पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 389, कुल 536 में से
संदर्भ में पढ़ें( ३७४ ) पञ्चतन्त्रम् ।
अनागतं यः कुरुते स शोभते स शोच्यते यो न करोत्यनागतम् । वनेऽत्र संस्थस्य समागता जरा बिलस्य वाणी न कदापि मे श्रुता ॥ २२६ ॥ ”
नहीं उपस्थित हुई ( भावि ) विपदका प्रतिकार जो करता है वह शोभित होता है और जो न आई विपतका प्रतिकार नहीं करता वह कष्ट पाता है इस वनमें रहते २ मैं बूढा होगया परन्तु बिलकी वाणी कभी मैंने न सुनी ॥ २२६ ॥”
ते प्रोचुः—, “कथमेतत् ?” रक्ताक्षः कथयति—
वे बोले—“यह कैसे ?” रक्ताक्ष कहने लगा—
कथा १४.
कस्मिंश्चित् वनोद्देशे खरनखरो नाम सिंहः प्रतिवसति स्म। स कदाचित् इतश्चेतश्च परिभ्रमन् क्षुत्क्षामकण्ठो न किञ्चिदपि सत्त्वं आससाद । ततश्च अस्तमनसमये महतीं गिरिगुहां आसाद्य प्रविष्टः चिन्तयामास । “नूनं एतस्यां गुहायां रात्रौ केनापि सत्त्वेन आगन्तव्यम् । तत् निभृतो भूत्वा तिष्ठामि” । एतस्मिन्नन्तरे तत्स्वामी दधिपुच्छो नाम शृगालः समायातः, स च यावत् पश्यति, तावत् सिंहपदपद्धतिर्गुहायां प्रविष्टा न च निष्क्रमणं गता । ततश्च अचिन्तयत्, “अहो ! विनष्टोऽस्मि । नूनमस्यामन्तर्गतेन सिंहेन भाव्यम् । तत् किं करोमि ? कथं ज्ञास्यामि ?” एवं विचिन्त्य द्वारस्थः फूत्कर्तुमारब्धः—“अहो बिल ! अहो बिल !” इत्युक्त्वा तूष्णीम्भूय भूयोऽपि तथा एव प्रत्यभाषत,—“भोः ! किं न स्मरसि यत् मया त्वया सह समयः कृतोऽस्ति । यत् मया बाह्यात् समागतेन त्वं वक्तव्यः। त्वया च अहमाकारणीय इति । तद् यदि मां न आह्वयसि ततोऽहं द्वितीयं बिलं यास्यामि” । अथ तच्छ्रुत्वा सिंहः चिन्तितवान् “नूनं एषा