्वेऽप्यविरो- धादिति । ऐन्द्रियके पृथिवीत्वाद्यभावे वृत्तित्वेन व्यभिचार इति भावः । तथाप्यभावत्वे स- तोति । वाय्वस्पर्शे व्यभिचारवारणाय सत्यन्तम् । अपरिहारादिति । ऐन्द्रियकप्रतियोगिकत्वे

२३८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां अनुपाधित्वात् , तस्यास्तामपेक्ष्यैव सर्वदा व्यवस्थितेः, नाप्यैन्द्रियकाधारत्वप्रयुक्त- बोधनी । साध्यते, सा च यावत्स्वरूपभाविनीति न तां प्रत्यागन्तुकस्य सहकारियोग्यतारूपस्येन्द्रियसन्नि- कर्षस्योपाधित्वं साध्यव्यापकत्वाभावादिति । ऐन्द्रियकाधारत्वस्याप्यनुपाधित्वमाह-नापि इति । तत्र मानसप्रत्यक्षात्माऽऽधाराणां धर्माधर्मसंस्काराणां ध्वंसस्य मानसत्वप्रसङ्गः । इन्द्रियसन्निकर्ष- स्योपाधित्वेऽपि मनःसंयुक्तात्मविशेषणत्वेन धर्माद्यभावस्य प्रत्यक्षत्वप्रसङ्गो द्रष्टव्य इति भावः । प्रकाशः । प्रति, सहकारियोग्यतायास्तत्सम्पत्तेरिन्द्रियसन्निकर्षस्यानुपाधित्वात् । कुतः ? तस्या इति । तस्याः = प्रत्यक्षतायाः, ताम् = इन्द्रियसन्निकर्षरूपसहकारियोग्यतामित्यर्थः । तथा च पक्षवृत्तित्वेन साधनव्यापकत्वान्नोपाधिरिति भावः । यद्वा, स्वरूपयोग्यातारूपं साध्यं प्रति, सहकारियोग्यता नोपाधिः, साध्यव्यापकत्वादित्यर्थः । द्वितीयमुपाधिं निरस्यति नापीति । यद्यप्युपाधौ सति साध्याभावो न दोषाय, तथापि समव्याप्तोपाधिमभिप्रेत्योक्तम् । विषमव्याप्तोपाधिपक्षे तु त्र्यणुके साध्याव्यापकत्वम् । अभावत्वपक्षधर्मावच्छिन्नसाध्यव्यापकत्वे तु नष्टाश्रयद्रव्यधर्माद्यभावे साध्या- व्यापकत्वम् । किञ्च प्रत्यक्षयोग्यताऽत्र साध्या, सा चाभावस्य नैन्द्रियकाधारत्वमात्रं, धर्माभावस्य प्रकाशिका । ख्यानमरोचमानाह । यद्वेति । अत्र च व्याख्याने "तस्या इत्यादिमूल" फक्किकाव्याख्या- नमेवम् तस्याः स्वरूपयोग्यतायाः । तां=सहकारियोग्यताम् । अपेक्ष्य सर्वदा ऽव्यवस्थितेरिति नञोऽन्तर्भावात् तथा च सहकारियोग्यतानेरपेक्ष्येणापि स्वरूपयोग्यतासत्त्वादित्यर्थः पर्यवस्यति, तेन साध्याव्यापकत्वं निर्वहतीति ध्येयम् । अभावत्वेति । अत एव साधनावच्छिन्नसाध्यव्या- पकत्वमप्यपास्तमिति न तदाशङ्कितम् । द्रव्यधर्मेति । द्रव्यस्य धर्मो रूपादिः आश्रयनाशज- न्यस्य रूपादिनाशस्य प्रत्यक्षस्यातीन्द्रियकालादिमात्रवृत्तितयोपाधेः साध्याव्यापकत्वमिति भावः । किञ्च प्रत्यक्षयोग्यातारूपे साध्ये योग्याधिकरणत्वस्य व्यापकताग्राहकमपि नेत्याह । किञ्चेति । अधिकरणस्येन्द्रियग्राह्यत्वमात्रं वाऽभावप्रत्यक्षे प्रयोजकमभावग्राह्येन्द्रियग्राह्यत्वं वा, आद्ये गौरव- मकरन्दः । स्वरूपयोग्यतापदस्य फलोपधानपरत्वेऽपदार्थव्याख्यानमित्यनुशयान आह यद्वेति । एव- ञ्चात्र कल्पे तस्याः = स्वरूपयोग्यतायाः । तां = सहकारियोग्यतामपेक्ष्य सर्वदा अव्यवस्थितेरित्य- कारप्रश्लेषेण मूलफक्किका योज्या, तेन साध्याव्यापकत्वं निर्वहतीति ध्येयम् । अभावत्वेति । अत एव साधनावच्छिन्नसाध्यव्यापकत्वमपि निरस्तम् । वस्तुत आधारपदं प्रतियोगिसमवायिपर- मिति भूतलादिवृत्तित्वेऽपि साध्याव्यापकत्वम् । अन्यथा शब्दध्वंसस्यापि वीणादिवृत्तित्वेन साधन- व्यापकत्वापत्तेरिति । द्रव्यधर्मादीति । तदभावस्य कालाद्यतीन्द्रियाधारनिरूप्यत्वात् साध्याव्याप- टिप्पणी । सत्यैन्द्रियकत्वाधारत्वमेव योग्यता तदभावश्च साधनव्यापक