भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 488, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 488

भाषाटीकासमेतम् । (४७३)

वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा ।
बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ॥ ३६ ॥

बुद्धि अच्छी है वैसी विद्या अच्छी नहीं बुद्धिहीन मनुष्य सिंहकारकोंकी समान नष्ट होते हैं ॥ ३६ ॥

चक्रधर आह-“कथमेतत् ?” सुवर्णसिद्धिः आह-
चक्रधर बोला,-“यह कैसी कथा ?” सुवर्णसिद्धि बोला-

कथा ४.

कस्मिंश्चित् अधिष्ठाने चत्वारो ब्राह्मणपुत्राः परस्परं मित्रभावम् उपगता वसन्ति स्म । तेषां त्रयः शास्त्रपारंगताः परन्तु बुद्धिरहिताः । एकस्तु बुद्धिमान्, केवलं शास्त्रपराङ्मुखः। अथ तैः कदाचित् मित्रैः मन्त्रितम् । “को गुणो विद्याया येन देशान्तरं गत्वा भूपतीन् परितोष्य अर्थोपार्जना न क्रियेते ? तत्पूर्वदेशं गच्छामः” । तथानुष्ठिते किञ्चिन्मार्गं गत्वा तेषां ज्येष्ठतरः प्राह,-“अहो ! अस्माकमेकः चतुर्थो मूढः केवलं बुद्धिमान् । न च राजप्रतिग्रहो बुद्ध्या लभ्यते विद्यां विना । तन्न अस्मै स्वोपार्जितं दास्यामि । तद्गच्छतु गृहम्” । ततो द्वितीयेन अभिहितम्-“भो सुबुद्धे ! गच्छ त्वं स्वगृहं यतः ते विद्या नास्ति” । ततः तृतीयेन अभिहितम्,-“अहो ! न युज्यते एवं कर्तुं यतो वयं बाल्यात् प्रभृति एकत्र क्रीडिताः तत् आगच्छतु महानुभावोऽस्मदुपार्जितवित्तस्य समभागी भविष्यतीति । उक्तञ्च-

किसी स्थानमें चार ब्राह्मणके पुत्र परस्पर मित्रभावको प्राप्त हुए रहते थे । उनमें तीन तो शास्त्रके पारगामी थे परन्तु बुद्धिहीन थे । एक उनमें बुद्धिमान् केवल शास्त्रसे पराङ्मुख था । तब उन मित्रोंने एक समय सम्मति करी । “विद्यासे क्या गुण है जिससे देशान्तरमें जाकर राजाओंको सन्तुष्ट करके धन उपार्जन न किया जाय । सो पूर्व देशको चलें । ऐसा कहकर कुछ मार्गमें जाकर उनमें ज्येष्ठतर बोला,-“अहो हममें एक ही चौथा मूढ केवल बुद्धिमान् परन्तु राजासे भेट केवल बुद्धिसे विद्याके बिना प्राप्त नहीं होती । सो हम इसको अपना