भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 331, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 331

( ३१६ ) पञ्चतन्त्रम् ।

अपिच- औरभी-

अकृतज्ञं कापुरुषं व्यसनिनमलसं तथा सदा क्षुद्रम् । पृष्ठप्रलपनशीलं स्वामित्वे नाभियोजयेज्जातु ॥ ९० ॥

क्षुद्र आलसी कायर व्यसनी अकृतज्ञ ( उपकारका न माननेवाला ) पीछे निन्दाका करनेवाला हो ऐसे पुरुषको स्वामी न करे ( जिसको जीनेकी इच्छा है ) ॥ ९० ॥

क्षुद्रमर्थपतिं प्राप्य न्यायान्वेषणतत्परौ । उभावपि क्षयं प्राप्तौ पुरा शशकपिञ्जलौ ॥ ९१ ॥"

न्यायकी खोजकरनेवाले शश कपिञ्जल नामक दोनों पक्षि क्षुद्र अर्थपतिको प्राप्त होकर दोनोही मरगये ॥ ९१ ॥"

ते प्रोचुः,- "कथमेतत् ?" स आह- वे बोले,-"यह कैसी कथा है ?" वायस बोला-

कथा २.

कस्मिंश्चिद्वृक्षे पुरा अहं अवसम् । तत्र अधस्तात् कोटरे कपिञ्जलो नाम चटकः प्रतिवसति स्म। अथ सदैव अस्तमनवेलायामागतयोः द्वयोः अनेकसुभाषितगोष्ठ्या देवर्षिब्रह्मर्षिराजर्षिपुराणचरितकीर्त्तनेन च पर्यटनदृष्टानेककौतूहलप्रकथनेन च परमसुखमनुभवतोः कालो व्रजति । अथ कदाचित् कपिञ्जलः प्राणयात्रार्थमन्यैः चटकैः सह अन्यं पक्वशालिप्रायं देशं गतः । ततो यावत् निशासमयेऽपि न आयातः तावदहं सोद्वेगमनाः तद्वियोगदुःखितः चिन्तितवान् । "अहो ! किमद्य कपिञ्जलो न आयातः। किं केनापि पाशेन बद्धः । उताहो स्वित् केनापि व्यापादितः । सर्वथा यदि कुशलो भवति तन्मां विना न तिष्ठति"। एवं मे चिन्तयतो बहूनि अहानि व्यतिक्रान्तानि। ततश्च तत्र कोटरे कदाचित् शीघ्रगो नाम शशकोऽस्तमनवेलायामागत्य प्रविष्टः। मया अपि कपिञ्जलनिराशत्वेन न निवारितः । अथ