न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 534, कुल 608 में से
संदर्भ में पढ़ेंग्निमात्रात् पवनमात्राद्वा धूमकम्पौ स्याताम्; न त्वेवम् । नचैवं चेतनव्यभिचा- रोऽपि शक्याऽभिधान इत्यलं बालप्रलापानां समाधानैः। तदुत्पत्तेरसिद्धावपि तत्तदुपाधिविधूननेन स्वाभाविकत्वस्थितौ यदि कर्त्तार- मतिपत्य कार्यं स्यात् स्वभावमेवातिपतेदिति कार्यविलोपप्रसङ्ग इति । एतच्च सर्वमात्मतत्त्वविवेके निपुणतरमुपपादितमिति नेह प्रतन्यते । एवञ्च सिद्धे प्रति- बन्धे न प्रतिवन्ध्यादेः क्षुद्रोपद्रवस्यावकाशः। प्रतिवन्धसिद्धाविष्टापादनात्। तद- सिद्धौ तत एव तत्सिद्धेरप्रसङ्गादिति । ननु तस्य सर्वदा सर्वत्राविशेषे कार्यस्य सर्वदोत्पत्तिप्रसङ्ग इति निरपेक्षेश्वर- पक्षे दोषः, सापेक्षे उपेक्षणीय एवास्त्विति बालस्य प्रदीपकलिकाक्रीडयैव नगर- दाहः । तन्न । स्थेमभाजो जगत एवाकारणत्वप्रसङ्गात् । ॐमिति ब्रुवतः सौग- तस्य दत्तमुत्तरं प्राक् । आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः ॥
प्रकाशः । दृश्यत्वमेव तन्त्रमिति न धूमाददृश्यवहिसिद्धिर्न वा कम्पात् पवनमात्रस्यानुद्भूतस्पर्शस्य सिद्धिरि- त्याह न त्विति । कारणत्वसिद्धावपि प्रकारान्तरेण कार्यलोपप्रसङ्गं वक्तुमाह तदुत्पत्तेरिति । ननूपा- धिविधूननमेव कथमित्याह एतच्चेति । प्रतिवन्ध्यादेरिति । शशे पशुत्वाद् दृश्यशृङ्गवा- धेऽप्यऽदृश्यशृङ्गसिद्धिरित्यादेरित्यर्थः । प्रतिवन्धसिद्धाविति । वस्तुतो विपक्षाबाधकाभावाद्या- प्त्यभाव इत्यर्थः । प्रकृतादर्थादर्थान्तरं शृङ्गत्वस्य योग्यसंस्थानव्यङ्ग्यत्वेनायोग्यं शृङ्गं विरोधा- च्छङ्कितुमप्यशक्यं शशे शृङ्गस्यात्यन्ताभाव इति सर्वेषामबाधितप्रत्यक्षवाधश्चेति भावः । तत एवें प्रतिवन्धासिद्धेरेवेत्यर्थः । अप्रसङ्ग इति शेषः शशशृङ्गादेरित्यर्थः । दत्तमिति । कार्यस्याहेतुकत्वे कादाचित्कत्वानुपपत्तिरित्यादिनेत्यर्थः । नन्वागमादेवेश्वरसिद्धौ तत्रे न्यायप्रदर्शनं व्यर्थमित्यत आह आर्षमिति । तर्कानुसन्धानं विनाऽऽर्षधर्मोपदेशे तात्पर्यमेव निश्चेतुमशक्यमित्यर्थः । यद्वा आगमाविरोधं न्यायमाह
प्रकाशिका । शृङ्गत्वस्येति । यद्यपि शृङ्गत्वस्य योग्यसंस्थानव्यङ्ग्यत्ववदात्मत्वस्यापि योग्योपाधिव्यङ्ग्यत्व- नियमः, यदि तत् संसारिमात्राविश्रान्तं तदेदमपि योग्यशृङ्गनियतमिति नायोग्यप्रत्यक्षबाधः, तथापि विपक्षबाधकाभाव एव दूषणम्, शृङ्गस्य व्यतिरेकानिश्चये पशुत्वस्य केवलान्वयित्वस्वीकारे मीमांसकस्यापसिद्धान्तश्चेति भावः। शेष इति। तदसिद्धौ तत एवाप्रसङ्ग इति मूलपाठपते पूरण- मिदम्। क्वचित्तु तदसिद्धौ तत एव तत्सिद्धेरप्रसङ्गादिति पाठः, तत्र च न पूरणापेक्षा। न त्वेतावतापि तर्कप्रदर्शनमुचितम्, न तु न्यायप्रदर्शनमित्यत आह यद्वेति । अनेन समानविषयताप्रतिपाद-
मकरन्दः । शृङ्गत्वस्येति । यद्यपि शृङ्गत्वस्य योग्यसंस्थानव्यङ्ग्यत्ववदात्मनोऽपि योग्योपाधिमत्त्वनियमः। यदि च तत्संसारिमात्राविश्रान्तं तदा तदपि योग्यशृङ्गविश्रान्तमिति अयोग्यस्य न बाधः प्रत्यक्षे- णापि, तथापि विपक्षबाधकाभाव एव मूलम्; अन्यथा पशुत्वस्य केवलान्वयित्वापत्तेः, तस्य च त्वयाऽनभ्युपगमादिति भावः । नन्वेवमपि तर्कोपदर्शनमात्रमहं न तु न्यायोपदर्शनमित्यत आह यद्वेति। अनेनोभयोः समानविषयत्वप्रतिपादनात् विरोधमाह इत्यर्थः ॥३॥ मूलोक्तस्य तस्य व्योमादौ