भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 170, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 170

भाषाटीकासमेतम् । ( १५५ )

ष्ठान करनेमें मेरी सहायता करो” । मक्षिका बोली,-“भद्र ! इस विषयमें क्या कहते हो । कहा है-

पुनः प्रत्युपकाराय मित्राणां क्रियते प्रियम् ।
यत्पुनर्मित्रमित्रस्य कार्यं मित्रैर्न किं कृतम् ॥ ३६९ ॥

फिर प्रत्युपकारके लिये मित्रोंका प्रिय किया जाता है फिर मित्रोंका कार्य मित्र कौनसा नहीं करते सब करते हैं ॥ ३६९ ॥

सत्यमेतत् परं ममापि भेको मेघनादो नाम मित्रं तिष्ठति,
तमपि आहूय यथोचितं कुर्मः । उक्तञ्च-

यह सत्य है, परन्तु मेरा मित्र एक मेघनाद नामक मेंडक है सो उसेभी बुलाकर यथोचितकार्य करें, कहा है-

हितैः साधुसमाचारैः शास्त्रज्ञैर्मतिशालिभिः ।
कथञ्चिन्न विकल्पन्ते विद्वद्भिश्चिन्तिता नयाः ॥ ३७० ॥”

हितकारी अच्छे आचरणवाले शास्त्रज्ञाता बुद्धिमान् विद्वानोंका विचारा हुआ कभी अन्यथा नहीं होता ॥ ३७० ॥”

अथ ते त्रयोऽपि गत्वा मेघनादस्य अग्रे समस्तमपि वृत्तान्तं निवेद्य तस्थुः । अथ स प्रोवाच-“कियन्मात्रोऽसौ वराको गजो महाजनस्य कुपितस्याग्रे । तत्सद्दीयो मन्त्रः कर्त्तव्यः । मक्षिकै ! त्वं गत्वा मध्याह्नसमये तस्य मदोद्धतस्य गजस्य कर्णे वीणारवसदृशं शब्दं कुरु, येन श्रवणसुखलालसो निमीलितनयनो भवति । ततश्च काष्ठकूटचञ्च्वा स्फोटितनयनोऽन्धीभूतः तृषार्त्तो मम गर्ततटाश्रितस्य सपरिकरस्य शब्दं श्रुत्वा जलाशयं मत्वा समभ्येति । ततो गर्त्तमासाद्य पतिष्यति पञ्चत्वं यास्यति च । इति । एवं समवायः कर्त्तव्यो यथा वैरसाधनं भवति” । अथ तथा अनुष्ठिते स मत्तगजो मक्षिकागेयसुखात् निमीलितनेत्रः काष्ठकूटहतचक्षुः मध्याह्नसमये भ्राम्यन् मण्डूकशब्दानुसारी गच्छन् महतीं गर्त्तामासाद्य पतितो मृतश्च । अतोऽहं ब्रवीमि “चटका काष्ठकूटेन” इति ।