एवेत्युपाध्यभावादभावत्वे सत्यैन्द्रियका- धारत्वेन स्वव्यतिरेकेण व्यतिरेकोन्नायकत्वसम्भवादुपाधित्वसम्भव इति भावः। साध्याव्यापकत्वा- दित्यर्थ इति । स्वरूपयोग्यताया इन्द्रियसन्निकर्षरूपसहकारियोग्यताविगमकालेऽपि सत्त्वादिति- भावः । साध्याव्यापकत्वमिति । तदाधारस्य त्र्यणुकस्यातीन्द्रियत्वात् । कालमात्रस्यैव तदाधार- त्वेन तस्यातीन्द्रियत्वात् । नष्टाश्रयद्रव्यस्येति । नष्टमाश्रयद्रव्यं यस्येति विग्रहेणाऽऽश्रयनाशजन्य घटरूपादिनाश इत्यर्थः । योग्यतात्र साध्या सा चेति । हेतुतावच्छेदकं प्रत्यक्षजनतावच्छेद-

द्वितीयस्तवके ] शब्दाऽनित्यत्वोपपादनम् । २३६ मभावस्य प्रत्यक्षत्वम्, धर्माद्यभावस्यापि तथात्वप्रसङ्गात् । अत एव, नोभयप्रयु- क्तम् । नापि द्वितीयः, प्रथमस्यासिद्धेः । अस्ति हि श्रोत्रशब्दाभावयोः स्वाभा- बोधनी । अत एव इति । यत इन्द्रियसन्निकृष्टत्वेन्द्रियाधारत्वयोर्द्वयोरपि धर्माद्यभावे व्यभिचार इति । नापि सत्प्रतिपक्षत्वमित्याह-नापि द्वितीयः- इति । द्वयोरुपाधित्वस्य व्यभिचारदूषितत्वात् सत्प्रतिपक्षत्वमपि निरस्तमेवेति भावः । तत्र प्रथमस्येन्द्रियासन्निकृष्टत्वस्य स्वरूपासिद्धेरपि न सत्प्रतिपक्षत्वमित्याह - प्रथमस्य इति । असिद्धिमेवाह - अस्ति हि-इति । स्वाभाविकः = संयोगसमवायादिसंबन्धान्तरनिरपेक्ष इति । ननु यदि श्रोत्रविशेषणतया शब्दाभावोऽपि गृह्येत प्रकाशः । प्रत्यक्षतापत्तेः । नाप्यैन्द्रियकाधारत्वे सत्यैन्द्रियकप्रतियोगिकाभावत्वम् । गौरवात् । तदिन्द्रिया- ग्राह्येऽप्यधिकरणे गन्धरसभावाद्योर्घाणादिना ग्रहाच्च । न चैन्द्रियकप्रतियोगिकाभावत्वस्य योग्य- तात्वे वायुस्पर्शध्वंसोऽपि प्रत्यक्षः स्यादिति वाच्यम् । तस्याश्रयनाशजन्यस्य ग्राहकेन्द्रियसन्नि- कर्षाभावादिति भावः । अत एवेति । इन्द्रियसन्निकृष्टत्वमैन्द्रियाधारत्वं चेत्युभयम् । तत्प्र- युक्तमपि नाभावस्य प्रत्यक्षत्वम् , धर्माभावस्य प्रत्यक्षतापत्तेरित्यर्थः । सत्प्रतिपक्षद्वये प्रथमस्या- सिद्धिमाह नापीति । अत्र(१) स्थापनानुमाने योग्यत्वे साध्ये प्रत्यनुमाने तदभावः साध्यः । तच्च चेन्द्रियासन्निकृष्टत्वं व्यभिचारि, इन्द्रियासन्निकृष्टेऽपि योग्यताया अनपायात् । तस्माद्यदा साक्षा- त्कारविषयत्वं साध्यं, तदा फलाभावे योग्यता व्यर्थेति तन्नाऽसिद्धिरुक्तेत्याहुः । ननु विशेषणत्व प्रकाशिका । मेव बाधकम् , अन्त्ये त्वन्यदप्याह । तदिन्द्रियेति । तस्येति । कालादौ स गृह्यत एवेत्य- ष्टापत्तिरपि द्रष्टव्या । नन्विति । उभयसिद्धव्यभिचारे दोषे सति किमन्यतरासिद्धस्वरूपा- सिद्धेरभिधानेनेति भावः । तस्माद्यदेति । तथा च प्रतिस्थापनानुमाने फलोपधानविरह एव साध्य इति न व्यभिचार इति भावः । योग्यता व्यर्थेति । शब्दाभावत्वावच्छिन्ने फलाभावे सति योग्यतासाधनमपि प्रतिरुद्धं परस्परविरोधादिति भावः । एवं च योग्यता=तत्साधनम् । व्यर्थम्=अनुमित्यजनकमिति शब्दार्थः । केचित्तु फलाभावरूपसाध्यसत्त्वे योग्यता सत्यपि व्यर्था मकरन्दः । क्त्वमिति भावः । ऐन्द्रियकत्वमिन्द्रियग्राह्यत्वमात्रं, तदिन्द्रियग्राह्यत्वं वा ? आद्ये, गौरवादिति । अन्त्ये, तदिन्द्रियेति । तस्येति । कालादावाश्रयान्तरे प्रत्यक्ष एवेतीष्टापत्तिरपि बोध्या । फलोपधानाभिप्रायेण समाधत्ते तस्मादिति । फलोपधानाभावरूपे साध्ये सति योग्यता टिप्पणी । पक्षधर्मत्वम् , तेन हेतुसाध्ययोरेक्यम् । ग्राहकेन्द्रियसन्निकर्षाभावादिति । कालादौ तत्प्रत्यक्षस्येष्टावाच्चेत्यपि बोध्यम् । तथा चैन्द्रियकाधारत्वस्य साध्यव्यापकत्वग्रहो न सम्भवतीति भावः । ननु स्थापनानुमाने योग्यत्व इति । उभयसिद्धव्यभिचारे सम्भवति किमन्य- तरासिद्धासिद्धिनिदानेनेति शब्दार्थः । प्रतिस्थापनानुमाने न योग्यताविरहः साध्यः किन्तु फलोपहितत्वाभाव एव, तत्र न व्यभिचारः सम्भवतीत्यसिद्धिरुक्तेति समाधत्ते । तस्मा- दित्यादिना । ननु योग्यत्वरूपसाध्यं प्रति फलानुपधानस्याविरोधित्वात् कथं सत्प्रतिपक्ष- तेत्यत आह । तदेत्यादिना । अत्र सर्वथैव फलाभावस्य साध्यता तथात्वे सति योग्यताकल्प- नाया अपि व्यर्थत्वेनास्त्येव तस्य विरोधित्वमिति भावः । केचित्तु फलाभावे साध्ये योग्यता व्यर्था विद्यमानापि व्यभिचाराप्रयोजिका तदभावस्यासाधनत्वादित्याहुः । साक्षात्कारविषयत्व- ( १ ) नन्विति जलदसंमतः पाठः ।

२४० व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्या धिको विशेषणविशेष्यभावः। विशेष्यस्यातीन्द्रियत्वात् कथमैन्द्रियकविशिष्टज्ञान- विषयत्वम्, तथा विशेष्यमव्यवस्थापयतश्च कथं विशेषणत्वमिति चेन्न। तथा विशे- ष्यव्यवस्थापनायाः फलत्वात्। न तु तदेव विशेषणत्वम्, आत्माश्रयप्रसङ्गात्। विशेषणभावेन समवायाभावयोर्ग्रहणं, तथाग्रहणमेव च विशेषणत्वमिति। बोधनी ततः शब्दाभावविशिष्टत्वेन श्रोत्रं ग्रहीतव्यं, न चैतत्सम्भवति श्रोत्रस्यातीन्द्रियत्वादित्याह-वि- शेष्यस्य-इति। विशिष्टज्ञानविषयत्वाभावे को दोषस्तत्राह--तथा-इति। न हि स्वजन्यवि- शिष्टज्ञानविषयत्वेन विशेष्यमनवच्छिन्दतो विशेषणत्वं नाम। विशेष्यव्यवस्थापकस्यैव विशेषणत्वा- दिति भावः। न इति। तथा विशेष्यव्यवच्छेदो विशेषणस्य फलं, न तु विशेषणत्वमिति। कुत इत्यत आह। आत्माश्रय। इति। कथमित्यत्राह। विशेषणभावेन इति। विशेषणभावो हि सन्निकर्षः समवायाभावयोर्ग्रहणहेतुः। तत्र यदि विशेष्यस्थापनमेव विशेषणत्वं तदा विशेषणभावेन तयोर्ग्रहणं, विशेषणभावश्च तथाग्रहणमेवेत्यात्माश्रयत्वं दृष्टान्तार्थे समवायोपसंग्रहणमिति। तत्तथैवमङ्गीकार्यमित्याह- प्रकाशः। सभावस्य तदा स्याद्यदा श्रोत्रं शब्दध्वंसज्ञाने भासेत, न चैवम्, श्रोत्रस्यातीन्द्रियत्वात्। ततो न शब्दध्वंसस्य तद्विशेषणत्वम्। स्वसम्बन्धेन विशेष्ये व्यावृत्तिबुद्धयजनकरत्वात्। नाऽपि श्रोत्रं विशेष्यं, व्यावृत्तबुद्धयविषयत्वादित्याह विशेष्यस्येति। श्रोत्रस्यातीन्द्रियत्वेऽपि शब्दलिङ्गकश्रो- त्रज्ञानसहकारि-मनः-प्रसूतानुमितिविषयत्वं स्यादित्यभिप्रेत्याह तथेति। विशेषणतासम्बन्धस्य हि विशिष्टज्ञानं फलं, न तु तदन्तर्भावेणैव स इत्यर्थः। आत्माश्रयमेवाह विशेषणभावेनेति। प्रकाशिका। व्यभिचाराप्रयोजिका। तद्विरहस्यासाध्यत्वादित्यर्थः। स्थापनानुमानेऽपि फलोपधानमेव साध्य- मिति सत्प्रतिपक्षसत्त्वासङ्गतिरिति भाव इत्याहुः। आहुरीत्यस्वरसे, तद्बीजन्तु अनन्तस्य सर्व- दासन्निकृष्टस्य तदिन्द्रियासन्निकृष्टस्य तदिन्द्रियायोग्यत्वं यथात्मनः श्रोत्रायोग्यत्वमिति तथैव हेतुः करणीयो योग्यता तद्विरहावेव च स्थापनाप्रतिस्थापनयोः साध्यत्वेनाभिमताविति यथाश्रुतमेव सम्यगिति। शब्दध्वंसज्ञान इति। विशेष्यतायेति शेषः। शब्दलिङ्गजेति। विशेषण- तयेति शेषः। शब्दरूपलिङ्गजेत्यर्थः। अनुमितीत्युपलक्षणम्। उपनीतभानेत्यपि