भारतकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 228, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 228

भाषाटीकासमेतम् । (२१३) लघुपतनकोऽपि वायसः सर्वं तं चित्रग्रीवबन्धमोक्ष- मवलोक्य विस्मितमना व्यचिन्तयत् । “अहो ! बुद्धि- रस्य हिरण्यकस्य शक्तिश्च दुर्गसामग्री च तत् ईदृगेव विधिः विहंगानां बन्धनमोक्षात्मकः । अहं च न कस्यचित् विश्वसिमि चलप्रकृतिश्च । तथापि एनं मित्रं करोमि । उक्तञ्च- लघुपतनक कौआ सम्पूर्ण उस चित्रग्रीवके बन्ध मोक्षणको देख विस्मितमनसे विचार करने लगा, 'अहो ! इस हिरण्यककी बुद्धि शक्ति और दुर्गसामग्री देखो इस प्रकार बन्धन मोक्षात्मक विहगोंकी विधि देखो ? मैं किसीका विश्वास नहीं करता चंचलप्रकृति हूं । तो भी इसको मित्र करूंगा । कहा है- अपिसम्पूर्णतायुक्तैः कर्त्तव्याः सुहृदो बुधैः । नदीशः परिपूर्णोऽपि चन्द्रोदयमपेक्षते ॥ २९ ॥ सम्पूर्णता युक्त होकरभी पंडितोंको सुहृद बनाने चाहिये परिपूर्ण सागरभी चन्द्रोदयकी अपेक्षा करता है ॥ २९ ॥ एवं सम्प्रधार्य पादपादवतीर्य बिलद्वारमाश्रित्य चित्र- ग्रीववच्छब्देन हिरण्यकं समाहूतवान् । “एहि एहि भो हिरण्यक ! एहि” । तच्छब्दं श्रुत्वा हिरण्यको व्यचिन्तयत् । "किमन्योऽपि कश्चित् कपोतो बन्धनशेषस्तिष्ठति येन मां व्याहरति” । आह च,-“भोः को भवान् ?” स आह,-“अहं लघुपतनको नाम वायसः” । तत् श्रुत्वा विशेषादन्तर्लीनो हिरण्यक आह,-“भोः ! द्रुतं गम्यतां अस्मात् स्थानात्” वायस आह-"तव पार्श्वे गुरुकार्येण समागतः, तत् किं न क्रियते मया सह दर्शनम् ?” हिरण्यक आह,-“न मेऽस्ति त्वया सह सङ्गमेन प्रयोजनम्” इति । स आह, “भोः ! चित्र- ग्रीवस्य मया तव सकाशात् पाशमोक्षणं दृष्टं तेन मम महती प्रीतिः सञ्जाता । तत् कदाचित् ममापि बन्धने जाते तव पार्श्वात् मुक्तिर्भविष्यति । तत् क्रियतां मया सह मैत्री” । हिरण्यक आह.-“अहो ! त्वं भोक्ता । अहं ते भोज्यभूतः। तत्