भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 385, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 385

( ३७० ) पञ्चतन्त्रम् ।

सूर्य, मेघ, पवन, पर्वतको ( इस प्रकार ) भर्त्ता बनाना छोडकर मूषिका अपनी जातिको प्राप्त हुई जाति अपनी नहीं छोडी जाती ॥ २२१ ॥”

अथ रक्ताक्षवचनमनादृत्य तैः स्ववंशविनाशाय स स्वदुर्गमुपनीतः । नीयमानश्च अन्तर्लीनमवहस्य स्थिरजीवी व्यचिन्तयत्-

तब रक्ताक्षके वचनको अनादरकर उन्होंने अपने वंशको नाश निमित्त ही उस ( वायस मंत्री ) को अपने दुर्गमें प्राप्त किया । लेजाया हुआ भीतर बैठ हँसकर स्थिरजीवी मनमें सोचने लगा--

“हन्यतामिति येनोक्तं स्वामिनो हितवादिना । स एवैकोऽत्र सर्वेषां नीतिशास्त्रार्थतत्त्ववित् ॥ २२२ ॥

स्वामीका हित करनेवाले जिसने कहाथा कि इसे मारडालो वही एक इन सबमें नीतिशास्त्रके तत्त्वका जाननेवाला है ॥ २२२ ॥

तद्यदि तस्य वचनमकरिष्यन् एते, ततो न स्वल्पोऽपि अनर्थोऽभविष्यत् एतेषाम्” । अथ दुर्गद्वारं प्राप्य अरिमर्द्दनोऽब्रवीत्,-“भो ! भोः! हितैषिणोऽस्य स्थिरजीविनो यथा समीहितं स्थानं प्रयच्छत” । तच्च श्रुत्वा स्थिरजीवी व्यचिन्तयत्, “मया तावत एतेषां वधोपायः चिन्तनीयः, स मया मध्यस्थेन न साध्यते । यतो मदीयमिङ्गितादिकं विचारयन्तः तेऽपि सावधाना भविष्यन्ति, तद्दुर्गद्वारमाश्रितोऽभिप्रेतं साधयामि” इति निश्चित्य उलूकपतिमाह,-“देव ! युक्तमिदं यत् स्वामिना प्रोक्तं परमपि नीतिज्ञस्ते अहितश्च । यद्यपि अनुरक्तः शुचिस्तथापि दुर्गमध्ये आवासो न अर्हः । तत् अहमत्र एव दुर्गद्वारस्थः प्रत्यहं भवत्पादपङ्कजरजःपवित्रीकृततनुः सेवां करिष्यामि” । तथेति प्रतिपन्ने प्रतिदिनमुलूकपतिसेवकास्ते प्रकाममाहारं कृत्वा उलूकराजादेशात् प्रकृष्टमांसाहारं स्थिरजीविने प्रयच्छन्ति । अथ कतिपयैः एव अहोभिः मयूर इव स बलवान् संवृत्तः । अथ रक्ताक्षः स्थिरजीविनं पोष्यमाणं दृष्ट्वा सविस्मयो मन्त्रिजनं राजानञ्च