द्रष्टव्यम्। इदं च शब्दध्वंसविशेषणकश्रोत्रविशेष्यकप्रत्ययमभिप्रेत्योक्तम्। शब्दध्वंसविशेष्यकन्तु प्रत्ययः श्रोत्रेणापि सम्भवत्येवेत्यवधेयम्। अविषयीकृत्यापीति निरधिकरणैवाभावप्रतीतिः, काला- द्यधिकरणा वेत्यभिप्राायेणेदम्। वस्तुतोऽविषयीकृत्य = अविशेष्यीकृत्येत्यर्थः। एवं च श्रोत्रे शब्द- ध्वंस इत्याकारकमेव प्रत्यक्षमित्यर्थः। मकरन्दः। सत्यपि व्यर्था व्यभिचाराप्रयोजिकेति स्वरूपासिद्धिरैवोक्तेत्यर्थः। वस्तुतः, स्थापनायां योग्यत्वमेव साध्यम्, अन्यथा व्यभिचारप्रसङ्गादिति तदभाव एवात्र साध्यः। तत्र चाप्रसिद्धिरुपलक्षणत- योक्तेति व्यभिचारसत्त्वेऽप्यदोष इति तत्त्वम्। अत एवास्वरसादुक्तमित्याहुरिति। शब्द- लिङ्गजेति। शब्दरूपलिङ्गजेत्यर्थः। अनुमिति विषयत्वमित्युपलक्षणम्। मानसप्रत्यक्षविषय- त्वमित्यपि द्रष्टव्यम्। यद्यपि श्रोत्रप्रत्यक्षविषयत्वमपि सम्भवति, तथापि तत्र श्रोत्रस्य विशेष्यत्वमिति तन्नोक्तम्। टिप्पणी। मिति। साक्षात्कारविषयत्वमिति कचित् पाठः, तत्र साध्यं स्थापनानुमाने साध्यमित्यर्थः। असम्बन्धेन विशेष्ये इति। स्वसम्बन्धेनेत्यपि पाठः। स्वं विशेषणता तदात्मकेन सम्बन्धेने- त्यर्थः। तस्य विशेष्येऽसत्त्वात्तत्र व्यावृत्तिबुद्धिजनकत्वासम्भवादित्यर्थः। असम्बन्धेनेति पाठे, त

द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् । २४१ तस्मात्, सम्बन्धान्तरमन्तरेण तदुपश्लिष्टस्वभावत्वमेव हि तयोः। सैव च विशिष्टप्रत्ययजननयोग्यता, विशेषणतेत्युच्यते। सा चात्र दुर्निंवारा, प्रतियोग्यधि- करणेन स्वभावत एवाभावस्य मिलितत्वात्। तथापि तया तथैव प्रतीतिः कर्त्त- व्येति चेन्न। गृह्यमाणविशेष्यत्वाऽवच्छिन्नत्वादू व्याप्तेः। अन्यथा, संयुक्तसमवायेन रूपादौ विशिष्टविकल्पधीजननदर्शनाद् गन्धादावपि तथात्वप्रसङ्गात्। तथापि नेन्द्रि- यविशेषणतया कस्यचिद् ग्रहणं दृष्टम्, अपि त्विन्द्रियसम्बद्धविशेषणतया, सा चातो निवर्त्तत इति चेन्न। अस्य प्रतिबन्धस्य इन्द्रियसन्निकृष्टार्थप्रतिसम्बन्धिविषयत्वात्। बोधनी। तस्मात् इति। अस्त्वेवं सम्बन्धः, विशेषणता तु कथं तयोः सिध्येत, सम्बन्धान्तरपूर्वकत्वात् तस्या इत्यत्राह। सैव इति। तदुपश्लिष्टस्वभावतैव नीलोत्पलादिष्वपि विशेषणता, तस्या एव विशिष्ट- प्रत्ययजननयोग्यता रूपत्वाद् योग्यतैव विशेषणमिति भावः। सा च योग्यताऽत्र शब्दप्रध्वंसे दुर्बारा प्रतियोगिनः शब्दस्याधिकरणेनाकाशेन सम्बन्धान्तरमन्तरेणैव शब्दाभावस्योपश्लिष्टत्वादित्याह। सा चात्र इति। नन्वस्तु योग्यतैव विशेषणत्वं, विशेष्यव्यवस्थापनं च तत्फलम्, तथापि यद्यस्ति शब्दाभावस्य स्वभावत उपश्लेषादाकाशं प्रति विशेषणता, तर्हि तथा विज्ञेयव्यवस्थापनेन प्रतीतिरुत्पा- दयितव्या, भूतलादिविशेषणे घटाभावादौ तथा दर्शनात्। न च तत्सम्भवति विशेष्यस्याकाशस्या- तीन्द्रियत्वादित्याशयेनाह। तथापि इति। न इति। विशेष्यग्रहणयोग्यताप्रयुक्तं तन्नं तु विशेष- णत्वमात्रप्रयुक्तम्, तन्मात्रप्रयुक्तायां व्याप्तौ बाधकमाह--अन्यथा इति। यथा रूपादौ विशेषणे गृह्यमाणे द्रव्यमपि तद्विशिष्टं गृह्यते, तथा गन्धादावपि स्यात्,, तत्रापि सन्निकर्षस्य विशेषणत्वस्य चाविशेषात्। न हि तदस्ति विशेष्यस्यायोग्यत्वात् तत्र इति। नन्वस्तु विशेषतया ग्रहणं, तथापि अघटं