पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 322, कुल 536 में से
संदर्भ में पढ़ेंषडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे । अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥ ७२ ॥ अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्। ग्रामकामं च गोपालं वनकामं च नापितम् ॥ ७३ ॥ पुरुष सागरमें टूटी हुई नावकी समान इन छःको त्यागदे प्रकृष्ट वाक्यसे रहित आचार्य, अध्ययनसे रहित ऋत्विज, अरक्षिता राजा, अप्रिय वचन बोलनेवाली भार्या, ग्रामलुब्ध गोपाल और वनकी इच्छा करनेवाले नापित ये अवश्य त्याज्य हैं ॥ ७२ ॥ ७३ ॥ तत् सञ्चिन्त्य अन्यः कश्चित् राजा विहङ्गमानां क्रियता- म्" इति । अथ तैः भद्राकारमुलूकमवलोक्य सर्वैरभिहि- तम् । "यत् एष उलूको राजा अस्माकं भविष्यति तदानीय- न्तां नृपाभिषेकसम्बन्धिनः सम्भाराः" इति । अथ साधिते विविधतीर्थोदके, प्रगुणीकृतेऽष्टोत्तरशतमूलिकासंघाते, प्रदत्ते सिंहासने, वर्त्तिते सप्तद्वीपसमुद्रभूधरविचित्रे धरित्रीमण्डले, प्रसारिते व्याघ्रचर्मणि, आपूरितेषु हेमकुम्भेषु दीपेषु वाद्येषु च सज्जीकृतेषु दर्पणादिषु माङ्गल्यवस्तुषु, पठत्सु बन्दिमुख्येषु, वेदोच्चारणपरेषु समुदितमुखेषु ब्राह्मणेषु, गीतपरे युवतीजने, आनीतायामग्रमहिष्यां कृकालिकायामूलूकोऽभिषेकार्थं यावत् सिंहासने उपविशति तावत् कुतोऽपि वायसः समा- यातः। सोऽचिन्तयत, "अहो ! किमेष सकलपक्षिसमागमो महोत्सवश्च"। अथ ते पक्षिणः तं दृष्ट्वा मिथः प्रोचुः-“पक्षि- णां मध्ये वायसः चतुरः श्रूयते । उक्तञ्च- सो विचारकर और कोई विहंगमोंका राजा करो”। तब उन सबने शोभन अङ्गवाले उलूकको देखकर कहा-“कि यह उलूक हमारा राजा होगा, सो राज्याभिषेक सम्बन्धी सामग्री लाओ”। तब अनेक तीर्थोंके जल लानेपर और १०८ एकसौ आठ औषधियोंके प्राप्त होनेपर, दिये सिंहासनमें बर्तनेमें, सात द्वीप समुद्र पर्वतके विचित्र धरणीमण्डलमें व्याघ्रचर्मके फैलानेमें, भरे सुवर्ण कुम्भोंके धरे जाने तथा दीपक बलने और बाजोंके बजनेमें, तथा दर्पण आदि