पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 119, कुल 536 में से
संदर्भ में पढ़ें( १०४ ) पञ्चतन्त्रम् । तस्य अग्रे स्थितः । अथ तं प्रज्वलितात्मा भासुरको भर्त्सयन्नाह,-"रे शशकाधम ! एकतस्तावत् त्वं लघुः प्राप्तोऽपरतः वेलातिक्रमेण, तदस्मादपराधात् त्वां नि- पात्य प्रातः सकलान्यपि मृगकुलानि उच्छेदयिष्यामि" । अथ शशकः सविनयं प्रोवाच,-"स्वामिन् ! नापराधो मम,न च सत्त्वानाम्, तत् श्रूयतां कारणम्" । सिंह आह- “सत्वरं निवेदय यावत् मम दंष्ट्रान्तर्गतो न भवान् भवि- ष्यति"इति । शशक आह-"स्वामिन्! समस्तमृगैरद्य जाति- क्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय ततोऽहं पञ्चशशकैः समं प्रेषितः । ततश्च अहमागच्छन्नन्तराले महता केनचि- दपरेण सिंहेन विवरान्निर्गत्य अभिहितः-"रे ! क प्रस्थिता यूयम् ? अभीष्टदेवतां स्मरत" । ततो मयाभिहितम्-“वयं स्वामिनो भासुरकसिंहस्य सकाशे आहारार्थं समयधर्मेण गच्छामः" । ततः तेन अभिहितम्-"यद्येवं तर्हि मदीयमेत- द्वनं मया सह समयधर्मेण समस्तैरपि श्वापदैर्वर्तितव्यम् । चौररूपी स भासुरकः । अथ यदि सोऽत्र राजा ततो विश्वा- सस्थाने चतुरः शशकानत्र धृत्वा तमाह्वय द्रुततरमागच्छ, येन यः कश्चिदावयोर्मध्यात् पराक्रमेण राजा भविष्यति स सर्वानितान् भक्षयिष्यति" इति । ततोऽहं तेनादिष्टः स्वा- मिसकाशमभ्यागतः, एतत् वेलाव्यतिक्रमकारणम् । तदत्र स्वामी प्रमाणम्" । तच्छ्रुत्वा भासुरक आह-"भद्र ! यदि एवं तत् सत्वरं दर्शय मे तं चौरसिंहम्, येन अहं मृगकोपं तस्य उपरि क्षिप्त्वा स्वस्थो भवामि । उक्तञ्च- तब उनके यह वचन सुनकर भासुरक बोला--"अहो तुमने सत्य कहा, परन्तु यदि मेरे बैठेहुए नित्य एक जीव न आवेगा तो अवश्यही सबको खा जाऊंगा' । तब वे ऐसाही करेंगे यह प्रतिज्ञा करके निरुद्वेग होकर उस वनमे निर्भय फिरने लगे । प्रति दिन एक क्रमसे उनके पास जाता वृद्ध या वैराग्ययुक्त वा शोकग्रस्त वा पुत्र कलत्रके नाशसे भीतहुआ उनके मध्यसे उनके भोजनके