भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 485, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 485

( ४७० ) पञ्चतन्त्रम् ।

सुवर्णं, तन्नूनमतः परं रत्नानि भविष्यन्ति येषाम् एकतमेनापि दारिद्र्यनाशो भवति। तदुत्तिष्ठ अग्रे गच्छावः। किमनेन भारभूतेनापि प्रभूतेन"। स आह,–"गच्छतु भवान् ! अहमत्र स्थितस्त्वां प्रतिपालयिष्यामि"। तथानुष्ठिते सोऽपि गच्छन् एकाकी ग्रीष्मार्कप्रतापसन्तप्ततनुः पिपासाकुलितः सिद्धिमार्गच्युत इतश्चेतश्च बभ्राम। अथ भ्राम्यन् स्थलोपरि पुरुषमेकं रुधिरप्लावितगात्रं भ्रमच्चक्रमस्तकमपश्यत्। ततो द्रुततरं गत्वा तम् अवोचत्,–"भोः ! को भवान् ? किमेवं चक्रेण भ्रमता शिरसि तिष्ठसि ? तत्कथय मे यदि कुत्रचित् जलमस्ति ?"। एवं तस्य प्रवदतः तच्चक्रं तत्क्षणात् तस्य शिरसो ब्राह्मणमस्तके चटितम्। स आह–"भद्र ! किमेतत् ?" स आह,–"यन्ममापि एवमेव एतत् शिरसि चटितम्"। स आह–"तत्कथय, कदा एतत् उत्तरिष्यति ?। महती मे वेदना वर्तते"। स आह,–"यदा त्वमिव कश्चिद् धृतसिद्धिवर्त्तिः एवमागत्य त्वाम् आलापयिष्यति तदा तस्य मस्तके चटिष्यति"। आह,–"कियान् कालस्तव एवं स्थितस्य?"। स आह,–"साम्प्रतं को राजा धरणीतले ?" स आह,–"वीणावत्सराजः"। स आह,–"अहं तावत् कालसंख्यां न जानामि। परं यदा रामो राजा आसीत् तदाहं दारिद्र्योपहतः सिद्धिवर्त्तिमादाय अनेन पथा समायातः। ततो मया अन्यो नरो मस्तकधृतचक्रो दृष्टः पृष्टश्च। ततश्च एतत् जातम्"। स आह,–"भद्र ! कथं तव एवं स्थितस्य भोजनजलप्राप्तिः आसीत् ?"। स आह,–"भद्र ! धनदेन निधानहरणभयात् सिद्धानामेतत् भयं दर्शितं तेन कश्चिदपि न आगच्छति। यदि कश्चित् आयाति स क्षुत्पिपासानिद्रारहितो जरामरणवर्जितः केवलमेवं वेदनाम् अनुभवतीति। तदाज्ञापय मां स्वगृहाय," इत्युक्त्वा गतः। अथ तस्मिन् चिरयति स सुवर्णसिद्धिः तस्य अन्वेषणपरः तत्पदपंक्त्या यावत्