भूतलमियादाविन्द्रियसम्बद्धविशेषणतयैवाभावस्य ग्रहणं दृष्टं, न तु कचिदिन्द्रियविशेषणतया, सा चेन्द्रियसम्बद्धविशेषगता ततः शब्दाभावानिवर्त्तमाना स्वव्याप्यमिन्द्रियग्राह्यत्वमप्युपादायैव निव- र्तेत इति व्यापकानुपलब्धिरेव तस्यानेन्द्रियकत्वे प्रमाणमित्याह। तथापि इति। न इति। यो प्रकाशः। तथापि सम्बन्धं विना कथं विशेषणत्वमित्युपसंहरन्नेव निराकरोति- तस्मादिति। सम्बन्धान्तरं विना विशिष्टप्रत्ययजननयोग्यत्वमेव स्वरूपसम्बन्धोऽस्तीत्यर्थः। तथापि कथं विशेषणतेत्यत आह। सैव चेति। प्रतियोगीति। प्रतियोगिनः शब्दस्याधिकरणेन श्रोत्रेण शब्दाभावस्य स्वभावसन्निकृष्टत्वादित्यर्थः। तथापीति। तया=विशेषणतया। तथैव=सन्निकर्षेण विशिष्टविशेष्यविषयैव बुद्धिः कर्तव्या। विशेष्यस्य श्रोत्रायोग्यतया च साऽत्र न सम्भवती- त्यर्थः। गृह्यमाणेति। तद्विशेष्यकप्रत्यक्षे तयो ग्यता प्रयोजिका, अत्र तु विशेष्यं श्रोत्रमयोग्यम्, अतो विशेष्यमविषयीकृत्य विशेषणतया प्रत्यासत्या शब्दध्वंसप्रत्यक्षं जन्यत इत्यर्थः। अन्यथेति। यदि नैवं, तदा स्वाश्रये गृह्यमाणे रूपादिप्रत्यक्षदर्शनादगृह्यमाणे वाय्वादावाश्रये तत्स्पर्शप्रत्यक्षं न स्यादित्यर्थः। तथाऽपीति। सम्बन्धान्तरं विना विशिष्टप्रत्ययजननयोग्यतयेन्द्रियप्रत्यासत्या सम्बद्धविशेषणस्यैव प्रत्यक्षजननदर्शनानेन्द्रियविशेषणता प्रत्यासत्तिरित्यर्थः। अस्येति। इन्द्रि- यसन्निकृष्टोऽर्थो घटादिस्तस्य प्रतिसम्बन्धी द्वितीयः स तथेति, न विशेषणतामात्रमेवम्, अपि तु मकरन्दः। तथापीति। उपसंहरन्नेव इति निराकरोतीत्यन्वयः। विशेष्यमिति। विशेष्यत्वेनेति शेषः। यद्वा, एतन्मते निरधिकरणाऽप्यभावप्रतीतिः, कालाद्यधिकरणं वेति तथोक्तम्। टिप्पणी। विशेषणताभिन्नेनासम्बद्धत्वाद् विशेषणस्य तत्त्वेनान्योन्याश्रयादित्यर्थः। न विशेषणतामात्र- ३१ न्या० कु०

२४२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां अन्यथा संयुक्तसमवायेन गन्धादावुपलब्धिदर्शनात् समवायेनादर्शनात् शब्दस्याग्रह- णप्रसङ्गात् । नाप्यभावत्वे सत्यतीन्द्रियाधारत्वात् सत्प्रतिपक्षत्वं, योग्यताविरह- प्रयुक्तत्वाद् व्याप्तेः । न चाऽतीन्द्रियाधारत्वमेव तस्य योग्यताविरहः । तद्विपर्ययस्यैव बोधनी । हीन्द्रियेण साक्षात्सम्बद्धमुपयोग्यस्तत्सम्बन्धिनाऽर्थान्तरेण सम्बध्यते तद्विषय एवायं प्रतिबन्धः, न त्विन्द्रियग्राह्याभावमात्रविषय इति । कचिद् व्यवधानदर्शनादन्यत्रापि तथाभ्युपगमेऽनिष्टमाह । अन्यथा इति । तदेवमिन्द्रियसन्निकृष्टत्वस्यासिद्धयुद्भावनेन प्रतिपक्षत्वं निराकृतम्, इदानी- मतीन्द्रियाधारत्वस्य निराचष्टे । नापि इति । शब्दादिभिर्व्यभिचारनिवृत्त्यर्थमुक्तमभावत्वे सति इति । कुत इत्यत आह । योग्यता इति । परमाणुगतद्वयणुकप्रध्वंसादेः सपक्षत्वाभि- मतस्य नातीन्द्रियाधारत्वादतीन्द्रियत्वं, किन्तु स्वरूपयोग्यताविरहात् ततो व्याप्त्यप्रसिद्धो हेतु- रिति । नन्वस्तु योग्यताविरह एव प्रयोजकः, स त्वतीन्द्रियाधारतैवाभावस्येत्यत्राह । न च प्रकाशः । गृह्यमाणविशेष्यम् । साक्षात्सम्बन्धाभावे सत्येव हि परम्परासम्बन्ध आश्रीयते, अत्र तु साक्षादेव- सम्बन्धोऽस्तीति न तदाश्रयणमित्यर्थः । द्वितीयं सत्प्रतिपक्षं निरस्यति । नाऽपीति । शब्देन व्यभिचारवारणार्थमभावत्वे सतीति । योग्यतेति । तथा चोपाधिमत्त्वेनातुल्यबलत्वादित्यर्थः । ननु स्थापनानुमाने योग्यतायाः साध्यत्वात् प्रत्यनुमाने तदभावः साध्य इति स एव नोपाधिः । साधनव्यापकत्वात्, व्यभिचारानुमाने साध्याविशेषप्रसङ्गाच्च । न च योग्यतावच्छेदकरूपाभाव उपाधिः, योग्यतासाधके स्थापनानुमाने नैन्द्रियकाभावत्वमेव योग्यत्वं हेतुः, साध्याविशेषप्रसङ्गात्, अपि तु योग्यतावच्छेदकरूपवत्त्वमिति तदभावो नोपाधिः, पूर्वसाधनव्यतिरेकत्वात् । मैवम् । साध्यप्रयोजकत्वेन तादृशस्याप्युपाधित्वात् । न चैवं सत्प्रतिपक्षोच्छेदः । स्थापनाया यत्राभा- सत्वं तत्र पूर्वसाधनव्यतिरेकस्य साध्याव्यापकत्वेनानुपाधित्वात् । यथा शब्दोऽनित्यो गुणत्वाद् इत्यत्र व्योमैकगुणत्वेन सत्प्रतिपक्षे अगु णत्वमुपाधिः । जलपरमाणुरूपादौ साध्याव्यापकत्वात् । पूर्वं योग्यताविशेषो हेतुरत्र योग्यतामात्रव्यतिरेक उपाधिरित्यन्ये । प्रयोजकत्वमेवाह । न चेति । न दृश्याधारत्वमात्रं योग्यता, किन्तु दृश्यप्रतियोगिकत्वसहि- प्रकाशिका । उपसंहरन्नेवेति निराकरोतीति योजना । एवं = सम्बद्धविशेषणग्राहकम् । गृह्यमाण विशेष्यमिति । गृह्यमाणं विशेष्यमाश्रयो यस्य तादृशं विशेषणतास्वरूपमित्यर्थः । एतेनान्यत्र सम्ब- द्धाभावग्रहे सम्बद्धविशेषणताप्रत्यासत्तिर्न तु सर्वत्रेति पर्यवसितार्थः । ननु भवेदेवं यदि साध्यं साधनव्यापकं स्यात् तदेव तु नारुतीत्यारुचेराह । व्यभिचारानुमान इति । न चैवमिति । यद्यपि साध्यप्रयोजकत्वेनेत्यभिधानाद् यत्रैव साध्यं प्रत्यप्रयोजकः पूर्वसाधनव्यतिरेकस्तत्रैव नोपा- धिरिति शङ्कैवेयमनुपपन्ना, तथापि तत्र तस्याप्रयोजकत्वमित्यत्रैव किं बीजमित्यभिप्रायेणेदमुक्तम् । पूर्वमिति ऐन्द्रियकप्रतियोगिकत्वरूपयोग्यताविशेषो हेतुः, योग्यतासामान्याभावश्चोपाधिरतो न पूर्वसाधनव्यतिरेकित्वमित्यर्थः । अन्य इत्यरुचौ, तद्वीजन्तु स्थापनानुमाने योग्यतासामान्यस्य साध्यत्वेऽपि योग्यताविशेषो हेतावंशतः साध्याविशेषे यथोक्तप्रक्रियाया एवानुसरणीयत्वे किम- मकरन्दः । ननु भवेदेवं यदि साधनं साध्यव्याप्यं स्यात् , तदेव चौपाधिवादिमतेऽसिद्धमित्य नुशयादाह । व्यभिचारानुमान इति । टिप्पणी । मिति । इन्द्रियसम्बद्धविशेषणताग्राह्य इत्यर्थः । गृह्यमाणेति । इन्द्रियसम्बद्धविशेषणता-

द्वितीयस्तवके ] | शब्दानित्यत्वोपपादनम् । | २४३ योग्यतात्वापत्तेः । न चैवमेव, धर्मादिप्रध्वंसग्रहप्रसङ्गात् । दृश्याधारत्वं दृश्यप्रति- योगिता चेति द्वयमप्यस्य योग्यतेति चेन्न । उभयनिरूपणीयत्वनियमानभ्युपगमात् । प्रतियोगिमात्रनिरूपणीयो ह्यभावः । अन्यथेह भूतले घटो नास्तीत्येषाऽपि प्रतीतिः प्रत्यक्षा न स्यात् । संयोगो ह्यत्र निषिध्यते, तदभावश्च भूतलबद् घटेऽपि वर्त्तते, तत्र यदि प्रत्यक्षतया भूतलस्योपयोगो, घटस्यापि तथैव स्यादविशेषात् । अथ घट-

बोधनी इति । नन्वापद्यतामैन्द्रियकाधारतैव योग्यतेत्यत्राह । न चैवम् इति । ऐन्द्रियकाऽऽत्माधारो हि धर्मादिप्रध्वंस इति । दृश्याधारत्वम् इति । ततश्च न धर्माद्यभावस्य प्रत्यक्षत्वापत्तिरदृश्यप्रति- योगिकत्वात्, नापि शब्दाभावस्यातीन्द्रियाधारत्वात् तस्येति । न इति । न ह्याधारेणापि निरूपणीय इति । कथं तर्ह्यभ्युपगम इत्यत्राह । प्रतियोगि इति । आधारनिरूप्यत्वेऽनिष्टमाह । अन्यथा इति । किमिति न स्यादत आह । तत्र इति । तयोर्यदि भूतलमाधारोऽभावनिरूपणे प्रत्यक्षतयोप- युज्यते घटोऽपि तथा स्यात् आधारत्वाविशेषात्, तथा च परोक्षे घटे इह घटो नास्तीति प्रतीतिर्न स्यादिति भावः । अथ इति । प्रकारभेदं सूचयन्नार्थस्तुशब्दः प्रतियोगिनः संसर्गस्य निरूपणाय

