पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 449, कुल 536 में से
संदर्भ में पढ़ें( ४३४ ) पञ्चतन्त्रम् ।
तत् भो दुष्टमकर ! त्वमपि नन्दवररुचिवत् स्त्रीवश्यः ततो भद्र ! आगतेन त्वया मां प्रति वधोपायप्रयासः प्रारब्धः परं स्ववाग्दोषेण एव प्रकटीभूतः । अथवा साधु इदमुच्यते-
सो हे दुष्टजलचर ! तूभी नन्द और वररुचिकी समान स्त्रीके वशीभूत है । सो भद्र ! आतेही तुमने मेरे निमित्त वधके उपायका श्रम प्रारम्भ किया परन्तु तुम्हारी वाणीके दोषसेही वह प्रगट होगया है । अथवा यह अच्छा कहा है-
आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ॥ ५० ॥
तोते और मैना अपने मुख ( वाणी ) के दोषसे ही बन्धनमें पड़ते हैं और बगले नहीं बंधते मौनही सब अर्थका साधक है ॥ ५० ॥
तथाच-
और देखो-
सुगुप्तं रक्ष्यमाणोऽपि दर्शयन्दारुणं वपुः ।
व्याघ्रचर्मप्रतिच्छन्नो वाक्कृते रासभो हतः ॥ ५१ ॥”
गुप्त रक्षित हुआभी अपना दारुण शरीर दिखाता हुआ व्याघ्रके चर्मसे ढका गधा अपनी वाणीके दोषसे मारा गया ॥ ५१ ॥”
मकर आह-“कथमेतत् ?” वानरः कथयति-
मकर बोला-“यह कैसे ?” वानर कहने लगा-
कथा ८.
कस्मिंश्चित् अधिष्ठाने शुद्धपटो नाम रजकः प्रतिवसति स्म । तस्य च गर्दभः एकोऽस्ति, सोऽपि घासाभावात् अति दुर्बलतां गतः । अथ तेन रजकेन अटव्यां परिश्रमता मृत-व्याघ्रो दृष्टः । चिन्तितञ्च, “अहो ! शोभनमापतितम् । अनेन व्याघ्रचर्मणा प्रतिच्छाद्य रासभं रात्रौ यवक्षेत्रेषु उत्स्र-क्ष्यामि, येन व्याघ्रं मत्वा समीपवर्तिनः क्षेत्रपाला एनं न निष्कासयिष्यन्ति” । तथा अनुष्ठिते रासभो यथेच्छया यव-भक्षणं करोति प्रत्यूषे भूयोऽपि रजकः स्वाश्रयं नयति । एवं गच्छता कालेन स रासभः पीवरतनुर्जातः । कृच्छ्राद् बन्ध-