पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 484, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम्। ( ४६९ )
महान्त एव महतामर्थं साधयितुं क्षमाः ।
ऋते समुद्रादन्यः को बिभर्ति वडवानलम् ॥ ३५ ॥"
महान् पुरुषही महान् अर्थोंको साधनेमें समर्थ होते हैं समुद्रके बिना वडवानल धारण करनेको कौन समर्थ हो सकता है ? ॥ ३५ ॥"
भैरवानन्दोऽपि तेषां सिद्ध्यर्थं बहूपायं सिद्धवर्त्तिचतुष्टयं कृत्वा अर्पयत् । आह, च—"गम्यतां हिमालयदिशि, तत्र सम्प्राप्तानां यत्र वर्त्तिः पतिष्यति, तत्र निधानम् असन्दिग्धं प्राप्स्यथ, तत्र स्थानं खनित्वा निधिं गृहीत्वा व्याघुष्यताम्" । तथा अनुष्ठिते तेषां गच्छताम् एकतमस्य हस्ताद्वर्त्तिर्निपपात । अथ असौ यावत् तं प्रदेशं खनति तावत् ताम्रमयी भूमिः । ततः तेन अभिहितम्—"अहो ! गृह्यतां स्वेच्छया ताम्रम्" । अन्ये प्रोचुः,—"भो मूढ! किमनेन क्रियते ? तत् प्रभृतमपि दारिद्र्यं न नाशयति । तदुत्तिष्ठ अग्रतो गच्छामः" । सोऽब्रवीत्,—"यान्तु भवन्तो न अहमग्रे यास्यामि" । एवम् अभिधाय ताम्रं यथेच्छया गृहीत्वा प्रथमो निवृत्तः । ते त्रयोऽपि अग्रे प्रस्थिताः । अथ किञ्चिन्मात्रं गतस्य अग्रेसरस्य वर्त्तिः निपपात । सोऽपि यावत् खनितुम् आरब्धः तावत् रूप्यमयी क्षितिः । ततः प्रहर्षितः प्राह,—"यत् भो ! गृह्यतां यथेच्छया रूप्यम् । न अग्रे गन्तव्यम्" । तौ ऊचतुः—"भोः ! पृष्ठतः ताम्रमयी भूमिरग्रतो रूप्यमयी । तत् नूनम् अग्रे सुवर्णमयी भविष्यति । तदनेन प्रभूतेनापि दारिद्र्यनाशो न भवति । तत् आवाम् अग्रे यास्यावः"। एवमुक्त्वा द्वौ अपि अग्रे प्रस्थितौ। सोऽपि स्वशक्त्या रूप्यम् आदाय निवृत्तः । तयोरपि गच्छतोः एकस्य अग्रे वर्त्तिः पपात । सोऽपि प्रहृष्टो यावत् खनति तावत् सुवर्णभूमिं दृष्ट्वा द्वितीयं प्राह,—"भो ! गृह्यतां स्वेच्छया सुवर्णम् सुवर्णादन्यत् न किञ्चित् उत्तमं भविष्यति" । स प्राह,—"मूढ ! न किञ्चित् वेत्सि । प्राक् ताम्रं, ततो रूप्यं, ततः