प्रकाशः । तम् , न चैतद् धर्मादिध्वंसस्यास्तीत्याह । दृश्येति । तद्विरहश्च नोपाधिः, साधनव्यापकत्वात् । नाऽप्युभयस्य साध्यप्रयोजकत्वेनाप्रयोजकत्वम् । ऐन्द्रियकत्वरूपसाध्यसामान्याव्यापकत्वेनानुपाधि- त्वादिति भावः । विपक्षे बाधकमाह । अन्यथेति । यद्द्युभाभ्यां प्रत्यक्षाभ्यामेवाभावः प्रत्यक्ष इत्यर्थः । ननु भूतलमात्रमत्राऽऽधारः, तच्च दृश्यमेवेत्यत आह । संयोगो हीति । न चात्र माना-

प्रकाशिका । नेनेति । प्रयोजकत्वसेवेति । साधनाव्यापकत्वरूपमुपाधिरिति शेषः । नापीति । दृश्याधार- त्वस्य दृश्यप्रतियोगिकत्वस्य च मिलितस्य प्रत्यक्षप्रयोजकत्वेनाप्रयोजकत्वं केवलस्य दृश्यप्रतियो- गित्वस्य स्यात् तत्र च लाघवादावश्यकत्वाच्च केवलमेव प्रयोजकमिति भवति तदभाव उपाधिः साध्य- नाव्यापक इत्यर्थः । ऐन्द्रियकत्वेति । एवं च नैन्द्रियकत्वसामान्यप्रयोजकं दृश्यप्रतियोगिकत्वं

मकरन्दः । नाप्युभयस्येति । दृश्याधारत्वसमानाधिकरणदृश्यप्रतियोगित्वसाध्यप्रयोजकतया उपाधि- त्वेन स्थापना हेतोरप्रयोजकत्वं नेत्यर्थः । ऐन्द्रियकत्वरूपेति । न चाभावत्वपक्षधर्मावच्छिन्नसा-

टिप्पणी । ग्राहकमित्यर्थः । ननूभयनिरूप्यत्वं मास्तु योग्यत्वं किन्तुभयदृश्यत्वमेव तथा च स्थापना- नुमान इन्द्रियाधारत्वमुपाधिरित्याशयावानाह । उभयस्येति । ऐन्द्रियकाधारत्वैन्द्रियक प्रतियोगित्वयोरित्यर्थः । साध्यस्य = इन्द्रियग्राह्यत्वस्य । प्रयोजकत्वेनेत्यर्थः । अप्रयोज- कत्वं स्थापनानुमानस्येति शेषः । इन्द्रियाधारत्वस्योपाधिसद्भावादिति भावः । ऐन्द्रिय- कत्वेति । तस्य शब्दे सत्त्वेन तत्रोपाध्यभावादन्यापकत्वम् । अभावत्वावच्छिन्नसाध्यव्या- पक्त्वमपि नष्टाश्रयद्रव्यगुणादिनाशे व्यभिचारेणासम्भवीति न स्थापनानुमानस्याप्रयोजकत्व- मिति भावः । एवञ्च नोभयं प्रयोजकमुरुनशास्याप्रत्यक्षापत्तेरित्यवधेयम् । केचित्तु तदेतन्नि- राकरोतीति पूर्वमेव नापीति पठन्ति । तेषामयमाशयः, उभयस्येत्यनन्तरं प्रत्येकस्येति शेषः । तथा च लाघवादावश्यकत्वाच्च प्रत्येकस्यैन्द्रियकप्रतियोगिकत्वस्य प्रयोजकत्वेनोभयस्याप्रयोजकत्वात् योग्य- त्वाभावः साधनाव्यापकत्वाद् भवत्येवोपाधिरिति भावः । ऐन्द्रियकत्वेति । ऐन्द्रियकत्वं प्रति तस्याव्यापकत्वे तदभावं प्रति तदभावस्याप्रयोजकत्वेन साध्यप्रयोजकस्यैव पूर्वसाधनव्यतिरेकस्यो- पाधित्वेनाप्यनुपाधित्वमिति भावः । भूतलमात्रमत्राधार इति । अत्र भूतले घटो नास्ती-

२४४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायो प्रकाशः। भावः। घटनिषेधे हि भूतले घटाभावो न प्रागभावध्वंसाऽऽत्मकः प्रतियोगिसमानकालत्वात्। नाप्यत्यन्ताभावः, कदाचित् तस्य तत्र भावात्, तस्माद् घटसंयोगो निषिध्यते, स च संयोगो य एतद्घटस्य तत्र भावी तस्य प्रागभावः, अतीतस्य ध्वंसः, सर्वदैवाऽभवतश्चात्यन्ताभावः। ननु भूतले घटो नास्तीति घटप्रतियोगिकाभावोऽनुभूयते, संयोगस्य तु प्रतियोगित्वे संयोगो नास्तीत्यनुभवा- पत्तिः। मैवम्। घटो नास्तीति बुद्धेरेव संयोगाभावविषयत्वात्। यथा हि भूतले घटास्तित्वबुद्धि- स्तत्संयोगेन, तथा तदभावेन घटाभावबुद्धिः। यत्सम्बन्धपुरस्कारेण