भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 249, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 249

( २३४ ) पञ्चतन्त्रम् ।

यच्छञ्जलमपि जलदो वल्लभतामेति सकललोकस्य ।
नित्यं प्रसारितकरो मित्रोऽपि न वीक्षितुं शक्यः ॥ ७९ ॥

जलदानसे भी मेघ सकल लोकका प्यारा होताहै नित्य हाथका फैलानेवाला मित्रभी देखनेको अशक्य होजाताहै ॥ ७९ ॥

एवं ज्ञात्वा दारिद्र्याभिभूतैः अपि स्वल्पात् स्वल्पतरं काले पात्रे च देयम् । उक्तञ्च–

इस प्रकार जानकर दारिद्र्यसे तिरस्कृत हुएको भी देशकाल पात्रमें किंचित् देना चाहिये । कहाहै–

सत्पात्रं महती श्रद्धा देशे काले यथोचिते ।
यद्दीयते विवेकज्ञैस्तदानन्त्याय कल्पते ॥ ८० ॥

सत्पात्रको बडी श्रद्धासे देश काल पात्रमे ज्ञानियोंद्वारा जो दियाजाताहैवह अनन्त होताहै ॥ ८० ॥

तथाच–
औरभी–

अतितृष्णा न कर्त्तव्या तृष्णां नैव परित्यजेत् ।
अतितृष्णाभिभूतस्य शिखा भवति मस्तके ॥ ८१ ॥"

अधिक तृष्णा न करे सर्वथा तृष्णाका त्यागभी नकरे । अत्यन्त तृष्णावालेके मस्तकमें शिखा होतीहे ॥ ८१ ॥"

ब्राह्मणी आह–"कथमेतत् ?" स आह–
ब्राह्मणी बोली–"यह कैसे ?" वह बोला–

कथा ३.

अस्ति कस्मिंश्चित् वनोद्देशे कश्चित् पुलिन्दः स च पापर्द्धिं कर्तुं वनं प्रति प्रस्थितः । अथ तेन प्रसर्पता महान् अञ्जनपर्वतशिखराकारः क्रोडः समासादितः । तं दृष्ट्वा कर्णान्ताकृष्टनिशितसायकेन समाहतः,तेनापि कोपाविष्टेन चेतसा बालेन्दुद्युतिना दंष्ट्राग्रेण पाटितोदरः पुलिन्दो गतासुः भूतलेऽपतत्। अथ लुब्धकं व्यापाद्य शूकरोऽपि शरप्रहारवेदनया पञ्चत्वं गतः । एतस्मिन्नन्तरे कश्चित् आसन्नमृत्युः शृगाल इत