भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 266, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 266

भाषाटीकासमेतम् । (२५१)

हस्ती आरोहकं हत्वा प्रणश्यज्जनकोलाहलेन लोकमाकुल- यन् तमेव उद्देशं प्राप्तः । तं च दृष्ट्वा सर्वे वरानुयायिनो वरेण सह प्रणश्य दिशो जग्मुः । अथ अस्मिन्नवसरे भयतरललो- चनामेकाकिनीं कन्यामवलोक्य “मा भैषीरहं परित्राता” इति सुधीरं स्थिरीकृत्य दक्षिणपाणौ संगृह्य महासाहासिक- तया प्राप्तव्यमर्थः परुषवाक्यैः हस्तिनं निर्भर्त्सितवान् । ततः कथमपि दैवयोगादपयाते हस्तिनि ससुहृद्बान्धवेन अतिक्रान्तलग्नसमये वरकीर्त्तिना आगत्य तावत् तां कन्या- मन्यहस्तगतां दृष्ट्वा अभिहितम्-“भोः श्वशुर ! विरुद्धमिदं त्वया अनुष्ठितं यन्मह्यं प्रदाय कन्यामन्यस्मै प्रदत्ता” इति । सोऽब्रवीत्,-“भो ! अहमपि हस्तिभयपलायितो भवद्भिः सह आयातो न जाने किमिदं वृत्तम्” । इति अभिधाय दुहितरं प्रष्टुमारब्धः, “वत्से ! न त्वया सुन्दरं कृतम् । तत्कथ्यतां कोऽयं वृत्तान्तः ।” साऽब्रवीत्,-“यदहमनेन प्राणसंशयात् रक्षिता तदा एनं मुक्त्वा मम जीवन्त्या नान्यः पाणिं ग्रहीष्यति” इति । अनेन वार्त्ताव्यतिकरेण रजनी व्युष्टा । अथ प्रातस्तत्र सञ्जाते महाजनसमवाये वार्त्ताव्य- तिकरं श्रुत्वा राजदुहिता तमुद्देशमागता । कर्णपरम्परया श्रुत्वा दण्डपाशकसुतापि तत्रैव आगता । अथ तं महाजन- समवायं श्रुत्वा राजा अपि तत्रैव आजगाम। प्राप्तव्यमर्थं प्राह- “भो ! विश्रब्धं कथय, कीदृशोऽसौ वृत्तान्तः,” अथ सोऽब्र- वीत्,-“प्राप्तव्यमर्थं लभते मनुष्यः” इति । राजकन्या स्मृत्वा प्राह,-“देवोऽपि तं लंघयितुं न शक्तः” । ततो दण्डपाशक- सुता अब्रवीत्,-“तस्मान्न शोचामि न विस्मयो मे” इति । तमखिललोकवृत्तान्तिमाकर्ण्य वणिक्सुताऽब्रवीत्,-“यद- स्मदीयं न हि तत्परेषाम्” इति । अभयदानं दत्त्वा राज्ञा पृथक् पृथग् वृत्तान्तान् ज्ञात्वा अवगततत्त्वः तस्मै प्राप्तव्यम- र्थाय स्वदुहितरं सबहुमानं ग्रामसहस्रेण समं सर्वालं-