पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 273, कुल 536 में से
संदर्भ में पढ़ें( २५८ ) पञ्चतन्त्रम् ।
उत्साहसे युक्त, आलस्यरहित, क्रियाविधिका ज्ञाता, व्यसनमें न लगनेवाले, शूर, कृत्यको जाननेवाले, दृढ सौहार्दवाले पुरुषको लक्ष्मी निवासके लिये स्वयं ढूंढती है ॥ १३१ ॥
अपरं प्राप्तोऽपि अर्थः कर्मप्राप्त्या नश्यति । तद् एतावन्ति दिनानि त्वदीयमासीत् । मुहूर्त्तमपि अनात्मीयं भोक्तुं न लभ्यते । स्वयमागतमपि विधिनापह्रियते ।
औरभी यह कि, प्राप्त हुआ धन कर्मवशसे नष्ट होजाता है सो इतने दिन-तक तुम्हारे निकट धन रहना था, पराया धन कोई एक मुहूर्त नहीं भोग सक्ता । स्वयं आया हुआ भी प्रारब्धसे हरण होजाता है ।
अर्थस्योपार्ज्जनं कृत्वा नैव भोगं समश्नुते । अरण्यं महदासाद्य मूढः सोमिलको यथा ॥ १३२ ॥"
कोई धन उपार्जन करकेभी उसको नहीं भोग सक्ता जैसे महाधनको प्राप्त होकर मूढ सोमिलक ॥ १३२ ॥"
हिरण्यक आह,—"कथमेतत् ?" सोऽब्रवीत्-
हिरण्यकने कहा,—"यह कैसी कथा ?" वह बोला-
कथा ५.
कस्मिंश्चिदधिष्ठाने सोमिलको नाम कौलिको वसति स्म । स च अनेकविधपट्टरचनारञ्जितानि पार्थिवोचितानि सदा एव वस्त्राणि उत्पादयति । परं तस्य च अनेकविधपट्ट-रचनानिपुणस्यापि न भोजनाच्छादनाभ्यधिकं कथमपि अर्थमात्रं सम्पद्यते । अथ अन्ये तत्र सामान्यकौलिकाः स्थूलवस्त्रसम्पादनविज्ञानिनो महर्द्धिसम्पन्नाः तानवलोक्य स स्वभार्यामाह,—"प्रिये ! पश्य एतान् स्थूलपट्टकार-कान् धनकनकसमृद्धान् । तद्धारणकं मम एतत्स्थानं तद्-न्यत्र उपार्जनाय गच्छामि" । सा आह—"भोः प्रियतम ! मिथ्याप्रलपितमेतद्यदन्यत्र गतानां धनं भवति, स्वस्थाने न भवति । उक्तञ्च-