पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 255, कुल 536 में से
संदर्भ में पढ़ें( २४० ) पञ्चतन्त्रम् ।
पाश छेदन कर कूट ( कपट ) रचनाको त्याग बलसे बन्धनवृत्तिको तोड निकट चारों ओर अग्निशिखाके समूहसे युक्त वनसे दूर जाकर तथा व्याधके बाणके अगोचर होकरभी दौडता मृग कूपमें गिरगया विधाताके रुष्ट होनेमें पुरुषार्थ क्या कर सकता है ॥ ९० ॥
अथ अहमेकोऽन्यत्र गतः शेषा मूढतया तत्रैव दुर्गे प्रविष्टाः । अत्रान्तरे स दुष्टपरिव्राजको रुधिरबिन्दुचर्चितां भूमिमवलोक्य तेनैव दुर्गमार्गेण आगत्य उपस्थितः । ततश्च स्वहस्तिकया खनितुमारब्धः । अथ तेन खनता प्राप्तं तन्निधानं यस्य उपरि सदा एवाहं कृतवसतिः यस्य उष्मणा महादुर्गमपि गच्छामि। ततो हृष्टमनाः ताम्रचूडमिदमूचेऽभ्यागतः “भो भगवन् ! इदानीं स्वपिहि निःशङ्कः अस्य उष्मणा मूषकस्ते जागरणं सम्पादयति ” एवमुक्त्वा निधानमादाय मठाभिमुखं प्रस्थितौ द्वौ अपि । अहमपि यावत् निधानरहितं स्थानमागच्छामि तावत् अरमणीयमुद्वेगकारकं तत् स्थानं वीक्षितुमपि न शक्नोमि अचिन्तयं च । “किं करोमि ! क्व गच्छामि ! कथं मे स्यात् मनसः प्रशान्तिः” एवं चिन्तयतो महाकष्टेन स दिवसो व्यतिक्रान्तः । अथ अस्तमितेऽर्के सोद्वेगो निरुत्साहस्तस्मिन् मठे सपरिवारः प्रविष्टः। अथ अस्मत् परिग्रहशब्दमाकर्ण्य ताम्रचूडोऽपि भूयो भिक्षापात्रं जर्जरवंशेन ताडयितुं प्रवृत्तः । अथ असौ अभ्यागतः प्राह-“सखे ! किम् अद्यापि निःशङ्को न निद्रां गच्छसि” । स आह,-“भगवन् ! भूयोऽपि समायातः सपरिवारः स दुष्टात्मा मूषकः । तद्भयात् जर्जरवंशेन भिक्षापात्रं ताडयामि” । ततो विहस्य अभ्यागतः प्राह-“सखे ! मा भैषीः । वित्तेन सह गतोऽस्य कूर्द्दनोत्साहः । सर्वेषामपि जन्तूनाम्। इयमेव स्थितिः । उक्तञ्च-
सो मैं इकलाही अन्यत्र गया शेष मूढतासे उसी दुर्गमें प्रविष्ट हुए । इसिसमय वह दुष्ट परिव्राजक रुधिरकी बूंदोंसे चर्चित पृथ्वीको देख उसी दुर्ग-