भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 439, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 439

( ४२४ ) पञ्चतन्त्रम् ।

कथा ५.

कस्मिंश्चिद्देशे सिंहदम्पती प्रतिवसतः स्म, अथ सिंही पुत्रद्वयमजीजनत् । सिंहोऽपि नित्यमेव मृगान् व्यापाद्य सिंह्यै ददाति, अथ अन्यस्मिन्नहनि तेन किमपि न आसादितम् । वने भ्रम्तोऽपि तस्य रविरस्तं गतः । अथ तेन स्वगृहं आगच्छता शृगालशिशुः प्राप्तः । तं च बालकोऽयमिति अवधार्य यत्नेन दंष्ट्रामध्यगतं कृत्वा सिंह्या जीवन्तमेव समर्पितवान् । ततः सिंह्या अभिहितं--"भोः कान्त ! त्वयानीतं किञ्चित् अस्माकं भोजनम्?" सिंह आह--"प्रिये! मया अद्य एनं शृगालशिशुं परित्यज्य न किञ्चित् सत्वमासादितम् । स च बालोऽयमिति मत्वा न व्यापादितो विशेषात् स्वजातीयश्च । उक्तञ्च--

किसी स्थानमें एक शेर शेरनी रहतीथी । उस समय सिंहीके दो पुत्र उत्पन्न हुए, सिंहभी नित्यही मृगोंको मारकर सिंहीको देता । तब एक दिन उसने कुछ नहीं पाया । तब उसको अपने घर आते गीदड़का बच्चा मिला । वह बालक है यह निश्चय करके यत्नसे दाढोंके भीतर धारण करके सिंहीको जीताही देता हुआ । तब सिंहि बोली--"भो स्वामिन् ! तुम कुछ हमारा भोजन लाये?" । सिंह बोला--"प्रिये ! आज इस शृगाल शिशुके सिवाय मुझे और कुछ नहीं मिला है । इसे भी बालक समझकर न मारा कारण कि सजातीय है। कहा है--

स्त्रीविप्रलिङ्गिबालेषु प्रहर्त्तव्यं न कर्हिचित् । प्राणत्यागेऽपि सञ्जाते विश्वस्तेषु विशेषतः ॥ ४१ ॥

स्त्री, ब्राह्मण और बालक इनपर कभी प्रहार नहीं करना चाहिये प्राणत्यागभी हो तो भी विशेष कर विश्वासीपर तो प्रहार करेही नहीं ॥ ४१ ॥

इदानीं त्वं एनं भक्षयित्वा पथ्यं कुरु । प्रभातेऽन्यत किञ्चित् उपार्जयिष्यामि" । सा प्राह--"भो कान्त ! त्वया बालकोऽयं विचिन्त्य न हतः । तत कथमेनमहं स्वोदरार्थे विनाशयामि । उक्तञ्च--