पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 151, कुल 536 में से
संदर्भ में पढ़ें( १३६ ) पञ्चतन्त्रम् ।
नाभक्ष्यं भक्षयेत्प्राज्ञः प्राणैः कण्ठगतैरपि ।
विशेषात्तदपि स्तोकं लोकद्वयविनाशकम् ॥ ३१९ ॥
बुद्धिमान् कंठमें प्राण आनेपरभी अभक्ष्यको न खाय उसमे भी विशेषकर लघु होनेसे दोनों लोक नष्ट होतेहैं ॥ ३१९ ॥
तद्दर्शितं त्वया आत्मनः कौलिन्यम्, अथवा साधु चेद-मुच्यते-
सो तुमने अपनी कुलीनता दिखलादी, अथवा अच्छा कहाह-
एतदर्थं कुलीनानां नृपाः कुर्वन्ति संग्रहम् ।
आदिमध्यावसानेषु न ते गच्छन्ति विक्रियाम् ॥ ३२० ॥"
इसीकारण अच्छे कुलवानोंको राजा संग्रह करतेहैं जो आदि, मध्य, अन्तमें कभी विकारको प्राप्त नहीं होतेहैं ॥ ३२० ॥ "
तदपसर अग्रतो येनाहं स्वामिनं विज्ञापयामि"। तथा-नुष्ठिते द्वीपी प्रणम्य मदोत्कटमाह,-"स्वामिन् ! क्रियताम् अद्य मम प्राणैः प्राणयात्रा, दीयतामक्षयोवासः स्वर्गे, मम विस्तार्यतां क्षितितले प्रभूततरं यशः तन्नात्र विकल्पः कार्य्यः । उक्तञ्च-
सो आगेसे हटो जिससे मै स्वामीसे कहू"ऐसा होनेपर गेडा प्रणामकर मदोत्कटसे बोला,-"स्वामिन् ! आज मेरे प्राणोसे अपना निर्वाह करो मुझे स्वर्गमें अक्षय निवासदो पृथ्वीमें मेरा अत्यन्त यश विस्तार करो, उसमें विकल्पकरना नहीं चाहिये । कहाहै कि-
मृतानां स्वामिनः कार्य्ये भृत्यानामनुवर्त्तिनाम् ।
भवेत्स्वर्गेऽक्षयो वासः कीर्त्तिश्च धरणीतले ॥ ३२१ ॥"
जो अनुकूल भृत्य स्वामीके निमित्त प्राण त्यागन करते हैं उनका स्वर्गमें अक्षयवास और पृथ्वीमें कीर्ति होतीहै ॥ ३२१ ॥"
तच्छ्रुत्वा क्रथनकश्रिन्तयामास,। "एतैः तावत्सर्वैरपि शोभनानि वाक्यानि प्रोक्तानि, न च एकोऽपि स्वामिना विनाशितः, तदहमपि प्राप्तकालं विज्ञापयामि, येन मम वचनमेते योऽपि समर्थयन्ति"। इति निश्चित्य प्रोवाच,-"भोः !