भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 534, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 534

ग्निमात्रात् पवनमात्राद्वा धूमकम्पौ स्याताम्; न त्वेवम् । नचैवं चेतनव्यभिचा- रोऽपि शक्याऽभिधान इत्यलं बालप्रलापानां समाधानैः। तदुत्पत्तेरसिद्धावपि तत्तदुपाधिविधूननेन स्वाभाविकत्वस्थितौ यदि कर्त्तार- मतिपत्य कार्यं स्यात् स्वभावमेवातिपतेदिति कार्यविलोपप्रसङ्ग इति । एतच्च सर्वमात्मतत्त्वविवेके निपुणतरमुपपादितमिति नेह प्रतन्यते । एवञ्च सिद्धे प्रति- बन्धे न प्रतिवन्ध्यादेः क्षुद्रोपद्रवस्यावकाशः। प्रतिवन्धसिद्धाविष्टापादनात्। तद- सिद्धौ तत एव तत्सिद्धेरप्रसङ्गादिति । ननु तस्य सर्वदा सर्वत्राविशेषे कार्यस्य सर्वदोत्पत्तिप्रसङ्ग इति निरपेक्षेश्वर- पक्षे दोषः, सापेक्षे उपेक्षणीय एवास्त्विति बालस्य प्रदीपकलिकाक्रीडयैव नगर- दाहः । तन्न । स्थेमभाजो जगत एवाकारणत्वप्रसङ्गात् । ॐमिति ब्रुवतः सौग- तस्य दत्तमुत्तरं प्राक् । आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः ॥

प्रकाशः । दृश्यत्वमेव तन्त्रमिति न धूमाददृश्यवहिसिद्धिर्न वा कम्पात् पवनमात्रस्यानुद्भूतस्पर्शस्य सिद्धिरि- त्याह न त्विति । कारणत्वसिद्धावपि प्रकारान्तरेण कार्यलोपप्रसङ्गं वक्तुमाह तदुत्पत्तेरिति । ननूपा- धिविधूननमेव कथमित्याह एतच्चेति । प्रतिवन्ध्यादेरिति । शशे पशुत्वाद् दृश्यशृङ्गवा- धेऽप्यऽदृश्यशृङ्गसिद्धिरित्यादेरित्यर्थः । प्रतिवन्धसिद्धाविति । वस्तुतो विपक्षाबाधकाभावाद्या- प्त्यभाव इत्यर्थः । प्रकृतादर्थादर्थान्तरं शृङ्गत्वस्य योग्यसंस्थानव्यङ्ग्यत्वेनायोग्यं शृङ्गं विरोधा- च्छङ्कितुमप्यशक्यं शशे शृङ्गस्यात्यन्ताभाव इति सर्वेषामबाधितप्रत्यक्षवाधश्चेति भावः । तत एवें प्रतिवन्धासिद्धेरेवेत्यर्थः । अप्रसङ्ग इति शेषः शशशृङ्गादेरित्यर्थः । दत्तमिति । कार्यस्याहेतुकत्वे कादाचित्कत्वानुपपत्तिरित्यादिनेत्यर्थः । नन्वागमादेवेश्वरसिद्धौ तत्रे न्यायप्रदर्शनं व्यर्थमित्यत आह आर्षमिति । तर्कानुसन्धानं विनाऽऽर्षधर्मोपदेशे तात्पर्यमेव निश्चेतुमशक्यमित्यर्थः । यद्वा आगमाविरोधं न्यायमाह

प्रकाशिका । शृङ्गत्वस्येति । यद्यपि शृङ्गत्वस्य योग्यसंस्थानव्यङ्ग्यत्ववदात्मत्वस्यापि योग्योपाधिव्यङ्ग्यत्व- नियमः, यदि तत् संसारिमात्राविश्रान्तं तदेदमपि योग्यशृङ्गनियतमिति नायोग्यप्रत्यक्षबाधः, तथापि विपक्षबाधकाभाव एव दूषणम्, शृङ्गस्य व्यतिरेकानिश्चये पशुत्वस्य केवलान्वयित्वस्वीकारे मीमांसकस्यापसिद्धान्तश्चेति भावः। शेष इति। तदसिद्धौ तत एवाप्रसङ्ग इति मूलपाठपते पूरण- मिदम्। क्वचित्तु तदसिद्धौ तत एव तत्सिद्धेरप्रसङ्गादिति पाठः, तत्र च न पूरणापेक्षा। न त्वेतावतापि तर्कप्रदर्शनमुचितम्, न तु न्यायप्रदर्शनमित्यत आह यद्वेति । अनेन समानविषयताप्रतिपाद-

मकरन्दः । शृङ्गत्वस्येति । यद्यपि शृङ्गत्वस्य योग्यसंस्थानव्यङ्ग्यत्ववदात्मनोऽपि योग्योपाधिमत्त्वनियमः। यदि च तत्संसारिमात्राविश्रान्तं तदा तदपि योग्यशृङ्गविश्रान्तमिति अयोग्यस्य न बाधः प्रत्यक्षे- णापि, तथापि विपक्षबाधकाभाव एव मूलम्; अन्यथा पशुत्वस्य केवलान्वयित्वापत्तेः, तस्य च त्वयाऽनभ्युपगमादिति भावः । नन्वेवमपि तर्कोपदर्शनमात्रमहं न तु न्यायोपदर्शनमित्यत आह यद्वेति। अनेनोभयोः समानविषयत्वप्रतिपादनात् विरोधमाह इत्यर्थः ॥३॥ मूलोक्तस्य तस्य व्योमादौ