भारतकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 498, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 498

भाषाटीकासमेतम् । ( ४८३ ) शतबुद्धिः शिरस्थोऽयं लम्बते च सहस्रधीः । एकबुद्धिरहं भद्रे ! क्रीडामि विमले जले ॥ ५१ ॥” यह शतबुद्धि शिरपर है और यह सहस्रबुद्धि लटकता है हे भद्रे ! मैं एक- बुद्धि निर्मल जलमें क्रीडा करता हूं ॥ ५१ ॥” अतोऽहं ब्रवीमि-“न एकान्ते बुद्धिरपि प्रमाणम्” । सुव- र्णसिद्धिः आह-“यद्यपि एतदस्ति तथापि मित्रवचनम् अनु- ल्लंघनीयम् । परं किं क्रियते । निवारितोऽपि मया न स्थितोऽ- तिलौल्यात् विद्याहंकाराच्च । अथवा साधु इदमुच्यते,- इससे मैं कहता हूं-“निरी बुद्धिकाही प्रमाण नहीं है” सुवर्णसिद्धि बोला- “यद्यपि ऐसा है तथापि मित्रके वचन उल्लङ्घन करने नहीं चाहिये परन्तु क्या कियाजाय, मेरे निवारण करनेपरभी तौ चञ्चळतासे न ठहरे तथा विद्याका अह- ङ्कार किया । अथवा यह अच्छा कहा है- साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः । अपूर्वोऽयं मणिर्बद्धः सम्प्राप्तं गीतलक्षणम् ॥ ५२ ॥” धन्य मामा ! धन्य ! मेरे कहनेपरभी गीतप्रिय होनेके कारण आप स्थित न हुए तिससे यह अपूर्व मणि बांधकर गीतका पुरस्कार प्राप्त किया ॥ ५२ ॥” चक्रधरः प्राह,-“कथमेतत् ?” सोऽब्रवीत- चक्रधर बोला-“यह कैसे ?” सुवर्णसिद्धि बोला- कथा ७. कस्मिंश्चित् अधिष्ठाने उद्धतो नाम गर्दभः प्रतिवसतिस्म । स सदैव रजकगृहे भारोद्वहनं कृत्वा रात्रौ स्वेच्छया पर्य्य- टति । ततः प्रत्यूषे बन्धनभयात् स्वयमेव रजकगृहम् आ- याति । रजकोऽपि ततस्तं बन्धने न नियुनाक्ति । अथ तस्य रात्रौ पर्य्यटतः क्षेत्राणि कदाचित् शृगालेन सह मैत्री सञ्जाता । स च पीवरत्वात् वृत्तिभंगं कृत्वा कर्कटिकाक्षेत्रे शृगालसहितः प्रविशति । एवं तौ यदृच्छया चिर्भटिकाभ- क्षणं कृत्वा प्रत्यहं प्रत्यूषे स्वस्थानं व्रजतः । अथ कदाचित् तेन मदोद्धतेन रासभेन क्षेत्रमध्यस्थितेन शृगालोऽभिहितः-