यत्र यद्भावबुद्धिस्तदभावपुर- स्कारेण तत्र तन्नास्तिताप्रतीतिः। केचित्तु, घटात्यन्ताभाव एव तद्विषयः। उत्पादविनाशधीस्तु तत्सम्बन्धतथात्वप्रयुक्ता, स च तत्संयोगध्वंसरूपः। न चैवं घटात्यन्ताभावसम्बन्धस्य संयोगध्वंसरूपतया नित्यत्वाद् घटधीस्तत्र कदापि न स्यादिति वाच्यम्। न हि यत्र यत्संयोगोऽस्ति तत्र तत्संयोगध्वंसः, सामान्यध्वंसस्य प्रकाशिका। घटादावभावादिति तदभावस्तदभावाप्रयोजकत्वान्नोपाधिरिति भावः। अभावत्वावच्छिन्नप्रत्यक्षत्व प्रयोजकं दृश्यप्रतियोगिकत्वमित्यभिप्रायेणाग्रे उभयेत्यादिसिद्धान्तः। केचित्तु तदेतन्निराकरोति उभयेतीत्यनन्तरं नापीत्यादिफक्किका। तदर्थश्च, उभयानिरूपणीयत्वेऽपि उभयदृश्यत्वैवाभाव- योग्यता, तथाचाप्रयोजकत्वं स्थापनाहेतोरित्यर्थः। अभावत्वावच्छिन्नसाध्यव्यापकत्वेऽपि नष्टाश्रयद्रव्यगुणाद्यभावे साध्याव्यापकत्या मिलितस्याप्रयोजकत्वे दृश्यप्रतियोगित्वमात्रस्यैव प्रयोजकत्वमिति भावः। नन्वेवं घटे भूतलं नास्ति रूपे घटो नास्तीति प्रतीत्योर्भ्रमत्वा- पत्तिः, भूतलसंयोगस्य घटे, घटसमवायस्य रूपे सत्त्वात्। न च भूतलविशिष्टसंयोगाभावस्तत्रा- स्त्येव भूतलाभावादेवमितरत्रापीति वाच्यम्। एवं सति विशेषणभूतघटाद्यभावविषयत्वमेव प्रती- त्योस्तस्यावश्याभ्युपेयत्वादित्यनुशयादाह। केचिदिति। तत्सम्बन्धेति। सम्बन्धसत्त्वासत्त्वप्र- युक्त्यर्थः। न चैवं प्रतीतेः संयोगाभावविषयत्वे “संयोगो ही”त्यादि मूलविरोध इति वाच्यम्। एवमप्युत्पादादिप्रतीत्यर्थं संयोगाभावप्रतीतेरुपेयत्वात्। सामान्यध्वंसस्येति। इतराभावध्वं- मकरन्दः। ध्वव्यापकत्वं, नष्टाश्रयकरूपाद्यभावे साध्याव्यापकत्वादिति भावः। एतेन पूर्वपक्षिवचनत्वेनास्य ग्रन्थस्यासङ्गतिरित्यपास्तम्। सिद्धान्तिनैव स्वातन्त्र्येण स्वहेतोरप्रयोजकत्वमाशङ्क्य परीहारकरणात्। केचित्तु नापीत्यस्य पूर्वं तदेतन्निराकरोति नोभयस्येति प्रक्षिप्य सिद्धान्तिवचनं कृत्वा योजयन्ति। नन्वेवं घटे भूतलं नास्तीति बुद्धेरपि तत्संयोगाभावविषयत्वे भ्रमत्वापत्तिः। न चेष्टापत्तिः, तस्याः प्रमात्वेन सर्व्वसिद्धत्वात्। एवं रूपे घटो नास्तीति बुद्धेरपि तत्सम्बन्धाभावविषयत्वे भ्रमत्वापत्तिः। न च तत्सम्बन्धाभावविषयकत्वं तद्विशिष्टसम्बन्धाभावविषयकत्वं, विशिष्टाभावश्च विशेषणाभावाधीन- स्तत्रास्त्येवेति न भ्रमत्वमिति वाच्यम्। हन्तैवमावश्यकविशेषणाभावविषयत्वेनैवोपपत्तौ विशिष्टा- भावविषयत्वकल्पने गौरवान्मानाभावाच्चेत्यनुशयादाह। केचिच्चिविति। तत्सम्बन्धतथात्वेति। तत्सम्बन्धसत्त्वासत्त्वप्रयुक्तेत्यर्थः। सामान्यध्वंसस्येति। प्रतियोगितावच्छेदकभेदेनाभावभेदाद- टिप्पणी। स्त्यत्र निषेधे आधारो निषेधाधिकरणत्वेन विवक्षितः, तथा च यदा हि यो यत्र निषिध्यते, तदानीं तादृशाधारनिषेधदृश्यत्वं प्रयोजकमन्यथा दृश्यमात्राधारस्य अत्यन्ताभावमात्र एवाभावाद् दृश्याना- मपि बहूनामेकदा ज्ञातासम्भवादभावमात्रस्याप्रत्यक्षत्वापत्तेः। एवं च निषेधो हि प्रसक्तस्यैवेति घटे घटस्य प्रसक्त्यभावेन तत्र निषेधाभावात् तस्याप्रत्यक्षत्वं न क्षतिकरमिति भावः। संयोगाभावनिषेधे हि संयोगस्य भूतल इव घटेऽपि प्रसक्तेस्तदानीं निषेधाधारत्वस्योभयत्र तुल्यत्वादुभयदृश्यत्वं विनिगमका- भावादपेक्षणीयमिति बोध्यम्। उत्पादविनाशीरिति। उत्पादविनाशौ सत्त्वासत्त्वे, तयोस्त्वेतस्य