भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 265, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 265

( २५० ) पञ्चतन्त्रम् ।

पुत्र्या स एवायमिति आश्वस्तचित्तया स्नानखादनपानाच्छादनादिना सम्मान्य तेन सह शयनतलमाश्रितया तदङ्गसंस्पर्शसञ्जातहर्षरोमाञ्चितगात्रया उक्तम्— “युष्मद्दर्शनमात्रानुरक्तया मया आत्मा प्रदत्तोऽयम् । त्वद्वर्जं अन्यो भर्त्ता मनसि अपि मे न भविष्यतीति । तत् कस्मात् मया सह न ब्रवीषि”। सो ब्रवीत— “प्राप्तव्यमर्थं लभते मनुष्यः”। इत्युक्तेतयाऽन्योऽयमिति मत्वा धवलगृहादुत्तार्य मुक्तः । स तु खण्डदेवकुले गत्वा सुप्तः । अथ तत्र कयाचित् स्वैरिण्या दत्तसङ्केतको यावत् दण्डपाशकः प्राप्तस्तावदसौ पूर्वसुप्तः तेन दृष्टो रहस्यसंरक्षणार्थमभिहितश्च— “को भवान् ?” सोऽब्रवीत्,— “प्राप्तव्यमर्थं लभते मनुष्यः”। इति श्रुत्वा दण्डपाशकेन अभिहितम्,— “यच्छून्यं, देवगृहमिदम् । तदत्र मदीयस्थाने गत्वा स्वपिहि” तथा प्रतिपद्य स मतिविपर्य्यासात् अन्यशयने सुप्तः । अथ तस्य रक्षकस्य कन्या नियमवती नाम रूपयौवनसम्पन्ना कस्यापि पुरुषस्य अनुरक्ता सङ्केतं दत्त्वा तत्र शयने सुप्तासीत् । अथ सा तमायातं दृष्ट्वा स एव अयमस्मद्वल्लभ इति रात्रौ घनतरान्धकारव्यामोहिता उत्थाय भोजनाच्छादनादिक्रियां कारयित्वा गान्धर्वविवाहेन आत्मानं विवाहयित्वा तेन समं शयने स्थिता विकसितवदनकमला तमाह,— “किमद्यापि मया सह विश्रब्धं भवान् न ब्रवीति” । सोऽब्रवीत,— “प्राप्तव्यमर्थं लभते मनुष्यः” इति श्रुत्वा तया चिन्तितम्, यत्कार्य्यमसमीक्षितं क्रियते तस्य ईदृक्फलविपाको भवति” इति । एवं विमृश्य सविषादया तया निःसारितोऽसौ । स च यावद्वीथीमार्गेण गच्छति तावदन्यविषयवासी वरकीर्त्तिर्नाम वरो महता वाद्यशब्देन आगच्छति । प्राप्तव्यमर्थोऽपि तैः समं गन्तुमारब्धः । अथ यावत्प्रत्यासन्ने लग्नसमये राजमार्गासन्नश्रेष्ठिगृहद्वारे रचितमण्डपवेदिकायां कृतकौतुकमङ्गलवेशा वणिक्सुता अस्ति तावत् मदमत्तो